Sri Varahi Dwadasa Nama Stotram – श्री वाराही द्वादशनाम स्तोत्रम्


हयग्रीव उवाच ।
शृणु द्वादशनामानि तस्या देव्या घटोद्भव ।
यदाकर्णनमात्रेण प्रसन्ना सा भविष्यति ॥ १ ॥

पञ्चमी दण्डनाथा च सङ्केता समयेश्वरी ।
तथा समयसङ्केता वाराही पोत्रिणी शिवा ॥ २ ॥

वार्ताली च महासेनाप्याज्ञाचक्रेश्वरी तथा ।
अरिघ्नी चेति सम्प्रोक्तं नामद्वादशकं मुने ॥ ३ ॥

नामद्वादशकाभिख्य वज्रपञ्जर मध्यगः ।
सङ्कटे दुःखमाप्नोति न कदाचन मानवः ॥ ४ ॥

एतैर्नामभिरभ्रस्थाः सङ्केतां बहु तुष्टुवुः ।
तेषामनुग्रहार्थाय प्रचचाल च सा पुनः ॥ ५ ॥

इति श्रीब्रह्माण्डपुराणे ललितोपाख्याने सप्तदशोध्याये श्री वाराही द्वादशनाम स्तोत्रम् ।


इतर श्री वाराही स्तोत्राणि पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed