Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
श्रीकण्ठार्पितपत्रगण्डयुगलां सिंहासनाध्यासिनीं
लोकानुग्रहकारिणीं गुणवतीं लोलेक्षणां शाङ्करीम् ।
पाकारिप्रमुखामरार्चितपदां मत्तेभकुम्भस्तनीं
श्रीशैलभ्रमराम्बिकां भज मनः श्रीशारदासेविताम् ॥ १ ॥
विन्ध्याद्रीन्द्रगृहान्तरे निवसितां वेदान्तवेद्यानिधिं
मन्दारद्रुमपुष्पवासितकुचां मायां महामायिनीम् ।
बन्धूकप्रसवोज्ज्वलारुणनिभां पञ्चाक्षरीरूपिणीं
श्रीशैलभ्रमराम्बिकां भज मनः श्रीशारदासेविताम् ॥ २ ॥
माद्यच्छुम्भनिशुम्भमेघपटलप्रध्वंसझञ्झानिलां
कौमारीं महिषाख्यशुष्कविटपीधूमोरुदावानलाम् ।
चक्राद्यायुधसङ्ग्रहोज्ज्वलकरां चामुण्डिकाधीश्वरीं
श्रीशैलभ्रमराम्बिकां भज मनः श्रीशारदासेविताम् ॥ ३ ॥
दृक्कञ्जातविलासकल्पितसरोजातोरुशोभान्वितां
नक्षत्रेश्वरशेखरप्रियतमां देवीं जगन्मोहिनीम् ।
रञ्जन्मङ्गलदायिनीं शुभकरीं राजत्स्वरूपोज्ज्वलां
श्रीशैलभ्रमराम्बिकां भज मनः श्रीशारदासेविताम् ॥ ४ ॥
केलीमन्दिरराजताचलतलां सम्पूर्णचन्द्राननां
योगीन्द्रैर्नुतपादपङ्कजयुगां रत्नाम्बरालङ्कृताम् ।
स्वर्गावाससरोजपत्रनयनाभीष्टप्रदां निर्मलां
श्रीशैलभ्रमराम्बिकां भज मनः श्रीशारदासेविताम् ॥ ५ ॥
संसारार्णवतारकां भगवतीं दारिद्र्यविध्वंसिनीं
सन्ध्याताण्डवकेलिकां प्रियसतीं सद्भक्तकामप्रदाम् ।
शिञ्जन्नूपुरपादपङ्कजयुगां बिम्बाधरां श्यामलां
श्रीशैलभ्रमराम्बिकां भज मनः श्रीशारदासेविताम् ॥ ६ ॥
चञ्चत्काञ्चनरत्नचारुकटकां सर्वं सहावल्लभां
काञ्चीकाञ्चनघण्टिकाघणघणां कञ्जातपत्रेक्षणाम् ।
सारोदारगुणाञ्चितां पुरहरप्राणेश्वरीं शाम्भवीं
श्रीशैलभ्रमराम्बिकां भज मनः श्रीशारदासेविताम् ॥ ७ ॥
ब्रह्मर्षीश्वरवन्द्यपादकमलां पङ्केरुहाक्षस्तुतां
प्रालेयाचलवंशपावनकरीं शृङ्गारभूषानिधिम् ।
तत्त्वातीतमहाप्रभां विजयिनीं दाक्षायिणीं भैरवीं
श्रीशैलभ्रमराम्बिकां भज मनः श्रीशारदासेविताम् ॥ ८ ॥
भ्रमराम्बा महादेव्याः अष्टकं सर्वसिद्धिदम् ।
शत्रूणां तु नराणां च ध्वंसनं तद्वदाम्यहम् ॥ ९ ॥
इति श्रीदूर्वासविरचितं श्रीभ्रमराम्बिकाष्टकम् ।
इतर देवी स्तोत्राणि पश्यतु ।
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.