Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
॥ तिरोहितरावणियुद्धम् ॥
मकराक्षं हतं श्रुत्वा रावणः समितिञ्जयः ।
क्रोधेन महताऽऽविष्टो दन्तान्कटकटापयन् ॥ १ ॥
कुपितश्च तदा तत्र किं कार्यमिति चिन्तयन् ।
आदिदेशाथ सङ्क्रुद्धो रणायेन्द्रजितं सुतम् ॥ २ ॥
जहि वीर महावीर्यौ भ्रातरौ रामलक्ष्मणौ ।
अदृश्यो दृश्यमानो वा सर्वथा त्वं बलाधिकः ॥ ३ ॥
त्वमप्रतिमकर्माणमिन्द्रं जयसि सम्युगे ।
किं पुनर्मानुषौ दृष्ट्वा न वधिष्यसि सम्युगे ॥ ४ ॥
तथोक्तो राक्षसेन्द्रेण प्रतिगृह्य पितुर्वचः ।
यज्ञभूमौ स विधिवत्पावकं जुहवेन्द्रजित् ॥ ५ ॥
जुह्वतश्चापि तत्राग्निं रक्तोष्णीषधराः स्त्रियः ।
आजग्मुस्तत्र सम्भ्रान्ता राक्षस्यो यत्र रावणिः ॥ ६ ॥
शस्त्राणि शरपत्राणि समिधोऽथ विभीतकाः ।
लोहितानि च वासांसि स्रुवं कार्ष्णायसं तथा ॥ ७ ॥
सर्वतोऽग्निं समास्तीर्य शरपत्रैः सतोमरैः ।
छागस्य कृष्णवर्णस्य गलं जग्राह जीवतः ॥ ८ ॥
सकृदेव समिद्धस्य विधूमस्य महार्चिषः ।
बभूवुस्तानि लिङ्गानि विजयं दर्शयन्ति च ॥ ९ ॥
प्रदक्षिणावर्तशिखस्तप्तहाटकसन्निभः ।
हविस्तत्प्रतिजग्राह पावकः स्वयमुत्थितः ॥ १० ॥
हुत्वाऽग्निं तर्पयित्वा च देवदानवराक्षसान् ।
आरुरोह रथश्रेष्ठमन्तर्धानगतं शुभम् ॥ ११ ॥
स वाजिभिश्चतुर्भिश्च बाणैश्च निशितैर्युतः ।
आरोपितमहाचापः शुशुभे स्यन्दनोत्तमः ॥ १२ ॥
जाज्वल्यमानो वपुषा तपनीयपरिच्छदः ।
मृगैश्चन्द्रार्धचन्द्रैश्च सरथः समलङ्कृतः ॥ १३ ॥
जाम्बूनदमहाकम्बुर्दीप्तपावकसन्निभः ।
बभूवेन्द्रजितः केतुर्वैडूर्यसमलङ्कृतः ॥ १४ ॥
तेन चादित्यकल्पेन ब्रह्मास्त्रेण च पालितः ।
स बभूव दुराधर्षो रावणिः सुमहाबलः ॥ १५ ॥
सोऽभिनिर्याय नगरादिन्द्रजित्समितिञ्जयः ।
हुत्वाऽग्निं राक्षसैर्मन्त्रैरन्तर्धानगतोऽब्रवीत् ॥ १६ ॥
अद्य हत्वा रणे यौ तौ मिथ्या प्रव्राजितौ वने ।
जयं पित्रे प्रदास्यामि रावणाय रणार्जितम् ॥ १७ ॥
अद्य निर्वानरामुर्वीं हत्वा रामं सलक्ष्मणम् ।
करिष्ये परमप्रीतिमित्युक्त्वाऽन्तरधीयत ॥ १८ ॥
आपपाताथ सङ्क्रुद्धो दशग्रीवेण चोदितः ।
तीक्ष्णकार्मुकनाराचैस्तीक्ष्णस्त्विन्द्ररिपू रणे ॥ १९ ॥
स ददर्श महावीर्यौ नागौ त्रिशिरसाविव ।
सृजन्ताविषुजालानि वीरौ वानरमध्यगौ ॥ २० ॥
इमौ ताविति सञ्चिन्त्य सज्यं कृत्वा च कार्मुकम् ।
सन्ततानेषुधाराभिः पर्जन्य इव वृष्टिमान् ॥ २१ ॥
स तु वैहायसं प्राप्य सरथो रामलक्ष्मणौ ।
अचक्षुर्विषये तिष्ठन्विव्याध निशितैः शरैः ॥ २२ ॥
तौ तस्य शरवेगेन परीतौ रामलक्ष्मणौ ।
धनुषी सशरे कृत्वा दिव्यमस्त्रं प्रचक्रतुः ॥ २३ ॥
प्रच्छादयन्तौ गगनं शरजालैर्महाबलौ ।
तमस्त्रैः सूर्यसङ्काशैर्नैव पस्पृशतुः शरैः ॥ २४ ॥
स हि धूमान्धकारं च चक्रे प्रच्छादयन्नभः ।
दिशश्चान्तर्दधे श्रीमान्नीहारतमसा वृताः ॥ २५ ॥
नैव ज्यातलनिर्घोषो न च नेमिखुरस्वनः ।
शुश्रुवे चरतस्तस्य न च रूपं प्रकाशते ॥ २६ ॥
घनान्धकारे तिमिरे शरवर्षमिवाद्भुतम् ।
स ववर्ष महाबाहुर्नाराचशरवृष्टिभिः ॥ २७ ॥
स रामं सूर्यसङ्काशैः शरैर्दत्तवरो भृशम् ।
विव्याध समरे क्रुद्धः सर्वगात्रेषु रावणिः ॥ २८ ॥
तौ हन्यमानौ नाराचैर्धाराभिरिव पर्वतौ ।
हेमपुङ्खान्नरव्याघ्रौ तिग्मान्मुमुचतुः शरान् ॥ २९ ॥
अन्तरिक्षे समासाद्य रावणिं कङ्कपत्रिणः ।
निकृत्य पतगा भूमौ पेतुस्ते शोणितोक्षिताः ॥ ३० ॥
अतिमात्रं शरौघेण पीड्यमानौ नरोत्तमौ ।
तानिषून्पततो भल्लेरनेकैर्निचकृन्ततुः ॥ ३१ ॥
यतो हि ददृशाते तौ शरान्निपततः शितान् ।
ततस्तु तौ दाशरथी ससृजातेऽस्त्रमुत्तमम् ॥ ३२ ॥
रावणिस्तु दिशः सर्वा रथेनातिरथः पतन् ।
विव्याध तौ दाशरथी लघ्वस्त्रो निशितैः शरैः ॥ ३३ ॥
तेनातिविद्धौ तौ वीरौ रुक्मपुङ्खैः सुसंहितैः ।
बभूवतुर्दाशरथी पुष्पिताविव किंशुकौ ॥ ३४ ॥
नास्य वेद गतिं कश्चिन्न च रूपं धनुः शरान् ।
न चान्यद्विदितं किञ्चित्सूर्यस्येवाभ्रसम्प्लवे ॥ ३५ ॥
तेन विद्धाश्च हरयो निहताश्च गतासवः ।
बभूवुः शतशस्तत्र पतिता धरणीतले ॥ ३६ ॥
लक्ष्मणस्तु सुसङ्क्रुद्धो भ्रातरं वाक्यमब्रवीत् ।
ब्राह्ममस्त्रं प्रयोक्ष्यामि वधार्थं सर्वरक्षसाम् ॥ ३७ ॥
तमुवाच ततो रामो लक्ष्मणं शुभलक्षणम् ।
नैकस्य हेतो रक्षांसि पृथिव्यां हन्तुमर्हसि ॥ ३८ ॥
अयुध्यमानं प्रच्छन्नं प्राञ्जलिं शरणागतम् ।
पलायन्तं प्रमत्तं वा न त्वं हन्तुमिहार्हसि ॥ ३९ ॥
अस्यैव तु वधे यत्नं करिष्यावो महाबल ।
आदेक्ष्यावो महावेगानस्त्रानाशीविषोपमान् ॥ ४० ॥
तमेनं मायिनं क्षुद्रमन्तर्हितरथं बलात् ।
राक्षसं निहनिष्यन्ति दृष्ट्वा वानरयूथपाः ॥ ४१ ॥
यद्येष भूमिं विशते दिवं वा
रसातलं वाऽपि नभःस्थलं वा ।
एवं निगूढोऽपि ममास्त्रदग्धः
पतिष्यते भूमितले गतासुः ॥ ४२ ॥
इत्येवमुक्त्वा वचनं महात्मा
रघुप्रवीरः प्लवगर्षभैर्वृतः ।
वधाय रौद्रस्य नृशंसकर्मण-
-स्तदा महात्मा त्वरितं निरीक्षते ॥ ४३ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे अशीतितमः सर्गः ॥ ८० ॥
युद्धकाण्ड एकाशीतितमः सर्गः (८१) >>
सम्पूर्ण वाल्मीकि रामायणे युद्धकाण्ड पश्यतु ।
గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.