Yuddha Kanda Sarga 128 – युद्धकाण्ड अष्टाविंशत्युत्तरशततमः सर्गः (१२८)

॥ भरतप्रियाख्यानम् ॥

अयोध्यां तु समालोक्य चिन्तयामास राघवः ।
चिन्तयित्वा हनूमन्तमुवाच प्लवगोत्तमम् ॥ १ ॥

जानीहि कच्चित्कुशली जनो नृपतिमन्दिरे ।
शृङ्गिबेरपुरं प्राप्य गुहं गहनगोचरम् ॥ २ ॥

निषादाधिपतिं ब्रूहि कुशलं वचनान्मम ।
श्रुत्वा तु मां कुशलिनमरोगं विगतज्वरम् ॥ ३ ॥

भविष्यति गुहः प्रीतः स ममात्मसमः सखा ।
अयोध्यायाश्च ते मार्गं प्रवृत्तिं भरतस्य च ॥ ४ ॥

निवेदयिष्यति प्रीतो निषादाधिपतिर्गुहः ।
भरतस्तु त्वया वाच्यः कुशलं वचनान्मम ॥ ५ ॥

सिद्धार्थं शंस मां तस्मै सभार्यं सहलक्ष्मणम् ।
हरणं चापि वैदेह्या रावणेन बलीयसा ॥ ६ ॥

सुग्रीवेण च संसर्गं वालिनश्च वधं रणे ।
मैथिल्यन्वेषणं चैव यथा चाधिगता त्वया ॥ ७ ॥

लङ्घयित्वा महातोयमापगापतिमव्ययम् ।
उपायानं समुद्रस्य सागरस्य च दर्शनम् ॥ ८ ॥

यथा च कारितः सेतू रावणश्च यथा हतः ।
वरदानं महेन्द्रेण ब्रह्मणा वरुणेन च ॥ ९ ॥

महादेवप्रसादाच्च पित्रा मम समागमम् ।
उपयान्तं च मां सौम्यं भरतस्य निवेदय ॥ १० ॥

सह राक्षसराजेन हरीणां प्रवरेण च ।
एतच्छ्रुत्वा यमाकारं भजते भरतस्तदा ॥ ११ ॥

स च ते वेदितव्यः स्यात्सर्वं यच्चापि मां प्रति ।
जित्वा शत्रुगणान्रामः प्राप्य चानुत्तमं यशः ॥ १२ ॥

उपयाति समृद्धार्थः सह मित्रैर्महाबलैः ।
ज्ञेयाश्च सर्वे वृत्तान्ता भरतस्येङ्गितानि च ॥ १३ ॥

तत्त्वेन मुखवर्णेन दृष्ट्या व्याभाषणेन च ।
सर्वकामसमृद्धं हि हस्त्यश्वरथसङ्कुलम् ॥ १४ ॥

पितृपैतामहं राज्यं कस्य नावर्तयेन्मनः ।
सङ्गत्या भरतः श्रीमान्राज्यार्थी चेत्स्वयं भवेत् ॥ १५ ॥

प्रशास्तु वसुधां कृत्स्नामखिलां रघुनन्दनः ।
तस्य बुद्धिं च विज्ञाय व्यवसायं च वानर ॥ १६ ॥

यावन्न दूरं याताः स्म क्षिप्रमागन्तुमर्हसि ।
इति प्रतिसमादिष्टो हनुमान्मारुतात्मजः ॥ १७ ॥

मानुषं धारयन्रूपमयोध्यां त्वरितो ययौ ।
अथोत्पपात वेगेन हनुमान्मारुतात्मजः ॥ १८ ॥

गरुत्मानिव वेगेन जिघृक्षन्भुजगोत्तमम् ।
लङ्घयित्वा पितृपथं भुजगेन्द्रालयं शुभम् ॥ १९ ॥

गङ्गायमुनयोर्मध्यं सन्निपातमतीत्य च ।
शृङ्गिबेरपुरं प्राप्य गुहमासाद्य वीर्यवान् ॥ २० ॥

स वाचा शुभया हृष्टो हनुमानिदमब्रवीत् ।
सखा तु तव काकुत्स्थो रामः सत्यपराक्रमः ॥ २१ ॥

सहसीतः ससौमित्रिः स त्वां कुशलमब्रवीत् ।
पञ्चमीमद्य रजनीमुषित्वा वचनान्मुनेः ॥ २२ ॥

भरद्वाजाभ्यनुज्ञातं द्रक्ष्यस्यद्यैव राघवम् ।
एवमुक्त्वा महातेजाः सम्प्रहृष्टतनूरुहः ॥ २३ ॥

उत्पपात महावेगो वेगवानविचारयन् ।
सोऽपश्यद्रामतीर्थं च नदीं वालुकिनीं तथा ॥ २४ ॥

गोमतीं तां च सोऽपश्यद्भीमं सालवनं तथा ।
प्रजाश्च बहुसाहस्राः स्फीताञ्जनपदानपि ॥ २५ ॥

स गत्वा दूरमध्वानं त्वरितः कपिकुञ्जरः ।
आससाद द्रुमान्फुल्लान्नन्दिग्रामसमीपगान् ॥ २६ ॥

स्त्रीभिः सपुत्रैर्वृद्धैश्च रममाणैरलङ्कृतान् ।
सुराधिपस्योपवने यथा चैत्ररथे द्रुमान् ॥ २७ ॥

क्रोशमात्रे त्वयोध्यायाश्चीरकृष्णाजिनाम्बरम् ।
ददर्श भरतं दीनं कृशमाश्रमवासिनम् ॥ २८ ॥

जटिलं मलदिग्धाङ्गं भ्रातृव्यसनकर्शितम् ।
फलमूलाशिनं दान्तं तापसं धर्मचारिणम् ॥ २९ ॥

समुन्नतजटाभारं वल्कलाजिनवाससम् ।
नियतं भावितात्मानं ब्रह्मर्षिसमतेजसम् ॥ ३० ॥

पादुके ते पुरस्कृत्य शासन्तं वै वसुन्धराम् ।
चातुर्वर्ण्यस्य लोकस्य त्रातारं सर्वतो भयात् ॥ ३१ ॥

उपस्थितममात्यैश्च शुचिभिश्च पुरोहितैः ।
बलमुख्यैश्च युक्तैश्च काषायाम्बरधारिभिः ॥ ३२ ॥

न हि ते राजपुत्रं तं चीरकृष्णाजिनाम्बरम् ।
परिभोक्तुं व्यवस्यन्ति पौरा वै धर्मवत्सलम् ॥ ३३ ॥

तं धर्ममिव धर्मज्ञं देहवन्तमिवापरम् ।
उवाच प्राञ्जलिर्वाक्यं हनुमान्मरुतात्मजः ॥ ३४ ॥

वसन्तं दण्डकारण्ये यं त्वं चीरजटाधरम् ।
अनुशोचसि काकुत्स्थं स त्वां कुशलमब्रवीत् ॥ ३५ ॥

प्रियमाख्यामि ते देव शोकं त्यज सुदारुणम् ।
अस्मिन्मुहूर्ते भ्रात्रा त्वं रामेण सह सङ्गतः ॥ ३६ ॥

निहत्य रावणं रामः प्रतिलभ्य च मैथिलीम् ।
उपयाति समृद्धार्थः सह मित्रैर्महाबलैः ॥ ३७ ॥

लक्ष्मणश्च महातेजा वैदेही च यशस्विनी ।
सीता समग्रा रामेण महेन्द्रेण यथा शची ॥ ३८ ॥

एवमुक्तो हनुमता भरतो भ्रातृवत्सलः ।
पपात सहसा हृष्टो हर्षान्मोहं जगाम ह ॥ ३९ ॥

ततो मुहूर्तादुत्थाय प्रत्याश्वस्य च राघवः ।
हनुमन्तमुवाचेदं भरतः प्रियवादिनम् ॥ ४० ॥

अशोकजैः प्रीतिमयैः कपिमालिङ्ग्य सम्भ्रमात् ।
सिषेच भरतः श्रीमान्विपुलैरस्रबिन्दुभिः ॥ ४१ ॥

देवो वा मानुषो वा त्वमनुक्रोशादिहागतः ।
प्रियाख्यानस्य ते सौम्य ददामि ब्रुवतः प्रियम् ॥ ४२ ॥

गवां शतसहस्रं च ग्रामाणां च शतं परम् ।
सुकुण्डलाः शुभाचारा भार्याः कन्याश्च षोडश ॥ ४३ ॥

हेमवर्णाः सुनासोरूः शशिसौम्याननाः स्त्रियः ।
सर्वाभरणसम्पन्नाः सम्पन्नाः कुलजातिभिः ॥ ४४ ॥

निशम्य रामागमनं नृपात्मजः
कपिप्रवीरस्य तदद्भुतोपमम् ।
प्रहर्षितो रामदिदृक्षयाभवत्
पुनश्च हर्षादिदमब्रवीद्वचः ॥ ४५ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे अष्टाविंशत्युत्तरशततमः सर्गः ॥ १२८ ॥

युद्धकाण्ड एकोनत्रिंशदुत्तरशततमः सर्गः (१२९) >>


सम्पूर्ण वाल्मीकि रामायणे युद्धकाण्ड पश्यतु ।


గమనిక: "శ్రీ శివ స్తోత్రనిధి" పుస్తకము ముద్రణ చేయుటకు ఆలోచన చేయుచున్నాము.

Facebook Comments

You may also like...

error: Not allowed
%d bloggers like this: