Yati Panchakam (Kaupeena Panchakam) – यतिपञ्चकम्
Language : తెలుగు : ಕನ್ನಡ : தமிழ் : देवनागरी : English (IAST)
वेदान्तवाक्येषु सदा रमन्तः
भिक्षान्नमात्रेण च तुष्टिमन्तः ।
विशोकमन्तःकरणे रमन्तः
कौपीनवन्तः खलु भाग्यवन्तः ॥ १ ॥
मूलं तरोः केवलमाश्रयन्तः
पाणिद्वयं भोक्तुममन्त्रयन्तः ।
श्रियं च कन्थामिव कुत्सयन्तः
कौपीनवन्तः खलु भाग्यवन्तः ॥ २ ॥
देहादिभावं परिमार्जयन्तः
आत्मानमात्मन्यवलोकयन्तः ।
नान्तं न मध्यं न बहिः स्मरन्तः
कौपीनवन्तः खलु भाग्यवन्तः ॥ ३ ॥
स्वानन्दभावे परितुष्टिमन्तः
संशान्तसर्वेन्द्रियदृष्टिमन्तः ।
अहर्निशं ब्रह्मणि ये रमन्तः
कौपीनवन्तः खलु भाग्यवन्तः ॥ ४ ॥
ब्रह्माक्षरं पावनमुच्चरन्तः
पतिं पशूनां हृदि भावयन्तः ।
भिक्षाशना दिक्षु परिभ्रमन्तः
कौपीनवन्तः खलु भाग्यवन्तः ॥ ५ ॥
कौपीनपञ्चरत्नस्य मननं याति यो नरः ।
विरक्तिं धर्मविज्ञानं लभते नात्र सम्शयः ॥
इति श्री शङ्करभगवत्पाद विरचितं यतिपञ्चकम् ॥
इतर विविध स्तोत्राणि पश्यतु । इतर श्री गुरु स्तोत्राणि पश्यतु ।
గమనిక: శ్రీరామచంద్రమూర్తి మరియు ఆంజనేయస్వామి వార్ల స్తోత్రములతో "శ్రీరామ స్తోత్రనిధి" అనే పుస్తకము ప్రచురించుటకు ఆలోచన చేయుచున్నాము. సహకరించగలరు.
Chant other stotras from home page of తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.