Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
अस्य गायत्री मन्त्रः ।
ओं तत्पुरुषाय विद्महे वक्रतुण्डाय धीमहि । तन्नो दन्तिः प्रचोदयात् ॥
ओङ्कारमाद्यं प्रवदन्ति सन्तो
वाचः श्रुतीनामपि यं गृणन्ति ।
गजाननं देवगणानताङ्घ्रिं
भजेऽहमर्धेन्दुकलावतंसम् ॥ १ ॥
पादारविन्दार्चन तत्पराणां
संसारदावानलभङ्गदक्षम् ।
निरन्तरं निर्गतदानतोयै-
-स्तं नौमि विघ्नेश्वरमम्बुदाभम् ॥ २ ॥
कृताङ्गरागं नवकुङ्कुमेन
मत्तालिजालं मदपङ्कमग्नम् ।
निवारयन्तं निजकर्णतालैः
को विस्मरेत्पुत्रमनङ्गशत्रोः ॥ ३ ॥
शम्भोर्जटाजूटनिवासिगङ्गा-
-जलं समानीय कराम्बुजेन ।
लीलाभिराराच्छिवमर्चयन्तं
गजाननं भक्तियुता भजन्ति ॥ ४ ॥
कुमारमुक्तौ पुनरात्महेतोः
पयोधरौ पर्वतराजपुत्र्याः ।
प्रक्षालयन्तं करशीकरेण
मौग्ध्येन तं नागमुखं भजामि ॥ ५ ॥
त्वया समुद्धृत्य गजास्य हस्ता-
-द्ये शीकराः पुष्कररन्ध्रमुक्ताः ।
व्योमाङ्गणे ते विचरन्ति ताराः
कालात्मना मौक्तिकतुल्यभासः ॥ ६ ॥
क्रीडारते वारिनिधौ गजास्ये
वेलामतिक्रामति वारिपूरे ।
कल्पावसानं परिचिन्त्य देवाः
कैलासनाथं श्रुतिभिः स्तुवन्ति ॥ ७ ॥
नागानने नागकृतोत्तरीये
क्रीडारते देवकुमारसङ्घैः ।
त्वयि क्षणं कालगतिं विहाय
तौ प्रापतुः कन्दुकतामिनेन्दू ॥ ८ ॥
मदोल्लसत्पञ्चमुखैरजस्र-
-मध्यापयन्तं सकलागमार्थम् ।
देवानृषीन्भक्तजनैकमित्रं
हेरम्बमर्कारुणमाश्रयामि ॥ ९ ॥
पादाम्बुजाभ्यामतिवामनाभ्यां
कृतार्थयन्तं कृपया धरित्रीम् ।
अकारणं कारणमाप्तवाचां
तं नागवक्त्रं न जहाति चेतः ॥ १० ॥
येनार्पितं सत्यवतीसुताय
पुराणमालिख्य विषाणकोट्या ।
तं चन्द्रमौलेस्तनयं तपोभि-
-रावाप्यमानन्दघनं भजामि ॥ ११ ॥
पदं श्रुतीनामपदं स्तुतीनां
लीलावतारं परमात्ममूर्तेः ।
नागात्मको वा पुरुषात्मको वा
त्वभेद्यमाद्यं भज विघ्नराजम् ॥ १२ ॥
पाशाङ्कुशौ भग्नरदं त्वभीष्टं
करैर्दधानं कररन्ध्रमुक्तैः ।
मुक्ताफलाभैः पृथुशीकरौघैः
सिञ्चन्तमङ्गं शिवयोर्भजामि ॥ १३ ॥
अनेकमेकं गजमेकदन्तं
चैतन्यरूपं जगदादिबीजम् ।
ब्रह्मेति यं वेदवितो वदन्ति
तं शम्भुसूनुं सततं प्रपद्ये ॥ १४ ॥
स्वाङ्कस्थिताया निजवल्लभाया
मुखाम्बुजालोकन लोलनेत्रम् ।
स्मेराननाब्जं मदवैभवेन
रुद्धं भजे विश्वविमोहनं तम् ॥ १५ ॥
ये पूर्वमाराध्य गजानन त्वां
सर्वाणि शास्त्राणि पठन्ति तेषाम् ।
त्वत्तो न चान्यत्प्रतिपाद्यमेतै-
-स्तदस्ति चेत्सर्वमसत्यकल्पम् ॥ १६ ॥
हिरण्यवर्णं जगदीशितारं
कविं पुराणं रविमण्डलस्थम् ।
गजाननं यं प्रविशन्ति सन्त-
-स्तत्कालयोगैस्तमहं प्रपद्ये ॥ १७ ॥
वेदान्तगीतं पुरुषं भजेऽह-
-मात्मानमानन्दघनं हृदिस्थम् ।
गजाननं यन्महसा जनानां
विघ्नान्धकारो विलयं प्रयाति ॥ १८ ॥
शम्भोः समालोक्य जटाकलापे
शशाङ्कखण्डं निजपुष्करेण ।
स्वभग्नदन्तं प्रविचिन्त्य मौग्ध्या-
-दाक्रष्टुकामः श्रियमातनोतु ॥ १९ ॥
विघ्नार्गलानां विनिपातनार्थं
यं नारिकेलैः कदलीफलाद्यैः ।
प्रतारयन्ते मदवारणास्यं
प्रभुं सदाऽभीष्टमहं भजेयम् ॥ २० ॥
यज्ञैरनेकैर्बहुभिस्तपोभि-
-राराध्यमाद्यं गजराजवक्त्रम् ।
स्तुत्यानया ये विधिवत्स्तुवन्ति
ते सर्वलक्ष्मीनिलया भवन्ति ॥ २१ ॥
इति श्री वक्रतुण्ड गणेश स्तवराजः ।
इतर श्री गणेश स्तोत्राणि पश्यतु ।
మా ప్రచురణ: "శ్రీ బగళాముఖీ స్తోత్రనిధి (తాత్పర్య సహితం)" ప్రింటింగు పూర్తి అయి కొనుగోలుకు సిద్ధంగా ఉంది.
స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా తెలుగు వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.
Support this Dharma Karya : If you find value in the Stotranidhi collection, please consider supporting this work. You can make a contribution through these links - PhonePe/GooglePay/BHIM (within India) or Paypal (outside India)
Buy Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".
విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.
Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

