Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
श्रीरामसौमित्रिजटायुवेद
षडाननादित्य कुजार्चिताय ।
श्रीनीलकण्ठाय दयामयाय
श्रीवैद्यनाथाय नमः शिवाय ॥ १ ॥
गङ्गाप्रवाहेन्दु जटाधराय
त्रिलोचनाय स्मर कालहन्त्रे ।
समस्त देवैरभिपूजिताय
श्रीवैद्यनाथाय नमः शिवाय ॥ २ ॥
भक्तप्रियाय त्रिपुरान्तकाय
पिनाकिने दुष्टहराय नित्यम् ।
प्रत्यक्षलीलाय मनुष्यलोके
श्रीवैद्यनाथाय नमः शिवाय ॥ ३ ॥
प्रभूतवातादि समस्तरोग-
-प्रणाशकर्त्रे मुनिवन्दिताय ।
प्रभाकरेन्द्वग्निविलोचनाय
श्रीवैद्यनाथाय नमः शिवाय ॥ ४ ॥
वाक्ष्रोत्रनेत्राङ्घ्रि विहीनजन्तोः
वाक्ष्रोत्रनेत्राङ्घ्रि सुखप्रदाय ।
कुष्ठादिसर्वोन्नतरोगहन्त्रे
श्रीवैद्यनाथाय नमः शिवाय ॥ ५ ॥
वेदान्तवेद्याय जगन्मयाय
योगीश्वरध्येयपदाम्बुजाय ।
त्रिमूर्तिरूपाय सहस्रनाम्ने
श्रीवैद्यनाथाय नमः शिवाय ॥ ६ ॥
स्वतीर्थमृद्भस्मभृताङ्गभाजां
पिशाचदुःखार्तिभयापहाय ।
आत्मस्वरूपाय शरीरभाजां
श्रीवैद्यनाथाय नमः शिवाय ॥ ७ ॥
श्रीनीलकण्ठाय वृषध्वजाय
स्रक्गन्धभस्माद्यभिशोभिताय ।
सुपुत्रदारादि सुभाग्यदाय
श्रीवैद्यनाथाय नमः शिवाय ॥ ८ ॥
बालाम्बिकेश वैद्येश भवरोगहरेति च ।
जपेन्नामत्रयं नित्यं महारोगनिवारणम् ॥ ९ ॥
इति श्री वैद्यनाथाष्टकम् ।
इतर श्री शिव स्तोत्राणि पश्यतु ।
గమనిక: "నవగ్రహ స్తోత్రనిధి" పుస్తకము తాయారుచేయుటకు ఆలోచన చేయుచున్నాము.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.