Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
॥ पुष्पकानुवर्णनम् ॥
स तस्य मध्ये भवनस्य संस्थितं
महद्विमानं बहुरत्नचित्रितम् । [मणिवज्र]
प्रतप्तजाम्बूनदजालकृत्रिमं
ददर्श वीरः पवनात्मजः कपिः ॥ १ ॥
तदप्रमेयाप्रतिकारकृत्रिमं
कृतं स्वयं साध्विति विश्वकर्मणा ।
दिवं गतं वायुपथे प्रतिष्ठितं
व्यराजतादित्यपथस्य लक्ष्मवत् ॥ २ ॥
न तत्र किञ्चिन्न कृतं प्रयत्नतो
न तत्र किञ्चिन्न महर्हरत्नवत् ।
न ते विशेषा नियताः सुरेष्वपि
न तत्र किञ्चिन्न महाविशेषवत् ॥ ३ ॥
तपःसमाधानपराक्रमार्जितं
मनःसमाधानविचारचारिणम् ।
अनेकसंस्थानविशेषनिर्मितं
ततस्ततस्तुल्यविशेषदर्शनम् ॥ ४ ॥
मनः समाधाय तु शीघ्रगामिनं
दुरावरं मारुततुल्यगामिनम् ।
महात्मनां पुण्यकृतां महर्धिनां
यशस्विनामग्र्यमुदामिवालयम् ॥ ५ ॥
विशेषमालम्ब्य विशेषसंस्थितं
विचित्रकूटं बहुकूटमण्डितम् ।
मनोभिरामं शरदिन्दुनिर्मलं
विचित्रकूटं शिखरं गिरेर्यथा ॥ ६ ॥
वहन्ति यं कुण्डलशोभितानना
महाशना व्योमचरा निशाचराः ।
विवृत्तविध्वस्तविशाललोचना
महाजवा भूतगणाः सहस्रशः ॥ ७ ॥
वसन्तपुष्पोत्करचारुदर्शनं
वसन्तमासादपि कान्तदर्शनम् ।
स पुष्पकं तत्र विमानमुत्तमं
ददर्श तद्वानरवीरसत्तमः ॥ ८ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे अष्टमः सर्गः ॥ ८ ॥
सम्पूर्ण वाल्मीकि सुन्दरकाण्ड पश्यतु ।
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.