Sundarakanda Sarga (Chapter) 61 – सुन्दरकाण्ड एकषष्टितमः सर्गः (६१)


॥ मधुवनप्रवेशः ॥

ततो जाम्बवतो वाक्यमगृह्णन्त वनौकसः ।
अङ्गदप्रमुखा वीरा हनूमांश्च महाकपिः ॥ १ ॥

प्रीतिमन्तस्ततः सर्वे वायुपुत्रपुरःसराः ।
महेन्द्राद्रिं परित्यज्य पुप्लुवुः प्लवगर्षभाः ॥ २ ॥

मेरुमन्दरसङ्काशा मत्ता इव महागजाः ।
छादयन्त इवाकाशं महाकाया महाबलाः ॥ ३ ॥

सभाज्यमानं भूतैस्तमात्मवन्तं महाबलम् ।
हनुमन्तं महावेगं वहन्त इव दृष्टिभिः ॥ ४ ॥

राघवे चार्थनिर्वृत्तिं कर्तुं च परमं यशः ।
समाधाय समृद्धार्थाः कर्मसिद्धिभिरुन्नताः ॥ ५ ॥

प्रियाख्यानोन्मुखाः सर्वे सर्वे युद्धाभिनन्दिनः ।
सर्वे रामप्रतीकारे निश्चितार्था मनस्विनः ॥ ६ ॥

प्लवमानाः खमाप्लुत्य ततस्ते काननौकसः ।
नन्दनोपममासेदुर्वनं द्रुमलतायुतम् ॥ ७ ॥

यत्तन्मधुवनं नाम सुग्रीवस्याभिरक्षितम् ।
अधृष्यं सर्वभूतानां सर्वभूतमनोहरम् ॥ ८ ॥

यद्रक्षति महावीर्यः सदा दधिमुखः कपिः ।
मातुलः कपिमुख्यस्य सुग्रीवस्य महात्मनः ॥ ९ ॥

ते तद्वनमुपागम्य बभूवुः परमोत्कटाः ।
वानरा वानरेन्द्रस्य मनःकान्ततमं महत् ॥ १० ॥

ततस्ते वानरा हृष्टा दृष्ट्वा मधुवनं महत् ।
कुमारमभ्ययाचन्त मधूनि मधुपिङ्गलाः ॥ ११ ॥

ततः कुमारस्तान्वृद्धान् जाम्बवत्प्रमुखान्कपीन् ।
अनुमान्य ददौ तेषां निसर्गं मधुभक्षणे ॥ १२ ॥

ततश्चानुमताः सर्वे सम्प्रहृष्टा वनौकसः ।
मुदिताः प्रेरिताश्चापि प्रनृत्यन्तोऽभवंस्ततः ॥ १३ ॥

गायन्ति केचित्प्रणमन्ति केचि-
-न्नृत्यन्ति केचित्प्रहसन्ति केचित् ।
पतन्ति केचिद्विचरन्ति केचि-
-त्प्लवन्ति केचित्प्रलपन्ति केचित् ॥ १४ ॥

परस्परं केचिदुपाश्रयन्ते
परस्परं केचिदुपाक्रमन्ते ।
परस्परं केचिदुपब्रुवन्ते
परस्परं केचिदुपारमन्ते ॥ १५ ॥

द्रुमाद्द्रुमं केचिदभिद्रवन्ते
क्षितौ नगाग्रान्निपतन्ति केचित् ।
महीतलात्केचिदुदीर्णवेगा
महाद्रुमाग्राण्यभिसम्पतन्ति ॥ १६ ॥

गायन्तमन्यः प्रहसन्नुपैति
हसन्तमन्यः प्ररुदन्नुपैति ।
रुदन्तमन्यः प्रणदन्नुपैति
नुदन्तमन्यः प्रणुदन्नुपैति ॥ १७ ॥

समाकुलं तत्कपिसैन्यमासी-
-न्मधुप्रपानोत्कटसत्त्वचेष्टम् ।
न चात्र कश्चिन्न बभूव मत्तो
न चात्र कश्चिन्न बभूव तृप्तः ॥ १८ ॥

ततो वनं तैः परिभक्ष्यमाणं
द्रुमांश्च विध्वंसितपत्रपुष्पान् ।
समीक्ष्य कोपाद्दधिवक्त्रनामा
निवारयामास कपिः कपींस्तान् ॥ १९ ॥

स तैः प्रवृद्धैः परिभर्त्स्यमानो
वनस्य गोप्ता हरिवीरवृद्धः ।
चकार भूयो मतिमुग्रतेजा
वनस्य रक्षां प्रति वानरेभ्यः ॥ २० ॥

उवाच कांश्चित्परुषाणि धृष्ट-
-मसक्तमन्यांश्च तलैर्जघान ।
समेत्य कैश्चित्कलहं चकार
तथैव साम्नोपजगाम कांश्चित् ॥ २१ ॥

स तैर्मदात्सम्परिवार्य वाक्यै-
-र्बलाच्च तेन प्रतिवार्यमाणैः ।
प्रधर्षितस्त्यक्तभयैः समेत्य
प्रकृष्यते चाप्यनवेक्ष्य दोषम् ॥ २२ ॥

नखैस्तुदन्तो दशनैर्दशन्त-
-स्तलैश्च पादैश्च समापयन्तः ।
मदात्कपिं तं कपयः समग्रा
महावनं निर्विषयं च चक्रुः ॥ २३ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे एकषष्टितमः सर्गः ॥ ६१ ॥

सुन्दरकाण्ड द्विषष्टितमः सर्गः (६२)>>


सम्पूर्ण वाल्मीकि सुन्दरकाण्ड पश्यतु ।


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed