Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः ।
गुरुस्साक्षात् परं ब्रह्म तस्मै श्री गुरवे नमः ॥
सङ्कल्पम् –
मम उपात्त समस्त दुरित क्षयद्वारा मम मनस्सङ्कल्प सिद्ध्यर्थं श्री सीतारामचन्द्र अनुग्रह सिद्ध्यर्थं श्रीमद्वाल्मीकी रामायणान्तर्गते सुन्दरकाण्डे ___ सर्ग श्लोक पारायणं करिष्ये ।
श्री राम प्रार्थना –
(श्री राम स्तोत्राणि पश्यतु।)
रामाय रामभद्राय रामचन्द्राय वेधसे ।
रघुनाथाय नाथाय सीतायाः पतये नमः ।
रामं लक्ष्मणपूर्वजं रघुवरं सीतापतिं सुन्दरम्
काकुत्स्थं करुणार्णवं गुणनिधिं विप्रप्रियं धार्मिकम् ।
राजेन्द्रं सत्यसन्धं दशरथतनयं श्यामलं शान्तमूर्तिम्
वन्दे लोकाभिरामं रघुकुलतिलकं राघवं रावणारिम् ॥
आपदामपहर्तारं दातारं सर्वसम्पदाम् ।
लोकाभिरामं श्रीरामं भूयो भूयो नमाम्यहम् ॥
श्री आञ्जनेय प्रार्थना –
(श्री हनुमान् स्तोत्राणि पश्यतु।)
गोष्पदीकृतवाराशिं मशकीकृतराक्षसम् ।
रामायणमहामालारत्नं वन्देऽनिलात्मजम् ॥
मनोजवं मारुततुल्यवेगं
जितेन्द्रियं बुद्धिमतां वरिष्ठम् ।
वातात्मजं वानरयूथमुख्यं
श्रीरामदूतं शरणं प्रपद्ये ॥
बुद्धिर्बलं यशो धैर्यं निर्भयत्वमरोगिता ।
अजाड्यं वाक्पटुत्वं च हनूमत् स्मरणात् भवेत् ।
श्री वाल्मीकि प्रार्थना –
कूजन्तं राम रामेति मधुरं मधुराक्षरम् ।
आरुह्य कविताशाखां वन्दे वाल्मीकिकोकिलम् ॥
గమనిక: ఇటివలి ప్రచురణలు "శ్రీ కృష్ణ స్తోత్రనిధి" మరియు "శ్రీ ఆంజనేయ స్తోత్రనిధి"
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.