Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
सहस्रादित्यसङ्काशं सहस्रवदनं प्रभुम् ।
सहस्रदं सहस्रारं प्रपद्येऽहं सुदर्शनम् ॥ १ ॥
हसन्तं हारकेयूर मुकुटाङ्गदभूषणम् ।
भूषणैर्भूषिततनुं प्रपद्येऽहं सुदर्शनम् ॥ २ ॥
स्राकारसहितं मन्त्रं पठन्तं शत्रुनिग्रहम् ।
सर्वरोगप्रशमनं प्रपद्येऽहं सुदर्शनम् ॥ ३ ॥
रणत्किङ्किणिजालेन राक्षसघ्नं महाद्भुतम् ।
व्याप्तकेशं विरूपाक्षं प्रपद्येऽहं सुदर्शनम् ॥ ४ ॥
हुङ्कारभैरवं भीमं प्रणातार्तिहरं प्रभुम् ।
सर्वपापप्रशमनं प्रपद्येऽहं सुदर्शनम् ॥ ५ ॥
फट्कारान्तमनिर्देश्यं महामन्त्रेण सम्युतम् ।
शुभं प्रसन्नवदनं प्रपद्येऽहं सुदर्शनम् ॥ ६ ॥
एतैः षड्भिः स्तुतो देवो भगवान् श्रीसुदर्शनः ।
रक्षां करोति सर्वात्मा सर्वत्र विजयी भवेत् ॥ ७ ॥
इति श्री सुदर्शन षट्कम् ।
इतर श्री विष्णु स्तोत्राणि पश्यतु |
గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.