Sudarshana shatkam – सुदर्शनषट्कं


सहस्रादित्यसङ्काशं सहस्रवदनं परम् ।
सहस्रदोस्सहस्रारं प्रपद्येऽहं सुदर्शनम् ॥ १ ॥

हसन्तं हारकेयूर मकुटाङ्गदभूषणैः ।
शोभनैर्भूषिततनुं प्रपद्येऽहं सुदर्शनम् ॥ २ ॥

स्राकारसहितं मन्त्रं वदनं शत्रुनिग्रहम् ।
सर्वरोगप्रशमनं प्रपद्येऽहं सुदर्शनम् ॥ ३ ॥

रणत्किङ्किणिजालेन राक्षसघ्नं महाद्भुतं ।
व्युप्तकेशं विरूपाक्षं प्रपद्येऽहं सुदर्शनम् ॥ ४ ॥

हुङ्कारभैरवं भीमं प्रणातार्तिहरं प्रभुं ।
सर्वपापप्रशमनं प्रपद्येऽहं सुदर्शनम् ॥ ५ ॥

फट्कारास्तमनिर्देश्य दिव्यमन्त्रेणसम्युतं ।
शिवं प्रसन्नवदनं प्रपद्येऽहं सुदर्शनम् ॥ ६ ॥

एतैष्षड्भिः स्तुतो देवः प्रसन्नः श्रीसुदर्शनः ।
रक्षां करोति सर्वात्मा सर्वत्र विजयी भवेत् ॥ ७ ॥


ಗಮನಿಸಿ :"ಪ್ರಭಾತ ಸ್ತೋತ್ರನಿಧಿ" ಪುಸ್ತಕ ಬಿಡುಗಡೆಯಾಗಿದೆ ಮತ್ತು ಈಗ ಖರೀದಿಗೆ ಲಭ್ಯವಿದೆ. Click here to buy

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

Your email address will not be published.

error: Not allowed