Sri Yajnavalkya Sahasranamavali – श्री याज्ञवल्क्य सहस्रनामावली


ओं सदानन्दाय नमः ।
ओं सुनन्दापुत्राय नमः ।
ओं अश्वत्थमूलवासिने नमः ।
ओं अयातयामाम्नायतत्पराय नमः ।
ओं अयातयामोपनिषद्वाक्यनिधये नमः ।
ओं अष्टाशीतिमुनिगणपरिवेष्ठिताय नमः ।
ओं अमृतमूर्तये नमः ।
ओं अमूर्ताय नमः ।
ओं अधिकसुन्दरतनवे नमः ।
ओं अनघाय नमः ।
ओं अघसंहारिणे नमः ।
ओं अभिनवसुन्दराय नमः ।
ओं अमिततेजसे नमः ।
ओं अविमुक्तक्षेत्रमहिमावर्णयित्रे नमः ।
ओं अष्टाक्षरीमहामन्त्रसिद्धाय नमः ।
ओं अष्टादशाक्षरीमहामन्त्राधिष्टात्रे नमः ।
ओं अजातशत्रोरध्वर्यवे नमः ।
ओं अणिमादिगुणयुक्ताय नमः ।
ओं अष्टबाहुसमन्विताय नमः ।
ओं अहमेवसानन्देतिवादिने नमः । २०

ओं अष्टैश्वर्यसम्पन्नाय नमः ।
ओं अष्टाङ्गयोगसमन्विताय नमः ।
ओं अत्यग्निष्टोम दीक्षिताय नमः ।
ओं अकर्तृत्वाय नमः ।
ओं अर्कवागर्चनप्रियाय नमः ।
ओं अर्कपुष्पप्रियाय नमः ।
ओं अङ्कुरिताश्वशाला स्तम्भाय नमः ।
ओं अतिच्छन्दादि स्वरूपोपदेशाय नमः ।
ओं अर्कसम्प्राप्त वैभवाय नमः ।
ओं अलघुविक्रमाय नमः ।
ओं अयातयामाम्नायसारज्ञाय नमः ।
ओं अत्रेःतारकप्रदात्रे नमः ।
ओं अष्टादशपरिशिष्टप्रकाशनाय नमः ।
ओं अन्वर्थाचार्यसञ्ज्ञाय नमः ।
ओं अक्लेशिताय नमः ।
ओं अकामस्वरूपाय नमः ।
ओं अष्टाविंशतिवेदव्यासवेदिने नमः ।
ओं अनल्पतेजसे नमः ।
ओं अहिर्बुध्नसंहितायां-चक्रराजार्चनविधानदक्षकाय नमः ।
ओं अथ ब्राह्मणेति मुख्यब्राह्मण्यव्युत्पाकाय नमः । ४०

ओं अधिकगुरुभक्तियुक्ताय नमः ।
ओं अलम्बुद्धिमते नमः ।
ओं अनुच्छिष्टयजुःप्रकाशाय नमः ।
ओं असाध्यकार्यसाधकाय नमः ।
ओं अनन्यसाधारणशक्तये नमः ।
ओं अयातयामयजुःपारङ्गताय नमः ।
ओं अदैत्यस्पर्शवेदोद्धारकृते नमः ।
ओं अगीर्णाम्नायविदे नमः ।
ओं अध्वर्युसत्तमाय नमः ।
ओं अव्ययाजाक्षयक्लेभ्ये इत्यादिप्रश्नार्थवित्तमाय नमः ।
ओं अधकामायमानेति मोक्षस्वरूपप्रदर्शकाय नमः ।
ओं अव्याकृताकाशः सूत्राधिष्टानमितिप्रतिवक्त्रे नमः ।
ओं अखण्डज्ञानिने नमः ।
ओं अन्येतित्तिरयोभूत्वा इत्यादिप्राप्तयशसे नमः ।
ओं अयातयामंशुक्लं चेत्यत्रसम्भूतकीर्तये नमः ।
ओं अथमण्डलमित्यत्र यशोमण्डलमण्डिताय नमः ।
ओं अज्ञशिक्षणाय नमः ।
ओं अमृतत्वस्यतुनानोस्ति वित्तेनेत्युपद्रेष्टे नमः ।
ओं अथर्वशिरसिप्रोक्तमहिम्ने नमः ।
ओं अरिषड्वर्गजेत्रे नमः । ६०

ओं अनुग्रहसमर्थाय नमः ।
ओं अनुक्त्वाविप्रियं किञ्चिदाचार्यमतमास्थिताय नमः ।
ओं अयातयामयजुषा प्रसिद्ध्यर्थावतीर्णाय नमः ।
ओं अतोवेदः प्रमाणंवहत्यादिनियमस्थिताय नमः ।
ओं अनन्तरूपधृते नमः ।
ओं अक्षरब्रह्मनेनिरुपाधिकात्मस्वरूपविवेचकाय नमः ।
ओं अनशनव्रतिने नमः ।
ओं अद्भुतमहिम्ने नमः ।
ओं अपरोक्षज्ञानिने नमः ।
ओं अज्ञानकण्टकाय नमः ।
ओं अवतारपुरुषाय नमः ।
ओं अध्यक्ष[ं]वरायामसीत्वादि-महत्यसम्युताय नमः ।
ओं अश्वमेधपर्वोक्तमहिम्ने नमः ।
ओं अमानुषचरित्राध्याय नमः ।
ओं अप्रमाणद्वेषिणे नमः ।
ओं अङ्गोपाङ्गप्रत्यङ्गविदे नमः ।
ओं अज्ञानतमोनाशकाय नमः ।
ओं अदितिदौहित्रेय नमः ।
ओं अहल्लिकेतिशाकल्यसम्बोधयित्रे नमः ।
ओं अवधूताश्रमविधिबोधकाय नमः । ८०

ओं अगाधमहिम्ने नमः ।
ओं अन्नम्ब्रह्मेत्वादितत्त्वविदे नमः ।
ओं अहङ्कारमादिकेत्यादिलब्दकीर्तये नमः ।
ओं अनेकगुरुसेविने नमः ।
ओं अनेकमुनिवन्दिताय नमः ।
ओं अघसंहर्त्रे नमः ।
ओं अयोनिजगुरवे नमः ।
ओं अग्रसन्यासिने नमः ।
ओं अग्रपूज्याय नमः ।
ओं अत्रायमित्यात्मनः-स्वयञ्ज्योतिष्यप्रसिद्धिप्रदर्शकाय नमः ।
ओं आदित्यावताराय नमः ।
ओं आत्मनोअन्यस्यार्तत्वप्रकाशाय नमः ।
ओं आदित्यपुराणोक्तमहिम्ने नमः ।
ओं आनन्दपुरवासिने नमः ।
ओं आर्तभागजैत्रे नमः ।
ओं आञ्जनेयसतीर्थ्याय नमः ।
ओं आत्मानन्दैकनिष्ठाय नमः ।
ओं अश्वलायनजामात्रे नमः ।
ओं आदिशक्तिमन्त्रोपदेष्ट्रे नमः ।
ओं आद्यमावास्यानुष्ठानतत्पराय नमः । १००

ओं आदित्याभिमुखस्नानकारिणे नमः ।
ओं आदिमैथिलगुरवे नमः ।
ओं आदिजनकपूजिताय नमः ।
ओं आदिविष्णोरवतारभूताय नमः ।
ओं आत्मनस्तुकामायेतिस्वात्मनः-परमप्रेमास्पदत्वनिर्धारयित्रे नमः ।
ओं आप्तकामस्वरूपज्ञाय नमः ।
ओं आत्मकामस्वरूपविज्ञाय नमः ।
ओं आवर्तानदीतीरसप्ततन्तुस्थितायै नमः ।
ओं आदित्यहयग्रीवावतार-प्रसादान्विताय नमः ।
ओं आदिवेदार्थकोविदाय नमः ।
ओं आदित्यसमविक्रमाय नमः ।
ओं आदित्यमहिमानन्दमग्नमानसाय नमः ।
ओं अरुण्यन्तेवासिने नमः ।
ओं आत्मज्योतिर्दम्ष्ट्रान्ततयादित्यादि-वागन्तज्योतिरुपन्यासकाय नमः ।
ओं अरुणजैत्रे नमः ।
ओं आचार्यकोपभीताय नमः ।
ओं आदित्यान्तेवासिने नमः ।
ओं अध्वर्यवरप्रदानाय नमः ।
ओं आचार्याज्ञानुसारिणे नमः ।
ओं आचार्याभीष्टदायकाय नमः । १२०

ओं आचार्यभक्तिमते नमः ।
ओं आचार्यमतपालकाय नमः ।
ओं आचार्यदोषहन्त्रे नमः ।
ओं आदिशाखाविभागिने नमः ।
ओं आदिवेदप्रवर्तकाय नमः ।
ओं आदिशाखाप्रभावज्ञाय नमः ।
ओं अध्वर्यवङ्क्वचिद्धौत्र-मित्यात्राख्यातशक्तिमते नमः ।
ओं अदर्वणऋषिज्ञाताय नमः ।
ओं अदौकोवेदेत्यत्रप्रख्यात-गुणजाताय नमः ।
ओं आनन्दमीमांसयाब्रह्मानन्दस्य-निरतिशयत्वनिरूपकाय नमः ।
ओं आदिनारायणक्षात्राय नमः ।
ओं आदिविष्ण्वोप्ततेजसे नमः ।
ओं आदिविष्णुप्राप्तमन्त्राय नमः ।
ओं आदिविष्ण्वाप्ततत्त्वविदे नमः ।
ओं आदिविष्णुदत्तनामाङ्किताय नमः ।
ओं आदिविष्णुशिष्याय नमः ।
ओं आदिसन्यासिने नमः ।
ओं आदिमध्यान्तकालपूजिताय नमः ।
ओं आत्मसन्यासिने नमः ।
ओं आपस्तम्भमुनेःतैत्तिरीयत्वदायकाय नमः । १४०

ओं इन्द्रसभासदे नमः ।
ओं इदंसर्वम्यदयमात्मेतेकविज्ञानेन-सर्वविज्ञानप्रतिज्ञात्रे नमः ।
ओं इतिनुकामयमानेति-संसारस्वरूपप्रदर्शकाय नमः ।
ओं इन्द्रादित्यवसुरुद्रादिभागिने नमः ।
ओं इमादेवेत्यादिमन्त्रार्थविदे नमः ।
ओं इक्ष्वाकुपूजिताय नमः ।
ओं इदंममेतिसंसारबन्ध-प्रयोजकोपाधिप्रदर्शकाय नमः ।
ओं ईशावास्यरहस्यविदे नमः ।
ओं उद्दालकान्तेवासिने नमः ।
ओं उदितार्कसमप्रभाय नमः ।
ओं उत्तिष्ठशाकल्येतिवादिने नमः ।
ओं उषस्तुऋषिजैत्रे नमः ।
ओं उद्दालकऋषिजैत्रे नमः ।
ओं उदङ्कऋषिजैत्रे नमः ।
ओं उमामहेश्वरस्वरूपय नमः ।
ओं उद्दामवैभवाय नमः ।
ओं उदयाचलतपःकर्त्रे नमः ।
ओं उपनिषद्वेद्याय नमः ।
ओं ऊर्ध्वरेतसे नमः ।
ओं ऊर्ध्वलोकप्रसिद्धाय नमः । १६०

ओं ऋग्वेदप्रसिद्धाय नमः ।
ओं ऋग्वेदशाखाध्येत्रे नमः ।
ओं ऋष्यष्टसहस्रविदितवैभवाय नमः । [वेदित]
ओं ऋग्यजुस्सामतत्त्वज्ञाय नमः ।
ओं ऋषिसङ्घप्रपूजिताय नमः ।
ओं ऋषयस्त्वेकतस्सर्वेत्यत्रोक्तपराक्रमाय नमः ।
ओं ऋषिरूपसूर्याय नमः ।
ओं ऋषिसङ्घसमावृताय नमः ।
ओं ऋषिमण्डलगुरवे नमः ।
ओं एकायनशाखाभर्त्रे नमः ।
ओं एकर्षिशाखावलम्बिने नमः ।
ओं एकवीराय नमः ।
ओं एकासीद्यजुर्वेदस्तमित्यादिरहस्यविदे नमः ।
ओं ऐश्वर्यसम्पन्नाय नमः ।
ओं ऐहिकामुष्मिकश्रेयःप्रदात्रे नमः ।
ओं ओङ्कारस्वरूपाय नमः ।
ओं ओङ्काराक्षरानुसन्धाय नमः ।
ओं ओङ्कारमन्त्रतत्त्वज्ञाय नमः ।
ओं ओं खं ब्रह्मेतिमन्त्रार्थकोविदाय नमः ।
ओं औखेयगुरवे नमः । १८०

ओं औखेयऋषौतैत्तिरीयत्वप्रदात्रे नमः ।
ओं औदुम्बरप्रभावाज्ञाय नमः ।
ओं औपगायनाद्यष्टसहस्रऋषिमण्डलगुरवे नमः ।
ओं औपनिषदपुरुषविज्ञात्रे नमः ।
ओं कठऋषेतैत्तिरीयकत्वदायकाय नमः ।
ओं कण्वगुरवे नमः ।
ओं कर्दमज्ञातवैभवाय नमः ।
ओं कल्क्यवताराचार्याय नमः ।
ओं कमण्डलुधराय नमः ।
ओं कल्याणनामधेयाय नमः ।
ओं कश्यपदौहित्राय नमः ।
ओं कण्वानुग्रहकर्त्रे नमः ।
ओं कहोलिऋषिजैत्रे नमः ।
ओं कत्येवदेवायाज्ञवल्क्य-इत्यत्रदेवतामध्यसङ्ख्याप्रकाशकाय नमः ।
ओं कतमेरुद्र इत्यत्ररुद्रशब्दनिर्वचनकृते नमः ।
ओं कतमात्मेतिप्राणादिभिन्नत्वेन-आत्मप्रदर्शकाय नमः ।
ओं कर्मकाण्डासक्तचित्ताय नमः ।
ओं करामलकपदपरोक्षब्रह्मदर्शकाय नमः ।
ओं कलिभञ्जनाय नमः ।
ओं कपिलजामात्रे नमः । २००

ओं कर्मन्द्याश्रमिणे नमः ।
ओं कल्याणात्मने नमः ।
ओं काण्डिकऋषेस्तैत्तिरीयत्वदात्रे नमः ।
ओं कार्यकारणहेतुत्वेनकर्मप्रशंसिने नमः ।
ओं कार्तिकमासोद्भवाय नमः ।
ओं कात्यायनीपतये नमः ।
ओं कात्यायनजनकाय नमः ।
ओं कात्यायनोपाध्याय नमः ।
ओं कातीयकल्पतरवे नमः ।
ओं कात्यायिनीदैन्यध्वंसिने नमः ।
ओं काञ्च्याम्ब्रह्माश्वमेधार्तिजे नमः ।
ओं कण्वादिकामधेनवे नमः ।
ओं कण्वादिपञ्चदशशाखाविभागिने नमः ।
ओं कान्तमन्त्रविभागिने नमः ।
ओं काण्वब्राह्मणोक्तवैभवाय नमः ।
ओं कातीयार्जितमणये नमः ।
ओं कण्वादीनान्त्रिपञ्चानांऋषीणांशृतिदायकाय नमः ।
ओं कण्वारण्यकस्थकामधेनुमन्त्रप्रभावज्ञाय नमः ।
ओं कारणजन्मने नमः ।
ओं कातीयसूत्रकारणाय नमः । २२०

ओं किन्देवतोऽस्यामितिदिग्विषयपरीक्षदक्षाय नमः ।
ओं कुतर्कवादिधिक्कारभानवे नमः ।
ओं कुत्सिताक्षेपचक्षुःश्रवःपक्षिराजाय नमः ।
ओं कुरुभूमेतपःकृते नमः ।
ओं कुरुपाञ्चालदेशोद्भवऋषिजैत्रे नमः ।
ओं कुरुभूमिवनमध्यपर्णशालावासिने नमः ।
ओं कृतयुगावताराय नमः ।
ओं कृष्णांशसम्भवाय नमः ।
ओं कृष्णदर्शनोत्सुकाय नमः ।
ओं कृत्वासविधिवत्पूजां-आचार्येतिकीर्तिमते नमः ।
ओं कोटिसूर्यप्रकाशाय नमः ।
ओं कोवाविष्णुदैवत्यैत्यगाथाकथान्विताय नमः ।
ओं क्रमसन्यासिने नमः ।
ओं गन्धर्वजैत्रे नमः ।
ओं गन्धर्वराजगुरवे नमः ।
ओं गवामुज्जीवनोत्सुकाय नमः ।
ओं गर्दछीवीपीतमतजैत्रे नमः ।
ओं गर्ववर्जिताय नमः ।
ओं गर्भस्तकालाभ्यस्तवेदाय नमः ।
ओं गार्गिमातिप्राक्षेरिति-अनुग्रहार्दनिषेधकृते नमः । २४०

ओं गालवगुरवे नमः ।
ओं गार्गीमनःप्रियाय नमः ।
ओं गार्गीज्ञानप्रदायकाय नमः ।
ओं गार्गीगर्वाद्रिवज्रिणे नमः ।
ओं गार्गीब्राह्मणोक्तवैभवाय नमः ।
ओं गार्गीप्रश्नोत्तरदायकाय नमः ।
ओं गार्गीमर्मज्ञाय नमः ।
ओं गार्गीवन्दिताय नमः ।
ओं गायत्रीहृदयाभिज्ञाय नमः ।
ओं गायत्रीदकारऋषये नमः ।
ओं गायत्रीवरलब्दाय नमः ।
ओं गायत्रीमन्त्रतत्त्वज्ञाय नमः ।
ओं गायत्रीस्वरूपज्ञाय नमः ।
ओं गायत्रीप्रसादान्विताय नमः ।
ओं गुर्वाज्ञापरिपालकाय नमः ।
ओं गुरुवृत्तिपराय नमः ।
ओं गुरुभक्तिसमन्विताय नमः ।
ओं गुरुतत्त्वज्ञाय नमः ।
ओं गुरुपूजातत्पराय नमः ।
ओं गुरुणाङ्गुरवे नमः । २६०

ओं गुरुमन्त्रोपदेशकाय नमः ।
ओं गुरुशक्तिसमन्विताय नमः ।
ओं गुरुसन्तोषकारिणे नमः ।
ओं गुरुप्रत्यर्पितयजुर्वेदैकदेशाय नमः ।
ओं गुर्वज्ञातयजुर्वेदाभिज्ञाय नमः ।
ओं ग्रहतिग्रहविवेकाय नमः ।
ओं गोगणप्राणदात्रे नमः ।
ओं गोसहस्राधीशाय (गोसहस्राधिषाय) नमः ।
ओं गोपालख्यातमहिम्ने नमः ।
ओं गोदावरीतीरवासिने नमः ।
ओं गौतमदेशिकाय नमः ।
ओं गौतमब्रह्मोपदेशिकाय नमः ।
ओं घनाय नमः ।
ओं घनतपोमहिमान्विताय नमः ।
ओं चतुर्वेदगुरवे नमः ।
ओं चतुश्चत्वारिंशद्वेदवमनकृते नमः ।
ओं चन्द्रकान्तजनकाय नमः ।
ओं चरकाध्वर्युकारणाय नमः ।
ओं चरिष्येहन्तवव्रतमितिवादिने नमः ।
ओं चक्रवर्तिगुरवे नमः । २८०

ओं चतुःर्विंशद्वर्षकालमातृगर्भवषःकृते नमः ।
ओं चतुर्वेदाभिज्ञाय नमः ।
ओं चतुर्विंशाक्षरमन्त्रपारायणपटुव्रताय नमः ।
ओं चतुर्विधपुराणार्थप्रदात्रे नमः ।
ओं चतुर्दशमहाविद्यापरिपूर्णाय नमः ।
ओं चमत्कारपुरवासिने नमः ।
ओं चलाचलविभागज्ञाय नमः ।
ओं चारुविक्रमाय नमः ।
ओं चिदम्बररहस्यज्ञाय नमः ।
ओं चित्ररथब्राह्मणज्ञानदात्रे नमः ।
ओं चित्रचरित्राय नमः ।
ओं छर्दिब्राह्मणबीजाय नमः ।
ओं जनकस्यविजिज्ञासापरिष्करणपण्डिताय नमः ।
ओं जनकस्यातिमेधान्दृष्ट्वाजातभीतये नमः ।
ओं जनकानांमहागुरवे नमः ।
ओं जम्बूवतीनदीतीरजन्मने नमः ।
ओं जनकविश्वजिद्यज्ञरक्षकाय नमः ।
ओं जनकाश्वमेधकारयित्रे नमः ।
ओं जनकयज्ञाग्रपूजिताय नमः ।
ओं जनकस्याश्वमेधाङ्गदेवर्षिज्ञानदात्रे नमः । ३००

ओं जनकादिमुमुक्षाणाञ्जगद्बीजप्रदर्शकाय नमः ।
ओं जनकाज्ञानसन्देहपङ्कनाशप्रभाकराय नमः ।
ओं जनकस्यब्रह्मविद्यापरीक्षापण्डितोत्तमाय नमः ।
ओं जनकसभाज्ञानान्धकारभानवे नमः ।
ओं जनकायकामप्रश्नवरदात्रे नमः ।
ओं जनकपूजिताय नमः ।
ओं जनकस्यजगत्तत्त्वप्रदर्शकाय नमः ।
ओं जनकब्रह्मोपदेशकृते नमः ।
ओं जनकाभयदायकाय नमः ।
ओं जनस्थानतीर्थकारिणे नमः ।
ओं जम्बूसरोवासिने नमः ।
ओं जगदाधारशास्त्रकृते नमः ।
ओं जननीजठरेविष्णुमायातीतवरान्विताय नमः ।
ओं जम्बूसरोवरसौवर्णपुरवासिने नमः ।
ओं जगद्गुरवे नमः ।
ओं जम्बूनदीसलिलप्रियाय नमः ।
ओं जटामण्डलमण्डिताय नमः ।
ओं जाबालाज्ञाननाशकाय नमः ।
ओं जाबालमखनायकाय नमः ।
ओं जाबालऋषिजैत्रे नमः । ३२०

ओं जित्वाशैलिनिऋषिजैत्रे नमः ।
ओं जैमिनिमानिताय नमः ।
ओं ज्योतिर्ब्राह्मणप्रधितप्रभावाय नमः ।
ओं ज्ञानमुद्रासमन्विताय नमः ।
ओं ज्ञाननिधये नमः ।
ओं ज्ञानज्ञेयस्वरूपविज्ञाय नमः ।
ओं तपोधनाय नमः ।
ओं तपोबलसमन्विताय नमः ।
ओं तत्त्वविदामग्रगण्याय नमः ।
ओं तपोमासाभिषिक्ताय नमः ।
ओं तर्काध्यायोक्तमहिम्ने नमः ।
ओं तर्कविदांवरिष्ठाय नमः ।
ओं तस्योपस्थानमितिमन्त्रमर्मज्ञाय नमः ।
ओं तारकब्रह्ममन्त्रदात्रे नमः ।
ओं तावत्पूर्वंविशुदानियजुष्येवेतिमूलविदे नमः ।
ओं तुबुकऋषीःतैत्तिरीयत्वदात्रे नमः ।
ओं तुरीयावादतत्वार्थविदे नमः ।
ओं तैत्तिरीययजुर्विदाय नमः ।
ओं त्रयीधामाप्तवैभवाय नमः ।
ओं त्रिमूर्त्यात्मने नमः । ३४०

ओं त्रिदण्डसन्यासविधिप्रदर्शकाय नमः ।
ओं त्रिशूलढमरुदण्डकमण्डलुपाणये नमः ।
ओं त्रिकालज्ञाय नमः ।
ओं त्रिलोकगुरुशिष्याय नमः ।
ओं त्रिमूर्त्यन्तेवासिने नमः ।
ओं त्रिमूर्तिकरुणालब्दतेजसे नमः ।
ओं त्रिलोचनप्रसादलब्दाय नमः ।
ओं त्रिलोचनपूजिताय नमः ।
ओं त्रिकालपूज्याय नमः ।
ओं त्रिभुवनख्याताय नमः ।
ओं त्रिदन्तसन्यासकृते नमः ।
ओं त्रिपुण्ड्रधारिणे नमः ।
ओं त्रिपुण्ड्रविध्युपदेष्ण्रे नमः ।
ओं त्रिणेत्राय नमः ।
ओं त्रिमूर्त्याकारनिभाय नमः ।
ओं दयासुधासिन्धवे नमः ।
ओं दक्षिणामूर्तिस्वरूपाय नमः ।
ओं दण्डकमण्डलुधराय नमः ।
ओं दानसमर्धाय नमः ।
ओं द्वादशसहस्रवत्सरसूर्योपासकाय नमः । ३६०

ओं द्वादशीव्रततत्पराय नमः ।
ओं द्वादशविधनामाङ्किताय नमः ।
ओं द्वादशवर्षसहस्रपञ्चाग्निमध्यस्थाय नमः ।
ओं द्वादशवर्षसहस्रयज्ञदीक्षिताय नमः ।
ओं द्वादशार्कनमस्करणैकमहाव्रताय नमः ।
ओं द्वादशाक्षरमहामन्त्रसिद्धाय नमः ।
ओं द्विजबृन्दसमावृताय नमः ।
ओं दिवाकरात्सकृत्प्राप्तसर्ववेदान्तपारगाय नमः ।
ओं दिग्विषयकब्रह्मविज्ञानविदुषे नमः ।
ओं दीर्घतपने नमः ।
ओं दुर्वादखण्डनाय नमः ।
ओं दुन्दुध्यादिदृष्टान्तेनपदार्थानां-ब्रह्मसामान्यसत्ताकत्वप्रदर्शकाय नमः ।
ओं दुष्टदूराय नमः ।
ओं दुष्टनिग्रहतत्पराय नमः ।
ओं दुष्टद्विजशिक्षकाय नमः ।
ओं दुष्टतपसगर्वादिभञ्जनैकमहाशनये नमः ।
ओं देवरातपुत्राय नमः ।
ओं देवगन्धर्वपूजिताय नमः ।
ओं देवपूजनतत्पराय नमः ।
ओं देवतागुरवे नमः । ३८०

ओं देवकर्माधिकारसूत्रप्रणेत्रे नमः ।
ओं देवादिगुरुवाक्यपालनकृतनिश्चयाय नमः ।
ओं देवलज्ञातयशसे नमः ।
ओं देवमार्गप्रतिष्ठापनाचार्याय नमः ।
ओं दैत्यंविद्यार्यतान्वेदानेति-विष्णुप्रभावज्ञाय नमः ।
ओं दैवज्ञाय नमः ।
ओं दौर्भाग्यहन्त्रे नमः ।
ओं धृतव्रताय नमः ।
ओं धर्मसंस्थापकाय नमः ।
ओं धर्मपुत्रपूजिताय नमः ।
ओं धर्मशास्त्रोपदेशिकाय नमः ।
ओं धेनुपालनतत्पराय नमः ।
ओं ध्यायतेवेतिबुद्ध्यध्यासवशातात्मनः-स्संसारित्वप्रदर्शकाय नमः ।
ओं धृवपूजिताय नमः ।
ओं नमोवयम्ब्रह्मिष्ठायेतिविनयप्रदर्शकाय नमः ।
ओं नारायणान्तेवासिने नमः ।
ओं नारायणपौत्राय नमः ।
ओं नारदज्ञातवैभवाय नमः ।
ओं नारायणाश्रमख्यातमहिम्ने नमः ।
ओं नाननुशिष्यहरेतिपित्रभिमतप्रदर्शकाय नमः । ४००

ओं निर्जीवानाञ्जीवदात्रे नमः ।
ओं निर्जीवस्तम्भजीवदाय नमः ।
ओं निर्वाणज्ञानिने नमः ।
ओं निग्रहानुग्रह समर्धाय नमः ।
ओं निश्वसितशृत्यावेदस्यनिरपेक्षप्रामाण्यप्रतीष्ठात्रे नमः ।
ओं नृसिंहसमविक्रमाय नमः ।
ओं नृपज्ञानपरीक्षादक्षाय नमः ।
ओं नृपविवेककर्त्रे नमः ।
ओं नेतिनेतीतिन्निषेधमुखेनब्रह्मोपदेष्ट्रे नमः ।
ओं नेहनानास्तीतिब्रह्मणिद्वैतनिरासकाय नमः ।
ओं पयोव्रताय नमः ।
ओं परमात्मविदे नमः ।
ओं परमाय नमः ।
ओं परमधार्मिकाय नमः ।
ओं पञ्चारण्यमध्यस्थभास्कर-क्षेत्रानुष्ठितसत्राय नमः ।
ओं परब्रह्मस्वरूपिणे नमः ।
ओं पराशरपुरोहिताय नमः ।
ओं परिव्राजकाचार्याय नमः ।
ओं परमावटिकाचार्याय नमः ।
ओं परभयङ्कराय नमः । ४२०

ओं परमधर्मज्ञाय नमः ।
ओं पराशरोक्तप्रभावाय नमः ।
ओं परमाक्षरस्वरूपविदे नमः ।
ओं परमहर्षस्समन्विताय नमः ।
ओं परिशेषपरिज्ञात्रे नमः ।
ओं परिपूर्णमनोरधाय नमः ।
ओं परमपवित्राय नमः ।
ओं परमेष्ठ्यादिपरम्परागतगुरवे नमः ।
ओं परमेष्ठ्यादिपरम्पराप्राप्तवेदतत्पराय नमः ।
ओं परिशिष्ठविशेषविदे नमः ।
ओं पर्णशालावासाय नमः ।
ओं परीक्षित्पुत्रगुरवे नमः ।
ओं परिशिष्ठाष्टादशग्रन्थकर्त्रे नमः ।
ओं पराशरपुत्रोपाध्याय नमः ।
ओं परमविज्ञानयुक्ताय नमः ।
ओं परममन्युनिह्निताय नमः ।
ओं पट्‍टाभिषेकयुक्ताय नमः ।
ओं परमगुरुशिष्याय नमः ।
ओं पञ्चशतवर्षपर्यन्ताज्यधाराहोमकृते नमः ।
ओं पत्नीद्वयविराजिताय नमः । ४४०

ओं पावनाय नमः ।
ओं पारिक्षितगतिप्रदर्शकाय नमः ।
ओं पारिक्षितस्वस्तिप्रदर्शकाय नमः ।
ओं पाषण्डद्वेषिने नमः ।
ओं पाराशर्योपनयनकृते नमः ।
ओं पारशर्यदेशिकाय नमः ।
ओं पावनचरित्राय नमः ।
ओं पारशर्याश्रमाणाम्प्रथमाय नमः ।
ओं पारिकाङ्क्षिणे नमः ।
ओं पारायणव्रताय नमः ।
ओं पिप्पलादगुरवे नमः ।
ओं पिप्पलादज्ञातकीर्तये नमः ।
ओं पितामहसत्कृताय नमः ।
ओं पितामहाध्वराध्यक्षाय नमः ।
ओं पितृवाक्यपरिपालकाय नमः ।
ओं पुत्रब्राह्मणोक्तयशसे नमः ।
ओं पुराणाचार्याय नमः ।
ओं पुष्पीकृताश्वस्तम्भाय नमः ।
ओं पुण्यापुण्यविज्ञानरताय नमः ।
ओं पुण्यारण्योपवासिने नमः । ४६०

ओं पुण्यारण्यभवाय नमः ।
ओं पुत्रशिष्यसमावृताय नमः ।
ओं पुरातनमहिम्ने नमः ।
ओं पुराणख्यातवैभवाय नमः ।
ओं पूर्णमन्त्राधिकाराय नमः ।
ओं पूर्णानन्दसमन्विताय नमः ।
ओं पूर्णिमाभिषिक्ताय नमः ।
ओं पृधिवैवेत्यष्टधाप्राणोपदेशकृते नमः ।
ओं पैलपूजिताय नमः ।
ओं पैङ्गलोपदेशकाय नमः ।
ओं पैङ्गलज्ञानदात्रे नमः ।
ओं पैप्पलादिविदितयशसे नमः ।
ओं पैलगुरवे नमः ।
ओं पौतिमाष्यादिगुरवे नमः ।
ओं प्रतापवते नमः ।
ओं प्रभाकरप्राप्तविद्याय नमः ।
ओं प्रतिभास्यतितेवेद-इत्यर्कवरसम्युताय नमः ।
ओं प्रभाकरप्रसादाप्तप्रधान-यजुषाङ्गुरवे नमः ।
ओं प्रकृतिपुरुषविवेककर्त्रे नमः ।
ओं प्रभाकरप्रीतिकराय नमः । ४८०

ओं प्रणवोवृक्षबीजंस्यादितिवेदिकमूलविदे नमः ।
ओं प्रसिद्धकीर्तये नमः ।
ओं प्रतिज्ञापरिपालकाय नमः ।
ओं प्रथमशाखाप्रसिद्धिकर्त्रे नमः ।
ओं प्रत्यक्षदेवशिष्याय नमः ।
ओं प्रचण्डाज्ञाकर्त्रे नमः ।
ओं प्रबलशृत्युक्तकीर्तये नमः ।
ओं प्रथमवेदप्रसिद्धाय नमः ।
ओं प्रकृष्णधीये नमः ।
ओं प्रथमायांशृत्यांसत्यांनान्यां-इत्यादिशास्त्रकृते नमः ।
ओं प्राणविद्यापरिज्ञात्रे नमः ।
ओं प्राणायामपरायणाय नमः ।
ओं प्राणायामप्रभावज्ञाय नमः ।
ओं फलीकृतस्तम्भाय नमः ।
ओं बहृचशाखाध्येत्रे नमः ।
ओं बहुपुराणप्रसिद्धाय नमः ।
ओं बट्कुर्वाणमतजैत्रे नमः ।
ओं बहुगुणान्विताय नमः ।
ओं बदर्याश्रमवासिने नमः ।
ओं बहुदक्षिणयागमानिताय नमः । ५००

ओं बहुप्रमाणप्रसिद्धाय नमः ।
ओं बृहद्याज्ञवल्क्याय नमः ।
ओं बृहदारण्यकोक्तवैभवाय नमः ।
ओं बृहस्पतेस्तारकोपदेशकाय नमः ।
ओं बृसीस्थाय नमः ।
ओं ब्रह्मर्षये नमः ।
ओं ब्रह्मदत्तगुरवे नमः ।
ओं ब्रह्मरातपुत्राय नमः ।
ओं ब्रह्मांशसम्भवाय नमः ।
ओं ब्रह्ममनोजगार्गीरमणाय नमः ।
ओं ब्रह्मदत्ताश्वमेधस्थाय नमः ।
ओं ब्रह्मक्षत्रादिगुरवे नमः ।
ओं ब्रह्महत्याभयब्रान्तगुरोःदोषविनाशोद्यताय नमः ।
ओं ब्रह्ममानसपुत्राय नमः ।
ओं ब्रह्मलब्दगायत्रीहृदयाय नमः ।
ओं ब्रह्मदत्तयोगतत्पराय नमः ।
ओं ब्रह्मिष्ठदोषसन्दग्दशाकल्यप्राणरक्षकाय नमः ।
ओं ब्रह्मविद्यापारङ्गताय नमः ।
ओं ब्रह्मविद्याभिवृद्ध्यर्थमवतीर्णाय नमः ।
ओं ब्रह्मविद्यास्वरूपविदे नमः । ५२०

ओं ब्रह्मविद्यापरीक्षार्थमागताय नमः ।
ओं ब्रह्मविष्ण्वीशशिष्याय नमः ।
ओं ब्रह्मस्थापितवेदज्ञाय नमः ।
ओं ब्रह्मणास्थापितम्पूर्वं-इत्यत्प्रेरितकीर्तिमते नमः ।
ओं ब्रह्मेष्टकृते नमः ।
ओं ब्रह्मविद्यानिलयाय नमः ।
ओं ब्रह्मविद्यासम्प्रदायगुरवे नमः ।
ओं ब्रह्मतेजोज्वलन्मुखाय नमः ।
ओं ब्रह्मनिष्ठागरिष्ठाय नमः ।
ओं ब्रह्मवादिने नमः ।
ओं ब्रह्मण्याय नमः ।
ओं ब्रह्मवित्प्राणोत्क्रमणाभावप्रसादकाय नमः ।
ओं ब्रह्मैवसन्ब्रह्मपोतीति-जीवन्मुक्तिप्रकाशकाय नमः ।
ओं ब्रह्मपुराणोक्तमहिम्ने नमः ।
ओं ब्रह्मविद्यादानशीलाय नमः ।
ओं ब्रह्माण्डोक्तकीर्तये नमः ।
ओं ब्रह्मशिष्याय नमः ।
ओं ब्रह्मरातजठराब्दसुधामयूखाय नमः ।
ओं ब्रह्मविदःअनियताचारवत्वप्रदर्मकाय नमः ।
ओं ब्रह्मिष्ठाय नमः । ५४०

ओं ब्रह्मबीजाय नमः ।
ओं भाष्कलाधीतऋग्वेदाय नमः ।
ओं ब्राह्मणासङ्कीर्णयजुर्विदे नमः ।
ओं ब्राह्मणानाम्ब्रह्मविद्यादृढीकरणदक्ष्वाय नमः ।
ओं ब्राह्मणप्रियाय नमः ।
ओं ब्राह्मणसमावृताय नमः ।
ओं बीजमेतत्पुरस्कृत्य-इत्युक्तव्रते नमः ।
ओं बुद्धिनैर्मल्यदात्रे नमः ।
ओं बुद्धिवृद्धिप्रदायकाय नमः ।
ओं बुद्धिमालिन्यहन्त्रे नमः ।
ओं बैजवासगुरवे नमः ।
ओं बैजवासायनवेदबीजाय नमः ।
ओं बोधायनजनकवेददात्रे नमः ।
ओं बौद्धमतनिरासकाय नमः ।
ओं भक्त्येवतत्तेमयोदितमितिवादिने नमः ।
ओं भक्तदारिद्र्यभञ्जनाय नमः ।
ओं भक्ताभीष्टफलप्रदाय नमः ।
ओं भक्तपापहन्त्रे नमः ।
ओं भद्रपदनाम्ने नमः ।
ओं भास्करार्चनतत्पराय नमः । ५६०

ओं भारद्वाजतारकमन्त्रोपदेशकाय नमः ।
ओं भास्कराचार्यानुग्रहप्राप्तयजुर्वेद-सम्प्रदायप्रवर्तकाय नमः ।
ओं भानुगुप्तयजुर्वेदप्रकाशकाय नमः ।
ओं भानुगुप्तायुतयाम-यजुर्वेदैकनिष्ठिताय नमः ।
ओं भाविवृत्तान्तमित्यादिपाठ्यमानप्रसिद्धमते नमः ।
ओं भास्करदिनजन्मने नमः ।
ओं भारद्वाजमतजैत्रे नमः ।
ओं भुञ्जमुनिमतजैत्रे नमः ।
ओं भुवनकोशपरिमाणप्रदर्शकाय नमः ।
ओं भुक्तिमुक्तिफलप्रदाय नमः ।
ओं भूपतिगुरवे नमः ।
ओं भृगुविदितचरित्राय नमः ।
ओं भृगुकर्दमसंवेद्यमहागाथकथान्विताय नमः ।
ओं मनस्सन्यासिने नमः ।
ओं मद्यन्दिनवेददात्रे नमः ।
ओं मध्याह्नार्कसमप्रभाय नमः ।
ओं मण्डलब्राह्मणप्रियाय नमः ।
ओं मधुकाण्डोक्तमहिम्ने नमः ।
ओं महायोगिपुङ्गवाय नमः ।
ओं महासौरमन्त्राभिज्ञाय नमः । ५८०

ओं महाशान्तिविधानज्ञाय नमः ।
ओं महातेजसे नमः ।
ओं महामत्स्य, श्येनदृष्टास्ताभ्यां-आत्मनःसंसारिधर्मासङ्गित्वप्रदर्शकाय नमः ।
ओं महामेधाजनकाय नमः ।
ओं महात्मने नमः ।
ओं मधुकायकुन्धपुत्रमन्त्रोपदेष्ट्रे नमः ।
ओं माद्यन्दिनयजुःप्रियाय नमः ।
ओं मदधीतन्त्यजेत्यत्रमहायोगप्रदर्शकाय नमः ।
ओं महते नमः ।
ओं महाराजगुरवे नमः ।
ओं मद्यन्दिनोमनुष्याणाः-इत्यत्राख्यात मतविदे नमः ।
ओं मधुकगुरवे नमः ।
ओं मधुविद्यारहस्यविधे नमः ।
ओं मन्त्रब्राह्मणतत्पराय नमः ।
ओं मन्त्रोपनिषत्सारज्ञाय नमः ।
ओं मन्त्राक्षतप्रभावज्ञाय नमः ।
ओं मन्नाम्नाचात्रविश्राममित्यत्रशिवतत्पराय नमः ।
ओं मत्तोऽधीतंवेदजालन्देहेतिगुरुवाक्यकृते नमः ।
ओं मदधीतन्त्यजेत्यत्रमहाश्चर्यकर्मकृते नमः ।
ओं ममाप्यलन्त्वयेत्यत्रमार्ताण्डसमविक्रमाय नमः । ६००

ओं महायोगिने नमः ।
ओं मखनायकाय नमः ।
ओं महासम्यमीन्द्राय नमः ।
ओं महामहिमान्विताय नमः ।
ओं मनस्विने नमः ।
ओं माद्यन्दिनवरप्रदात्रे नमः ।
ओं माकोषङ्कुरुयज्ञेश-इत्याकाशाख्यातवैभवाय नमः ।
ओं मातुलद्वेषिने नमः ।
ओं मार्ताण्डमतमण्डनाय नमः ।
ओं मार्ताण्डमण्डलप्रवेशाय नमः ।
ओं मायावादिजनविद्वेषिणे नमः ।
ओं मातृगर्भस्थकालैकपरब्रह्मोपदेशकाय नमः ।
ओं मातृगर्भस्थोपिविष्णूक्त-परब्रह्मोपदेशभाजने नमः ।
ओं मातृगर्भस्थकालैकतत्त्वज्ञाय नमः ।
ओं माघपूर्णिमायाङ्कृताभिषेकाय नमः ।
ओं मातुलमहापातकभञ्जनाय नमः ।
ओं महेन्द्रसभासदे नमः ।
ओं मात्सर्यरहिताय नमः ।
ओं मित्रावरुणस्वरूपज्ञाय नमः ।
ओं मिहिरावताराय नमः । ६२०

ओं मिथिलापुरवासाय नमः ।
ओं मुनिमानिताय नमः ।
ओं मुनिसङ्घसमावृताय नमः ।
ओं मुनिवेषमिहिराय नमः ।
ओं मुक्त्यतिमुक्तिव्याख्यात्रे नमः ।
ओं मुनिनाङ्ककुदे नमः ।
ओं मुहूर्तशास्त्रतत्त्वज्ञाय नमः ।
ओं मुनिकाण्डोक्तमहिम्ने नमः ।
ओं मुहूर्तंसह्यतान्दाहं-इत्यर्कवचनानुग्रहाय नमः ।
ओं मुहूर्तमात्रसंलब्द-सर्ववेदान्तमण्डलाय नमः ।
ओं मुनिमण्डलमण्डिताय नमः ।
ओं मुनिपुङ्गवपूजिताय नमः ।
ओं मूर्तिमत्कृष्णयाजुषवमनकृते नमः ।
ओं मृत्योरपिमृत्युसत्व-तत्स्वरूपप्रवक्त्रे नमः ।
ओं मेरुपृष्ठस्थाय नमः ।
ओं मैत्रेयीप्राणनाथाय नमः ।
ओं मैत्रेयीस्तत्वोपदेष्ट्रे नमः ।
ओं यज्ञवल्क्यपुत्राय नमः ।
ओं यात्मासर्वान्तरस्तं-इत्यादिप्रश्नोत्तरदायकाय नमः ।
ओं यज्ञसूत्रधारिणे नमः । ६४०

ओं यज्ञावताराय नमः ।
ओं यज्ञशिष्याय नमः ।
ओं यज्ञवीर्याय नमः ।
ओं यत्रसुप्तेतिपरमलोकप्रदर्शकाय नमः ।
ओं यजुर्मूलकारणाय नमः ।
ओं यदासर्वेतिज्ञानादेव-मुक्तिरितिसूचकाय नमः ।
ओं यजुर्वेदमहावाक्य-फलास्वादनपण्डिताय नमः ।
ओं यजमानाय नमः ।
ओं यधाकामप्रकाशधिये नमः ।
ओं यदार्षविदे नमः ।
ओं यज्ञपूजिताय नमः ।
ओं यथेष्टमार्गसञ्चारिणे नमः ।
ओं यथाभिलषितदेशमार्गस्थाय नमः ।
ओं यदेवसाक्षादित्यत्रप्रख्यातपराक्रमाय नमः ।
ओं यः पृथिव्यातिष्टनित्याधौअधिदैवतं-अन्तर्यामिस्वरूपपञ्चबोधकाय नमः ।
ओं यः सर्वेष्वितिअधिभूतं-अन्तर्यामिरहस्योपदेष्ट्रे नमः ।
ओं यःप्राणेतिष्टनित्यादौ-अध्यात्ममन्तर्यामितत्त्वोपदेशकाय नमः ।
ओं यदेतन्मण्डलं तपति इति मन्त्र तत्त्वार्थविदे नमः ।
ओं यत्तेकश्चादित्यादिमन्त्रेषु जनकाज्ञानभञ्जकाय नमः ।
ओं यजूम्षिशुक्लानि इत्याम्नायोक्त कीर्तिमते नमः । ६६०

ओं यजुर्वेदस्सात्त्विकस्यादित्यादिगुणविदे नमः ।
ओं यजुरोङ्काररूपेणवर्ततेति विशेषविदे नमः ।
ओं यतिराजपट्‍टाभिषिक्ताय नमः ।
ओं यतीश्वराय नमः ।
ओं यतिने नमः ।
ओं यातयामाऽयातयामविभागविदे नमः ।
ओं यातयामयजुस्त्यागिने नमः ।
ओं याज्ञवल्क्याद्याज्ञवल्क्येत्याचार्यान्वयान्विताय नमः ।
ओं याज्ञवल्क्यं समादायेति महात्म्य सम्युताय नमः ।
ओं याज्ञवल्क्यमते स्थित्वा इतीरतकीर्तिमते नमः ।
ओं याजयामासति प्रेद इत्यत्राख्यात विक्रमाय नमः ।
ओं युधिष्ठिराश्वमेधपूजिताय नमः ।
ओं युधिष्ठिराश्वमेधाध्वर्यवे नमः ।
ओं योगयाज्ञवल्क्याय नमः ।
ओं योगीश्वराय नमः ।
ओं योगानन्द मुनीश्वराय नमः ।
ओं योगशास्त्रप्रणेत्रे नमः ।
ओं योगमार्गोपदेशकाय नमः ।
ओं योगज्ञाय नमः ।
ओं योगशिरोमणये नमः । ६८०

ओं योगीश्वरद्वादशीप्रियाय नमः ।
ओं योह ज्येष्ठमित्युक्त सर्वश्रेष्ठ्यसमन्विताय नमः ।
ओं योगसामर्थ्ययुक्ताय नमः ।
ओं योगिनामग्रगण्याय नमः ।
ओं योगीन्द्रवन्दिताय नमः ।
ओं योगिराजाय नमः ।
ओं रथमारोप्यतं भानुरित्यादुक्तप्रतापाय नमः ।
ओं रथारूढाय नमः ।
ओं रविस्तोत्रपरायणाय नमः ।
ओं रविप्रीतिकरसत्रयागकर्त्रे नमः ।
ओं रहस्यार्थविशारदाय नमः ।
ओं राममन्त्ररहस्यज्ञाय नमः ।
ओं रामदर्शनतत्पराय नमः ।
ओं राममन्त्रप्रदात्रे नमः ।
ओं राजगुरवे नमः ।
ओं रुद्राध्यायप्रभावज्ञाय नमः ।
ओं रुधिराक्त यजुर्वमनकृते नमः ।
ओं रुद्रमन्त्रपरायणाय नमः ।
ओं रोमहर्षणशिष्याय नमः ।
ओं लक्ष्मीपौत्राय नमः । ७००

ओं लक्षगायत्रीजपानुष्ठात्रे नमः ।
ओं लोकोपकारिणे नमः ।
ओं लोकगुरवे नमः ।
ओं लोकपूजिताय नमः ।
ओं लोकाद्भुतकार्यकृते नमः ।
ओं वसिष्ठवद्वरिष्ठाय नमः ।
ओं वमनजाड्यापहन्त्रे नमः ।
ओं व्यवस्थित प्रकरण यजुर्वेद प्रकाशकाय नमः ।
ओं वसुञ्चापि समाहूय इत्यादि पर्वस्थ कीर्तिमते नमः ।
ओं वरमुनीन्द्राय नमः ।
ओं वाजिने नमः ।
ओं वाजसनिपुत्राय नमः ।
ओं वाजसनेयाय नमः ।
ओं वायुपुराणोक्तवैभवाय नमः ।
ओं वायुभक्षणतत्पराय नमः ।
ओं वाजिमन्त्रार्थसिद्धाय नमः ।
ओं वाजिरूपधारिणे नमः ।
ओं वाजिविप्रगुरवे नमः ।
ओं व्यासोक्तमहिम्ने नमः ।
ओं व्यासवेदोपदेशकाय नमः । ७२०

ओं वाणी महामन्त्रोपासनालब्ध अष्टादश महाविद्याय नमः ।
ओं वामदेवार्चनप्रिय विप्रेन्द्राय नमः ।
ओं वाजिशब्दप्रसिद्धाय नमः ।
ओं वाजिवेदप्रभावज्ञाय नमः ।
ओं वाजिमन्त्ररहस्यविदे नमः ।
ओं वाजिनामाष्टकाय नमः ।
ओं वाजिग्रीवाप्त वाग्विभूति विजृम्भित दिगन्ताय नमः ।
ओं वाजपेयातिरात्रादि यज्ञादीक्षासमन्विताय नमः ।
ओं विद्वत्सन्यासिने नमः ।
ओं विविदिषा विद्वत्सन्यास प्रकाशकृते नमः ।
ओं विश्वावसोः संशयघ्नाय नमः ।
ओं विजयजनकाय नमः ।
ओं विष्ण्ववताराय नमः ।
ओं विष्णुपुराणोक्तवैभवाय नमः ।
ओं विश्वावसुज्ञानगुरवे नमः ।
ओं विप्रेन्द्राय नमः ।
ओं विदेह वाजिमेधयाजकाय नमः ।
ओं विभावसोद्वरबलात्सर्व-वेदान्तपारगाय नमः ।
ओं विश्वावसुविवेकदाय नमः ।
ओं विश्वावसुविभागज्ञाय नमः । ७४०

ओं विदग्द विद्यावैतण्ड विवादे विश्वरूप धृते नमः ।
ओं विरजाक्षेत्र शिवलिङ्गप्रतिष्ठात्रे नमः ।
ओं विश्वतैजस प्राज्ञ तुरीय ब्रह्मोपदेशकाय नमः ।
ओं विरजातीरे तपः कृते नमः ।
ओं विद्यमानेगुरौ-जनकसख्याय नमः ।
ओं विद्याकर्मपूर्व प्रज्ञानां देहान्तरारम्भकत्व प्रवक्त्रे नमः ।
ओं विष्णोराप्तजन्मने नमः ।
ओं विष्णुमन्त्रैक हृष्ठधिये नमः ।
ओं विज्ञानमानन्दमिति जगत्कारण विदुषे नमः ।
ओं वीर्यवत्तर वेदज्ञाय नमः ।
ओं वीर्यवत्तरवैदिकपालने कृत निश्चयाय नमः ।
ओं वृद्धयाज्ञवल्क्याय नमः ।
ओं वेदशरीराय नमः ।
ओं वेदभाष्यार्थकोविदाय नमः ।
ओं वेदशरीराय नमः ।
ओं वेद्यमतये नमः ।
ओं वेदान्तज्ञानविच्छ्रेष्ठाय नमः ।
ओं वेदावेदविभागविदे नमः ।
ओं वेदं समर्पयामास इत्यत्र असाधारण कर्म कृते नमः ।
ओं वेदपुरुषशिष्याय नमः । ७६०

ओं वेदवृक्षमहावाक्य-फलास्वादपण्डिताय नमः ।
ओं वेदोऽनादिः शब्दमयः इत्यादि प्रमाणविदे नमः ।
ओं वेदवटमूलैकतत्त्वविदे नमः ।
ओं वेदवटमूलेविराजमानाय नमः ।
ओं वेदैकविभागकरणोत्सुकाय नमः ।
ओं वेदान्तवेद्याय नमः ।
ओं वेदपारायणप्रीताय नमः ।
ओं वेदोक्तमहिम्ने नमः ।
ओं वेदान्तज्ञानिने नमः ।
ओं वेदानाहृत्यचौर्येणेत्यागमैकप्रवृत्तिविदे नमः ।
ओं वेदवृक्षोद्भवन्नित्यमित्यस्मिन्नित्यमङ्गलाय नमः ।
ओं वैदेहगुरवे नमः ।
ओं वैदेहोपाध्याय नमः ।
ओं वैदेहाश्वमेधगवाम्पतये नमः ।
ओं वैनेयाध्यापकाय नमः ।
ओं वैदेहविवेकदात्रे नमः ।
ओं वैशम्पायनवेदभेदकाय नमः ।
ओं वैदेहाऽभयदायकाय नमः ।
ओं वैदेहसभापतये नमः ।
ओं वैदेहीप्राणनाथाचार्याय नमः । ७८०

ओं वैशम्पायनवैतण्डवाद-खण्डनपण्डिताय नमः ।
ओं वैशम्पायन वेदैकदानशौण्डाय नमः ।
ओं वैकुण्ठस्थ सुनन्दाब्रह्मरातानन्दवर्धनाय नमः ।
ओं वैशम्पायनहत्याद्रिभञ्जनैक महाशनये नमः ।
ओं शतपथब्राह्मणबीजाय नमः ।
ओं शततारोद्भवाय नमः ।
ओं शरत्कालजन्मने नमः ।
ओं शतानीकगुरवे नमः ।
ओं शक्तिमन्त्रोपदेशकाय नमः ।
ओं शङ्खचक्रगदापद्महस्ताय नमः ।
ओं शतशिष्यसमावृताय नमः ।
ओं शतशिष्याध्यापकाय नमः ।
ओं शतपथपरिष्कर्त्रे नमः ।
ओं शरणागतगन्धर्वाय नमः ।
ओं शरणागतगार्ग्याय नमः ।
ओं शरणागतशाकल्याय नमः ।
ओं शरणागतगन्धर्व-शतसन्देहप्रभञ्जकाय नमः ।
ओं शरणागतमैत्रेयी-शाश्वतज्ञानदात्रे नमः ।
ओं शङ्खचक्रत्रिशूलाब्ज-गदाढमरुकायुधाय नमः ।
ओं शतरुद्रीयेणामृतो-भवतीत्युपदेष्ट्रे नमः । ८००

ओं शतसम्शयविच्चेत्रे नमः ।
ओं शङ्करप्रसादलब्धाय नमः ।
ओं शाकल्यजीवदानकृते नमः ।
ओं शान्त्यादिगुणसम्युताय नमः ।
ओं शान्तिपर्वस्थवैभवाय नमः ।
ओं शास्त्रकर्त्रे नमः ।
ओं शापेयदेशिकाय नमः ।
ओं शाश्वताय नमः ।
ओं शाकल्यप्राणपतिष्ठापनाचार्याय नमः ।
ओं शाकल्याऽभयदायकाय नमः ।
ओं शास्त्रविच्छ्रेष्ठाय नमः ।
ओं शाकल्यप्राणदानव्रताय नमः ।
ओं शाखापरम्पराचार्याय नमः ।
ओं शाकल्यसंस्तुताय नमः ।
ओं शाखारन्तत्वदोषनिराकरणपण्डिताय नमः ।
ओं शाखास्तत्र शिखाकाराः इत्यत्रेति शृतिमूलविदे नमः ।
ओं शाखाश्चक्रे पञ्चदश कण्वाद्याशेति कीर्तिदाय नमः ।
ओं शाकल्यमानदात्रे नमः ।
ओं शाश्वतिकपदाऽधिष्ठिताय नमः ।
ओं शिवाराधनतत्पराय नमः । ८२०

ओं शिवलिङ्गप्रतिष्ठात्रे नमः ।
ओं शिवाभङ्गरक्षास्तोत्रकृते नमः ।
ओं शिवाय नमः ।
ओं शिवशिष्याय नमः ।
ओं शिष्यबुद्धिपरीक्षकाय नमः ।
ओं श्रीराममन्त्रतत्त्वज्ञाय नमः ।
ओं शुभप्रदाय नमः ।
ओं शुद्धविग्रहाय नमः ।
ओं शुद्धयाजुषप्रकाशकाय नमः ।
ओं शृतिस्मृतिपुराणाख्य-लोचनत्रयसम्युताय नमः ।
ओं शुक्लोपासकाय नमः ।
ओं शुक्लावताराय नमः ।
ओं शुक्लवेदपरायणाय नमः ।
ओं शुक्लकृष्णयजुर्वेदकारणाय नमः ।
ओं शुक्लं वाजसनेयं स्यादित्यत्राख्यातकीर्तये नमः ।
ओं शुष्कस्तम्भप्राणदात्रे नमः ।
ओं शुष्कस्तम्भप्रसूनदाय नमः ।
ओं शुद्धसत्त्वगुणोपेत-यजुर्वेदप्रकाशकृते नमः ।
ओं शुक्लान्ययातयामानि यजूम्षीति प्रोक्तवैभवाय नमः ।
ओं शुक्लाख्याञ्च यजुः पञ्चदश शाखाप्रवर्तकाय नमः । ८४०

ओं शुक्लाम्बरधराय नमः ।
ओं शुकोपनयनकारयित्रे नमः ।
ओं शुक्लपक्षोद्भवाय नमः ।
ओं श्वेतभस्मधारिणे नमः ।
ओं शैववैष्णवमतोद्धारकाय नमः ।
ओं शोभनचरित्राय नमः ।
ओं शोकनाशकाय नमः ।
ओं षट्पुरालयकृताध्वरस्थाय नमः ।
ओं षष्ठाध्यायस्थवैभवाय नमः ।
ओं षष्ठाध्यायाप्तकीर्तिमते नमः ।
ओं सच्चिदानन्दमूर्तये नमः ।
ओं स्वयम्भूशिष्याय नमः ।
ओं स्वभूर्मायातीताय नमः ।
ओं सरस्वतीसदावास्यवक्त्राय नमः ।
ओं सर्वशास्त्रार्थतत्त्वज्ञाय नमः ।
ओं सर्वविदारकत्वातक्षरान्तित्वानुमापकाय नमः ।
ओं सजातीयादि भेद रहितत्वेन ब्रह्मोपदेष्ट्रे नमः ।
ओं सर्व ऋष्युत्तमाय नमः ।
ओं सर्वब्राह्मणजैत्रे नमः ।
ओं सभाध्यक्षाय नमः । ८६०

ओं सभापूज्याय नमः ।
ओं सर्वोत्तमगुणान्विताय नमः ।
ओं सर्वोत्कृष्टज्ञानान्विताय नमः ।
ओं सर्वभावज्ञाय नमः ।
ओं सर्वेश्वरांशजाय नमः ।
ओं सनकादिमुनिज्ञातवैभवाय नमः ।
ओं सत्यासत्यविभागविदे नमः ।
ओं सयथार्थेति जगतः उत्पत्ति ब्रह्मात्मक त्वावगमयित्रे नमः ।
ओं सर्वमन्त्रार्थतत्त्वविदे नमः ।
ओं सब्रह्मभ्रूणस्थाय नमः ।
ओं स्वप्नदृष्टान्तेन-परलोकसाधकाय नमः ।
ओं सङ्गीतशास्त्रकर्त्रे नमः ।
ओं स्कन्दाराधनतत्पराय नमः ।
ओं स्वप्नादे आत्मज्योतिषैव व्यवहारप्रदर्शकाय नमः ।
ओं स्वप्नेवासनामय-सृष्ट्यङ्गीकर्त्रे नमः ।
ओं समाधियुक्ताय नमः ।
ओं सदाध्यानपरायणाय नमः ।
ओं सर्वदुःखप्रशमनाय नमः ।
ओं सर्वलक्षणसम्युताय नमः ।
ओं सयथासैन्धवखिल्य इत्यान्त्यन्तिक प्रलये विशेषविज्ञानाभावोपदेशकाय नमः । ८८०

ओं स्कन्दवर्णितवैभवाय नमः ।
ओं स्वच्छानन्दान्विताय नमः ।
ओं सत्यसन्धाय नमः ।
ओं सर्वभूतगुणज्ञाय नमः ।
ओं सभामध्यविराजिताय नमः ।
ओं सर्वभूतहितेरताय नमः ।
ओं सर्वशास्त्रपारगाय नमः ।
ओं सतांवरिष्ठाय नमः ।
ओं सम्यक् सङ्गीयमानाय नमः ।
ओं सयधासर्या सामिति प्राकृत प्रलये प्रपञ्चस्य ब्रह्मात्मकत्व बोधयित्रे नमः ।
ओं समुद्रोपासकाय नमः ।
ओं सत्याषाढमुनेः तैत्तिरीयत्वदायकाय नमः ।
ओं सन्यासार्थं मैत्रेय्यनुमति प्रार्थयित्रे नमः ।
ओं स्मृतिकर्त्रे नमः ।
ओं सन्यासाश्रमप्रदर्शकाय नमः ।
ओं सभापर्वोक्तमहिम्ने नमः ।
ओं सहस्रांशुसमप्रभाय नमः ।
ओं सरस्वतीपूजकाय नमः ।
ओं सरस्वतीस्तोत्रकृते नमः ।
ओं सर्वब्राह्मणसंवृताय नमः । ९००

ओं सर्वशाखादैतृशिष्यगुणान्विताय नमः ।
ओं सर्वलोकगुर्वन्तेवासिने नमः ।
ओं सर्वप्रश्नोत्तर-दानशौण्डाय नमः ।
ओं सर्वसन्देहविच्छेत्रे नमः ।
ओं सत्यानन्दस्वरूपाय नमः ।
ओं साम्राट् सम्पूजिताय नमः ।
ओं सत्यकाममतजैत्रे नमः ।
ओं संसारमोक्षयोः स्वरूपविवेचकाय नमः ।
ओं सङ्कोचविकासाभ्यां-प्राणस्वरूपनिर्धारयित्रे नमः ।
ओं सत्त्वप्रधानवेदज्ञाय नमः ।
ओं स्मृतिप्रसिद्धसत्कीर्तये नमः ।
ओं सकल ऋषिश्रेष्ठाय नमः ।
ओं सर्वकालपरिपूर्णाय नमः ।
ओं सकलागमज्ञाय नमः ।
ओं समग्रकीर्तिसम्युताय नमः ।
ओं सर्ववेदपारगाय नमः ।
ओं सर्वामयनिवारकाय नमः ।
ओं सनत्कुमार-संहितोक्तसत्कीर्तये नमः ।
ओं सर्वानुक्रमणिकोक्तमहिम्ने नमः ।
ओं सनकाय नमः । ९२०

ओं सनन्दाय नमः ।
ओं सर्वङ्कषाय नमः ।
ओं सनातनमूर्तये नमः ।
ओं सन्मुनीन्द्राय नमः ।
ओं सत्यात्मने नमः ।
ओं स्वर्गलोकवासिने नमः ।
ओं स्वयम्प्रकाशमूर्तये नमः ।
ओं सरस्वतीप्रसादलब्धाय नमः ।
ओं सत्यसङ्कल्पाय नमः ।
ओं सत्यवादिने नमः ।
ओं सत्रयाग महादीक्षा समन्विताय नमः ।
ओं सवेदगर्भाय नमः ।
ओं सर्वज्ञाय नमः ।
ओं सर्ववेदान्तपारङ्गताय नमः ।
ओं सर्वभाषाभिज्ञाय नमः ।
ओं सर्वतन्त्रस्वतन्त्राय नमः ।
ओं सामश्रवदेशिकाय नमः ।
ओं सामशाखाचार्याय नमः ।
ओं सावित्रीमन्त्रसारज्ञाय नमः ।
ओं सामवेदोक्तवैभवाय नमः । ९४०

ओं स्कन्दोक्तमहिम्ने नमः ।
ओं साङ्गोपाङ्गविद्यानुष्टिताय नमः ।
ओं साम्राज्यार्हाय नमः ।
ओं साङ्ख्ययोगसारज्ञाय नमः ।
ओं सारांशधर्मकर्त्रे नमः ।
ओं सारभूत यजुर्वेद प्रकाशकाय नमः ।
ओं सुनन्दानन्दवर्धनाय नमः । [नर्षनाय]
ओं सुप्रसिद्धकीर्तये नमः ।
ओं सुषुप्ति दृष्टान्तेन मोक्षस्वरूप प्रसादकायनमः ।
ओं सुधर्मज्ञाय नमः ।
ओं सुषुप्ते बाह्याभ्यन्तर ज्ञानाभावेन ब्रह्मानन्दानुभव प्रदर्शकाय नमः ।
ओं सुमनसाङ्कामनाकल्पवृक्षाय नमः ।
ओं सुमन्तुसम्मानिताय नमः ।
ओं सुदुष्कर तपः कृते नमः ।
ओं सुतसहस्रसम्युक्ताय नमः ।
ओं सुनन्दानन्दकन्दाय नमः ।
ओं सूर्यनारायणावताराय नमः ।
ओं सूर्यान्तेवासिने नमः ।
ओं सूर्यलोकप्राप्तजयाय नमः ।
ओं सूर्यमण्डलस्थाय नमः । ९६०

ओं सूर्यसन्तोषकार्यकृते नमः ।
ओं सूर्योपासनतत्पराय नमः ।
ओं सूर्यस्वरूपाय नमः ।
ओं सूत्रकर्त्रे नमः ।
ओं सूर्यस्वरूपस्तुतिकृते नमः ।
ओं सूर्यलब्धवराय नमः ।
ओं सूर्यप्रसादलब्धसारस्वताय नमः ।
ओं सूर्यातिसूर्यभेदज्ञाय नमः ।
ओं सूर्यतेजोविजृम्भिताय नमः ।
ओं सूर्यप्राप्तब्रह्मविद्या-परिपूर्णमनोरथाय नमः ।
ओं सूर्यलोकस्थवैदिकप्रकाशन-पटुव्रताय नमः ।
ओं सूत्रात्मतत्त्वविदे नमः ।
ओं सूत्रात्मसत्ताप्रदर्शयित्रे नमः ।
ओं सोमवारव्रतज्ञाय नमः ।
ओं सोमकासुरापहृत-वेदप्रचुरकृते नमः ।
ओं सौरमन्त्रप्रभावज्ञाय नमः ।
ओं सौरसंहितोक्तवैभवाय नमः ।
ओं सौम्य महर्षेः शिष्याग्रगण्याय नमः ।
ओं सौम्य महर्षेः एष्यज्जन्म परिज्ञात्रे नमः ।
ओं हरिहरात्मकाय नमः । ९८०

ओं हरिवदनोपासकाय नमः ।
ओं हरिहरप्रभवे नमः ।
ओं हरिप्रसादलब्धवैदुष्याय नमः ।
ओं हरिहरहिरण्यगर्भ-प्रसादान्विताय नमः ।
ओं हयशिरोरूपप्रभावज्ञाय नमः ।
ओं हिरण्यकेशि-वेददात्रे नमः ।
ओं हिरण्मयेनेत्यादिमन्त्रोपासकाय नमः ।
ओं हिरण्यनाभाय-योगतत्त्वोपदेशकाय नमः ।
ओं हेमधेनुसहस्रप्राणदात्रे नमः ।
ओं होताश्वलजैत्रे नमः ।
ओं क्षत्रोपेदद्विजगुरवे नमः ।
ओं क्षमादिगुणोपेताय नमः ।
ओं क्षयवृद्धिभावविवर्जिताय नमः ।
ओं क्षत्रियवर्गोपयोग-राज्यतन्त्रप्रणेत्रे नमः ।
ओं क्षत्रियसहस्रशिरोलुठित-चरणपङ्कजाय नमः ।
ओं क्षत्राज्ञाकर्त्रे नमः ।
ओं क्षेत्रज्ञाय नमः ।
ओं क्षेमकृते नमः ।
ओं क्षेत्रजनस्थाने-जनकयज्ञसम्पादकाय नमः ।
ओं क्षेत्रक्षेत्रज्ञविवेकिने नमः । १०००

इति श्री याज्ञवल्क्य सहस्रनामावली ।


इतर श्री गुरु स्तोत्राणि पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed