Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
नारायणाङ्घ्रि जलजद्वय सक्तचित्तं
श्रुत्यर्थसम्पदनुकम्पित चारुकीर्तिम् ।
वाल्मीकिमुख्यमुनिभिः कृतवन्दनाढ्यं
शान्तं सदा विखनसं मुनिमाश्रयामि ॥ १ ॥
लक्ष्मीपतेः प्रियसुतं ललितप्रभावं
मन्त्रार्थतत्त्वरसिकं करुणाम्बुराशिम् ।
भक्ताऽनुकूलहृदयं भपबन्धनाशं
शान्तं सदा विखनसं मुनिमाश्रयामि ॥ २ ॥
श्रीवासुदेवचरणाम्बुजभृङ्गराजं
कामादिदोषदमनं परविष्णुरूपम् ।
वैखानसार्चितपदं परमं पवित्रं
शान्तं सदा विखनसं मुनिमाश्रयामि ॥ ३ ॥
भृग्वादिशिष्यमुनिसेवितपादपद्मं
योगीश्वरेश्वरगुरुं परमं दयालुम् ।
पापापहं भगदर्पितचित्तवृत्तिं
शान्तं सदा विखनसं मुनिमाश्रयामि ॥ ४ ॥
कण्ठावलग्नतुलसीनलिनाक्षमाला
कान्तिप्रकाशविलसद्घनपीनवत्सम् ।
स्मेराननाम्बुज लसद्धवलोर्ध्वपुण्ड्रं
शान्तं सदा विखनसं मुनिमाश्रयामि ॥ ५ ॥
वेदान्तवेद्यमखिलार्थविदां वरिष्ठं
श्रीकान्तपादसरसीरुहलग्नचित्तम् ।
केयूरहारमणिराजविभूषिताङ्गं
शान्तं सदा विखनसं मुनिमाश्रयामि ॥ ६ ॥
काषायवस्त्रकमनीयजटाकलापं
दण्डत्रयोज्ज्वलकरं विमलोपवीतम् ।
लोकावलोकनकरं विगलद्विचारं
शान्तं सदा विखनसं मुनिमाश्रयामि ॥ ७ ॥
स्वाबद्धसूत्रगतविष्णुबलिप्रमेया-
-दागर्भवैष्णवमुपादिशदादराद्यः ।
तत्तादृशं बुधवशं विनिपातिताशं
शान्तं सदा विखनसं मुनिमाश्रयामि ॥ ८ ॥
एवं परं विखनसाष्टकमात्मना ये
शृण्वन्ति चात्मनि पठन्ति महादरेण
तान्मुक्तदोष निचयानपवर्गयोग्यान्
सम्प्रीत आशु तनुयात्कमला सुपुत्रः ॥ ९ ॥
इति श्री विखनसाष्टकम् ॥
इतर श्री विखनस स्तोत्राणि पश्यतु ।
గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.