Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
ध्यानम् ।
श्री वेङ्कटाचलाधीशं श्रियाध्यासितवक्षसम् ।
श्रितचेतनमन्दारं श्रीनिवासमहं भजे ॥
मुनय ऊचुः ।
सूत सर्वार्थतत्त्वज्ञ सर्ववेदान्तपारग ।
येन चाराधितः सद्यः श्रीमद्वेङ्कटनायकः ॥ १ ॥
भवत्यभीष्टसर्वार्थप्रदस्तद्ब्रूहि नो मुने ।
इति पृष्टस्तदा सूतो ध्यात्वा स्वात्मनि तत् क्षणात् ।
उवाच मुनिशार्दूलान् श्रूयतामिति वै मुनिः ॥ २ ॥
श्रीसूत उवाच ।
अस्ति किञ्चिन्महद्गोप्यं भगवत्प्रीतिकारकम् ।
पुरा शेषेण कथितं कपिलाय महात्मने ॥ ३ ॥
नाम्नामष्टशतं पुण्यं पवित्रं पापनाशनम् ।
आदाय हेमपद्मानि स्वर्णदीसम्भवानि च ॥ ४ ॥
ब्रह्मा तु पूर्वमभ्यर्च्य श्रीमद्वेङ्कटनायकम् ।
अष्टोत्तरशतैर्दिव्यैर्नामभिर्मुनिपूजितैः ॥ ५ ॥
स्वाभीष्टं लब्धवान् ब्रह्मा सर्वलोकपितामहः ।
भवद्भिरपि पद्मैश्च समर्च्यस्तैश्च नामभिः ॥ ६ ॥
तेषां शेषनगाधीशमानसोल्लासकारिणाम् ।
नाम्नामष्टशतं वक्ष्ये वेङ्कटाद्रिनिवासिनः ॥ ७ ॥
आयुरारोग्यदं पुंसां धनधान्यसुखप्रदम् ।
ज्ञानप्रदं विशेषेण महदैश्वर्यकारकम् ॥ ८ ॥
अर्चयेन्नामभिर्दिव्यैः वेङ्कटेशपदाङ्कितैः ।
नाम्नामष्टशतस्यास्य ऋषिर्ब्रह्मा प्रकीर्तितः ॥ ९ ॥
छन्दोऽनुष्टुप्तथा देवो वेङ्कटेश उदाहृतः ।
नीलगोक्षीरसम्भूतो बीजमित्युच्यते बुधैः ॥ १० ॥
श्रीनिवासस्तथा शक्तिर्हृदयं वेङ्कटाधिपः ।
विनियोगस्तथाऽभीष्टसिद्ध्यर्थे च निगद्यते ॥ ११ ॥
(स्तोत्रम्)
ओं नमो वेङ्कटेशाय शेषाद्रिनिलयाय च ।
वृषदृग्गोचरायाऽथ विष्णवे सततं नमः ॥ १२ ॥
सदञ्जनगिरीशाय वृषाद्रिपतये नमः ।
मेरुपुत्रगिरीशाय सरःस्वामितटीजुषे ॥ १३ ॥
कुमाराकल्पसेव्याय वज्रिदृग्विषयाय च ।
सुवर्चलासुतन्यस्तसैनापत्यभराय च ॥ १४ ॥
रामाय पद्मनाभाय सदावायुस्तुताय च ।
त्यक्तवैकुण्ठलोकाय गिरिकुञ्जविहारिणे ॥ १५ ॥
हरिचन्दनगोत्रेन्द्रस्वामिने सततं नमः ।
शङ्खराजन्यनेत्राब्जविषयाय नमो नमः ॥ १६ ॥
वसूपरिचरत्रात्रे कृष्णाय सततं नमः ।
अब्धिकन्यापरिष्वक्तवक्षसे वेङ्कटाय च ॥ १७ ॥
सनकादिमहायोगिपूजिताय नमो नमः ।
देवजित्प्रमुखानन्तदैत्यसङ्घप्रणाशिने ॥ १८ ॥
श्वेतद्वीपवसन्मुक्तपूजिताङ्घ्रियुगाय च ।
शेषपर्वतरूपत्वप्रकाशनपराय च ॥ १९ ॥
सानुस्थापिततार्क्ष्याय तार्क्ष्याचलनिवासिने ।
मायागूढविमानाय गरुडस्कन्धवासिने ॥ २० ॥
अनन्तशिरसे नित्यमनन्ताक्षाय ते नमः ।
अनन्तचरणायाऽथ श्रीशैलनिलयाय च ॥ २१ ॥
दामोदराय ते नित्यं नीलमेघनिभाय च ।
ब्रह्मादिदेवदुर्दर्शविश्वरूपाय ते नमः ॥ २२ ॥
वैकुण्ठागतसद्धेमविमानान्तर्गताय च ।
अगस्त्याभ्यर्थिताशेषजनदृग्गोचराय च ॥ २३ ॥
वासुदेवाय हरये तीर्थपञ्चकवासिने ।
वामदेवप्रियायाऽथ जनकेष्टप्रदाय च ॥ २४ ॥
मार्कण्डेयमहातीर्थजातपुण्यप्रदाय च ।
वाक्पतिब्रह्मदात्रे च चन्द्रलावण्यदायिने ॥ २५ ॥
नारायणनगेशाय ब्रह्मक्लुप्तोत्सवाय च ।
शङ्खचक्रवरानम्रलसत्करतलाय च ॥ २६ ॥
द्रवन्मृगमदासक्तविग्रहाय नमो नमः ।
केशवाय नमो नित्यं नित्ययौवनमूर्तये ॥ २७ ॥
अर्थितार्थप्रदात्रे च विश्वतीर्थाघहारिणे ।
तीर्थस्वामिसरस्स्नातजनाभीष्टप्रदायिने ॥ २८ ॥
कुमारधारिकावासस्कन्दाभीष्टप्रदाय च ।
जानुदघ्नसमद्भूतपोत्रिणे कूर्ममूर्तये ॥ २९ ॥
किन्नरद्वन्द्वशापान्तप्रदात्रे विभवे नमः ।
वैखानसमुनिश्रेष्ठपूजिताय नमो नमः ॥ ३० ॥
सिंहाचलनिवासाय श्रीमन्नारायणाय च ।
सद्भक्तनीलकण्ठार्च्यनृसिंहाय नमो नमः ॥ ३१ ॥
कुमुदाक्षगणश्रेष्ठसैनापत्यप्रदाय च ।
दुर्मेधःप्राणहर्त्रे च श्रीधराय नमो नमः ॥ ३२ ॥
क्षत्रियान्तकरामाय मत्स्यरूपाय ते नमः ।
पाण्डवारिप्रहर्त्रे च श्रीकराय नमो नमः ॥ ३३ ॥
उपत्यकाप्रदेशस्थशङ्करध्यातमूर्तये ।
रुक्माब्जसरसीकूललक्ष्मीकृततपस्विने ॥ ३४ ॥
लसल्लक्ष्मीकराम्भोजदत्तकल्हारकस्रजे ।
शालग्रामनिवासाय शुकदृग्गोचराय च ॥ ३५ ॥
नारायणार्थिताशेषजनदृग्विषयाय च ।
मृगयारसिकायाऽथ वृषभासुरहारिणे ॥ ३६ ॥
अञ्जनागोत्रपतये वृषभाचलवासिने ।
अञ्जनासुतदात्रे च माधवीयाघहारिणे ॥ ३७ ॥
प्रियङ्गुप्रियभक्षाय श्वेतकोलवराय च ।
नीलधेनुपयोधारासेकदेहोद्भवाय च ॥ ३८ ।
शङ्करप्रियमित्राय चोलपुत्रप्रियाय च ।
सुधर्मिणीसुचैतन्यप्रदात्रे मधुघातिने ॥ ३९ ॥
कृष्णाख्यविप्रवेदान्तदेशिकत्वप्रदाय च ।
वराहाचलनाथाय बलभद्राय ते नमः ॥ ४० ॥
त्रिविक्रमाय महते हृषीकेशाय ते नमः ।
अच्युताय नमो नित्यं नीलाद्रिनिलयाय च ॥ ४१ ॥
नमः क्षीराब्धिनाथाय वैकुण्ठाचलवासिने ।
मुकुन्दाय नमो नित्यमनन्ताय नमो नमः ॥ ४२ ॥
विरिञ्चाभ्यर्थितानीतसौम्यरूपाय ते नमः ।
सुवर्णमुखरीस्नातमनुजाभीष्टदायिने ॥ ४३ ॥
हलायुधजगत्तीर्थसमस्तफलदायिने ।
गोविन्दाय नमो नित्यं श्रीनिवासाय ते नमः ॥ ४४ ॥
अष्टोत्तरशतं नाम्नां चतुर्थ्या नमसाऽन्वितम् ।
यः पठेच्छृणुयान्नित्यं श्रद्धाभक्तिसमन्वितः ॥ ४५ ॥
तस्य श्रीवेङ्कटेशस्तु प्रसन्नो भवति ध्रुवम् ।
अर्चनायां विशेषेण ग्राह्यमष्टोत्तरं शतम् ॥ ४६ ॥
वेङ्कटेशाभिधेयैर्यो वेङ्कटाद्रिनिवासिनम् ।
अर्चयेन्नामभिस्तस्य फलं मुक्तिर्न संशयः ॥ ४६ ॥
गोपनीयमिदं स्तोत्रम् सर्वेषां न प्रकाशयेत् ।
श्रद्धाभक्तियुजामेव दापयेन्नामसङ्ग्रहम् ॥ ४८ ॥
इति शेषेण कथितं कपिलाय महात्मने ।
कपिलाख्यमहायोगिसकाशात्तु मया श्रुतम् ।
तदुक्तं भवतामद्य सद्यः प्रीतिकरं हरेः ॥ ४९ ॥
इति श्रीवराहपुराणे श्रीवेङ्कटाचलमाहात्म्ये श्रीवेङ्कटेशाष्टोत्तरशतनाम स्तोत्रम् ॥
इतर श्री वेङ्कटेश्वर स्तोत्राणि पश्यतु ।
మా ప్రచురణ: "శ్రీ బగళాముఖీ స్తోత్రనిధి (తాత్పర్య సహితం)" ప్రింటింగు పూర్తి అయి కొనుగోలుకు సిద్ధంగా ఉంది.
స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా తెలుగు వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.
Support this Dharma Karya : If you find value in the Stotranidhi collection, please consider supporting this work. You can make a contribution through these links - PhonePe/GooglePay/BHIM (within India) or Paypal (outside India)
Buy Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".
విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.
Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

