Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
कलिमलास्तविवेकदिवाकरं
समवलोक्य तमोवलितं जनम् ।
करुणया भुवि दर्शितविग्रहं
मुनिवरं गुरुव्यासमहं भजे ॥ १ ॥
भरतवंशसमुद्धरणेच्छया
स्वजननीवचसा परिनोदितः ।
अजनयत्तनयत्रितयं प्रभुः
शुकनुतं गुरुव्यासमहं भजे ॥ २ ॥
मतिबलादि निरीक्ष्य कलौ नृणां
लघुतरं कृपया निगमाम्बुधेः ।
समकरोदिह भागमनेकधा
श्रुतिपतिं गुरुव्यासमहं भजे ॥ ३ ॥
सकलधर्मनिरूपणसागरं
विविधचित्रकथासमलङ्कृतम् ।
व्यरचयच्च पुराणकदम्बकं
कविवरं गुरुव्यासमहं भजे ॥ ४ ॥
श्रुतिविरोधसमन्वयदर्पणं
निखिलवादिमतान्ध्यविदारणम् ।
ग्रथितवानपि सूत्रसमूहकं
मुनिसुतं गुरुव्यासमहं भजे ॥ ५ ॥
यदनुभाववशेन दिवङ्गतः
समधिगम्य महास्त्रसमुच्चयम् ।
कुरुचमूमजयद्विजयो द्रुतं
द्युतिधरं गुरुव्यासमहं भजे ॥ ६ ॥
समरवृत्तविबोधसमीहया
कुरुवरेण मुदा कृतयाचनः ।
सपदिसूतमदादमलेक्षणं
कलिहरं गुरुव्यासमहं भजे ॥ ७ ॥
वननिवासपरौ कुरुदम्पती
सुतशुचा तपसा च विकर्शितौ ।
मृततनूजगणं समदर्शयन्
शरणदं गुरुव्यासमहं भजे ॥ ८ ॥
व्यासाष्टकमिदं पुण्यं ब्रह्मानन्देन कीर्तितम् ।
यः पठेन्मनुजो नित्यं स भवेच्छास्त्रपारगः ॥
इति श्रीपरमहंसस्वामि ब्रह्मानन्दविरचितं श्रीवेदव्यासाष्टकम् ।
इतर श्री गुरु स्तोत्राणि पश्यतु ।
గమనిక: ఇటివలి ప్రచురణలు "శ్రీ కృష్ణ స్తోత్రనిధి" మరియు "శ్రీ ఆంజనేయ స్తోత్రనిధి"
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.