Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
नमो देव्यै सुभद्रायै कन्यकायै नमो नमः ।
शुभं कुरु महादेवि वासव्यैच नमो नमः ॥ १ ॥
जयायै चन्द्ररूपायै चण्डिकायै नमो नमः ।
शान्तिमावहनोदेवि वासव्यै ते नमो नमः ॥ २ ॥
नन्दायैते नमस्तेस्तु गौर्यै देव्यै नमो नमः ।
पाहिनः पुत्रदाराम्श्च वासव्यै ते नमो नमः ॥ ३ ॥
अपर्णायै नमस्तेस्तु कौसुंभ्यै ते नमो नमः ।
नमः कमलहस्तायै वासव्यै ते नमो नमः ॥ ४ ॥
चतुर्भुजायै शर्वाण्यै शुकपाण्यै नमो नमः ।
सुमुखायै नमस्तेस्तु वासव्यै ते नमो नमः ॥ ५ ॥
कमलायै नमस्तेस्तु विष्णुनेत्र कुलालये ।
मृडान्यैते नमस्तेस्तु वासव्यै ते नमो नमः ॥ ६ ॥
नमश्शीतलपादायै नमस्ते परमेश्वरी ।
श्रियं नोदेहि मातस्त्वं वासव्यै ते नमो नमः ॥ ७ ॥
त्वत्पादपद्मविन्यासं चन्द्रमण्डल शीतलं ।
गृहेषु सर्वदाऽस्माकं देहि श्री परमेश्वरि ॥ ८ ॥
इतर देवी स्तोत्राणि पश्यतु ।
గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.