Sri Yajna Varaha Stotram (Bhagavate) – श्री यज्ञवराहमूर्ति स्तुतिः (भागवते)


ऋषय ऊचुः ।
जितं जितं तेऽजित यज्ञभावना
त्रयीं तनूं स्वां परिधुन्वते नमः ।
यद्रोमगर्तेषु निलिल्युरध्वरा-
-स्तस्मै नमः कारणसूकराय ते ॥ १ ॥

रूपं तवैतन्ननु दुष्कृतात्मनां
दुर्दर्शनं देव यदध्वरात्मकम् ।
छन्दांसि यस्य त्वचि बर्हिरोम-
-स्वाज्यं दृशि त्वङ्घ्रिषु चातुर्होत्रम् ॥ २ ॥

स्रुक्तुण्ड आसीत् स्रुव ईश नासयो-
-रिडोदरे चमसाः कर्णरन्ध्रे ।
प्राशित्रमास्ये ग्रसने ग्रहास्तु ते
यच्चर्वणं ते भगवन्नग्निहोत्रम् ॥ ३ ॥

दीक्षानुजन्मोपसदः शिरोधरं
त्वं प्रायणीयोदयनीयदंष्ट्रः ।
जिह्वा प्रवर्ग्यस्तव शीर्षकं क्रतोः
सभ्यावसथ्यं चितयोऽसवो हि ते ॥ ४ ॥

सोमस्तु रेतः सवनान्यवस्थितिः
संस्थाविभेदास्तव देव धातवः ।
सत्राणि सर्वाणि शरीरसन्धि-
-स्त्वं सर्वयज्ञक्रतुरिष्टिबन्धनः ॥ ५ ॥

नमो नमस्तेऽखिलमन्त्रदेवता
द्रव्याय सर्वक्रतवे क्रियात्मने ।
वैराग्यभक्त्यात्मजयाऽनुभावित
ज्ञानाय विद्यागुरवे नमो नमः ॥ ६ ॥

दंष्ट्राग्रकोट्या भगवंस्त्वया धृता
विराजते भूधर भूः सभूधरा ।
यथा वनान्निःसरतो दता धृता
मतङ्गजेन्द्रस्य सपत्रपद्मिनी ॥ ७ ॥

त्रयीमयं रूपमिदं च सौकरं
भूमण्डलेनाथ दता धृतेन ते ।
चकास्ति शृङ्गोढघनेन भूयसा
कुलाचलेन्द्रस्य यथैव विभ्रमः ॥ ८ ॥

संस्थापयैनां जगतां सतस्थुषां
लोकाय पत्नीमसि मातरं पिता ।
विधेम चास्यै नमसा सह त्वया
यस्यां स्वतेजोऽग्निमिवारणावधाः ॥ ९ ॥

कः श्रद्धधीतान्यतमस्तव प्रभो
रसां गताया भुव उद्विबर्हणम् ।
न विस्मयोऽसौ त्वयि विश्वविस्मये
यो माययेदं ससृजेऽतिविस्मयम् ॥ १० ॥

विधुन्वता वेदमयं निजं वपु-
-र्जनस्तपः सत्यनिवासिनो वयम् ।
सटाशिखोद्धूतशिवाम्बुबिन्दुभि-
-र्विमृज्यमाना भृशमीश पाविताः ॥ ११ ॥

स वै बत भ्रष्टमतिस्तवैष ते
यः कर्मणां पारमपारकर्मणः ।
यद्योगमायागुणयोगमोहितं
विश्वं समस्तं भगवन् विधेहि शम् ॥ १२ ॥

इति श्रीमद्भागवते महापुराणे तृतीयस्कन्धे त्रयोदशोध्याये श्री यज्ञवराहमूर्ति स्तुतिः ।


इतर  श्री विष्णु स्तोत्राणि पश्यतु ।


మా తదుపరి ప్రచురణ : శ్రీ విష్ణు స్తోత్రనిధి ముద్రించుటకు ఆలోచన చేయుచున్నాము. ఇటీవల శ్రీ దక్షిణామూర్తి స్తోత్రనిధి పుస్తకము విడుదల చేశాము. Click here to buy.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed