Sri Varaha Ashtottara Shatanamavali – श्री वराहाष्टोत्तरशतनामावली


ओं श्रीवराहाय नमः ।
ओं महीनाथाय नमः ।
ओं पूर्णानन्दाय नमः ।
ओं जगत्पतये नमः ।
ओं निर्गुणाय नमः ।
ओं निष्कलाय नमः ।
ओं अनन्ताय नमः ।
ओं दण्डकान्तकृते नमः ।
ओं अव्ययाय नमः । ९

ओं हिरण्याक्षान्तकृते नमः ।
ओं देवाय नमः ।
ओं पूर्णषाड्गुण्यविग्रहाय नमः ।
ओं लयोदधिविहारिणे नमः ।
ओं सर्वप्राणिहितेरताय नमः ।
ओं अनन्तरूपाय नमः ।
ओं अनन्तश्रिये नमः ।
ओं जितमन्यवे नमः ।
ओं भयापहाय नमः । १८

ओं वेदान्तवेद्याय नमः ।
ओं वेदिने नमः ।
ओं वेदगर्भाय नमः ।
ओं सनातनाय नमः ।
ओं सहस्राक्षाय नमः ।
ओं पुण्यगन्धाय नमः ।
ओं कल्पकृते नमः ।
ओं क्षितिभृते नमः ।
ओं हरये नमः । २७

ओं पद्मनाभाय नमः ।
ओं सुराध्यक्षाय नमः ।
ओं हेमाङ्गाय नमः ।
ओं दक्षिणामुखाय नमः ।
ओं महाकोलाय नमः ।
ओं महाबाहवे नमः ।
ओं सर्वदेवनमस्कृताय नमः ।
ओं हृषीकेशाय नमः ।
ओं प्रसन्नात्मने नमः । ३६

ओं सर्वभक्तभयापहाय नमः ।
ओं यज्ञभृते नमः ।
ओं यज्ञकृते नमः ।
ओं साक्षिणे नमः ।
ओं यज्ञाङ्गाय नमः ।
ओं यज्ञवाहनाय नमः ।
ओं हव्यभुजे नमः ।
ओं हव्यदेवाय नमः ।
ओं सदाव्यक्ताय नमः । ४५

ओं कृपाकराय नमः ।
ओं देवभूमिगुरवे नमः ।
ओं कान्ताय नमः ।
ओं धर्मगुह्याय नमः ।
ओं वृषाकपये नमः ।
ओं स्रवत्तुण्डाय नमः ।
ओं वक्रदंष्ट्राय नमः ।
ओं नीलकेशाय नमः ।
ओं महाबलाय नमः । ५४

ओं पूतात्मने नमः ।
ओं वेदनेत्रे नमः ।
ओं वेदहर्तृशिरोहराय नमः ।
ओं वेदान्तविदे नमः ।
ओं वेदगुह्याय नमः ।
ओं सर्ववेदप्रवर्तकाय नमः ।
ओं गभीराक्षाय नमः ।
ओं त्रिधाम्ने नमः ।
ओं गभीरात्मने नमः । ६३

ओं अमरेश्वराय नमः ।
ओं आनन्दवनगाय नमः ।
ओं दिव्याय नमः ।
ओं ब्रह्मनासासमुद्भवाय नमः ।
ओं सिन्धुतीरनिवासिने नमः ।
ओं क्षेमकृते नमः ।
ओं सात्त्वतां पतये नमः ।
ओं इन्द्रत्रात्रे नमः ।
ओं जगत्त्रात्रे नमः । ७२

ओं इन्द्रदोर्दण्डगर्वघ्ने नमः ।
ओं भक्तवश्याय नमः ।
ओं सदोद्युक्ताय नमः ।
ओं निजानन्दाय नमः ।
ओं रमापतये नमः ।
ओं श्रुतिप्रियाय नमः ।
ओं शुभाङ्गाय नमः ।
ओं पुण्यश्रवणकीर्तनाय नमः ।
ओं सत्यकृते नमः । ८१

ओं सत्यसङ्कल्पाय नमः ।
ओं सत्यवाचे नमः ।
ओं सत्यविक्रमाय नमः ।
ओं सत्येनिगूढाय नमः ।
ओं सत्यात्मने नमः ।
ओं कालातीताय नमः ।
ओं गुणाधिकाय नमः ।
ओं परस्मै ज्योतिषे नमः ।
ओं परस्मै धाम्ने नमः । ९०

ओं परमाय पुरुषाय नमः ।
ओं पराय नमः ।
ओं कल्याणकृते नमः ।
ओं कवये नमः ।
ओं कर्त्रे नमः ।
ओं कर्मसाक्षिणे नमः ।
ओं जितेन्द्रियाय नमः ।
ओं कर्मकृते नमः ।
ओं कर्मकाण्डस्य सम्प्रदायप्रवर्तकाय नमः । ९९

ओं सर्वान्तकाय नमः ।
ओं सर्वगाय नमः ।
ओं सर्वदाय नमः ।
ओं सर्वभक्षकाय नमः ।
ओं सर्वलोकपतये नमः ।
ओं श्रीमते श्रीमुष्णेशाय नमः ।
ओं शुभेक्षणाय नमः ।
ओं सर्वदेवप्रियाय नमः ।
ओं साक्षिणे नमः । १०८

इति श्रीवराहाष्टोत्तरशतनामावली ।


इतर श्री विष्णु स्तोत्राणि पश्यतु |


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed