Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
तारायाः स्तम्भिनी देवी मोहिनी क्षोभिणी तथा ।
जृम्भिणी भ्रामिणी रौद्री संहारिण्यपि तारिणी ॥ १ ॥
शक्तयोरष्टौ क्रमादेता शत्रुपक्षे नियोजिताः ।
धारिता साधकेन्द्रेण सर्वशत्रुनिवारिणी ॥ २ ॥
ओं स्तम्भिनी स्त्रीं स्त्रीं मम शत्रून् स्तम्भय स्तम्भय ॥ ३ ॥
ओं मोहिनी स्त्रीं स्त्रीं मम शत्रून् मोहय मोहय ॥ ४ ॥
ओं क्षोभिणी स्त्रीं स्त्रीं मम शत्रून् क्षोभय क्षोभय ॥ ५ ॥
ओं जृम्भिणी स्त्रीं स्त्रीं मम शत्रून् जृम्भय जृम्भय ॥ ६ ॥
ओं भ्रामिणी स्त्रीं स्त्रीं मम शत्रून् भ्रामय भ्रामय ॥ ७ ॥
ओं रौद्री स्त्रीं स्त्रीं मम शत्रून् सन्तापय सन्तापय ॥ ८ ॥
ओं संहारिणी स्त्रीं स्त्रीं मम शत्रून् संहारय संहारय ॥ ९ ॥
ओं तारिणी स्त्रीं स्त्रीं सर्वापद्भ्यः सर्वभूतेभ्यः सर्वत्र मां रक्ष रक्ष स्वाहा ॥ १० ॥
फलश्रुतिः –
य इमां धारयेद्विद्यां त्रिसन्ध्यं वाऽपि यः पठेत् ।
स दुःखं दूरतस्त्यक्त्वा हन्याच्छत्रून् न संशयः ॥ ११ ॥
रणे राजकुले दुर्गे महाभये विपत्तिषु ।
विद्या प्रत्यङ्गिरा ह्येषा सर्वतो रक्षयेन्नरम् ॥ १२ ॥
अनया विद्यया रक्षां कृत्वा यस्तु पठेत् सुधी ।
मन्त्राक्षरमपि ध्यायन् चिन्तयेन्नीलसरस्वतीम् ॥ १३ ॥
अचिरेनैव तस्यासन् करस्था सर्वसिद्धयः ।
ओं ह्रीं उग्रतारायै नीलसरस्वत्यै नमः ॥ १४ ॥
इदं कवचं धीयानो नित्यं (यो) धारयेन्नरः ।
न क्वापि भयमाप्नोति सर्वत्र जयमाप्नुयात् ॥ १५ ॥
इति श्रीरुद्रयामले श्रीमदुग्रतरा प्रत्यङ्गिरा कवचम् ।
इतर श्री प्रत्यङ्गिरा स्तोत्राणि पश्यतु ।
इतर देवी स्तोत्राणि पश्यतु ।
గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.