Sri Swarna Akarshana Bhairava Stotram – श्री स्वर्णाकर्षण भैरव स्तोत्रम्


ओं अस्य श्री स्वर्णाकर्षण भैरव स्तोत्र महामन्त्रस्य ब्रह्म ऋषिः अनुष्टुप् छन्दः श्री स्वर्णाकर्षण भैरवो देवता ह्रीं बीजं क्लीं शक्तिः सः कीलकं मम दारिद्र्य नाशार्थे पाठे विनियोगः ॥

ऋष्यादि न्यासः ।
ब्रह्मर्षये नमः शिरसि ।
अनुष्टुप् छन्दसे नमः मुखे ।
स्वर्णाकर्षण भैरवाय नमः हृदि ।
ह्रीं बीजाय नमः गुह्ये ।
क्लीं शक्तये नमः पादयोः ।
सः कीलकाय नमः नाभौ ।
विनियोगाय नमः सर्वाङ्गे ।
ह्रां ह्रीं ह्रूं इति कर षडङ्गन्यासः ॥

ध्यानम् ।
पारिजातद्रुम कान्तारे स्थिते माणिक्यमण्डपे ।
सिंहासनगतं वन्दे भैरवं स्वर्णदायकम् ॥

गाङ्गेय पात्रं डमरूं त्रिशूलं
वरं करः सन्दधतं त्रिनेत्रम् ।
देव्यायुतं तप्त सुवर्णवर्ण
स्वर्णाकर्षणभैरवमाश्रयामि ॥

मन्त्रः ।
ओं ऐं ह्रीं श्रीं ऐं श्रीं आपदुद्धारणाय ह्रां ह्रीं ह्रूं अजामलवध्याय लोकेश्वराय स्वर्णाकर्षणभैरवाय मम दारिद्र्य विद्वेषणाय महाभैरवाय नमः श्रीं ह्रीं ऐम् ।

स्तोत्रम् ।
नमस्तेऽस्तु भैरवाय ब्रह्मविष्णुशिवात्मने ।
नमस्त्रैलोक्यवन्द्याय वरदाय परात्मने ॥ १ ॥

रत्नसिंहासनस्थाय दिव्याभरणशोभिने ।
दिव्यमाल्यविभूषाय नमस्ते दिव्यमूर्तये ॥ २ ॥

नमस्तेऽनेकहस्ताय ह्यनेकशिरसे नमः ।
नमस्तेऽनेकनेत्राय ह्यनेकविभवे नमः ॥ ३ ॥

नमस्तेऽनेककण्ठाय ह्यनेकांशाय ते नमः ।
नमोस्त्वनेकैश्वर्याय ह्यनेकदिव्यतेजसे ॥ ४ ॥

अनेकायुधयुक्ताय ह्यनेकसुरसेविने ।
अनेकगुणयुक्ताय महादेवाय ते नमः ॥ ५ ॥

नमो दारिद्र्यकालाय महासम्पत्प्रदायिने ।
श्रीभैरवीप्रयुक्ताय त्रिलोकेशाय ते नमः ॥ ६ ॥

दिगम्बर नमस्तुभ्यं दिगीशाय नमो नमः ।
नमोऽस्तु दैत्यकालाय पापकालाय ते नमः ॥ ७ ॥

सर्वज्ञाय नमस्तुभ्यं नमस्ते दिव्यचक्षुषे ।
अजिताय नमस्तुभ्यं जितामित्राय ते नमः ॥ ८ ॥

नमस्ते रुद्रपुत्राय गणनाथाय ते नमः ।
नमस्ते वीरवीराय महावीराय ते नमः ॥ ९ ॥

नमोऽस्त्वनन्तवीर्याय महाघोराय ते नमः ।
नमस्ते घोरघोराय विश्वघोराय ते नमः ॥ १० ॥

नमः उग्राय शान्ताय भक्तेभ्यः शान्तिदायिने ।
गुरवे सर्वलोकानां नमः प्रणव रूपिणे ॥ ११ ॥

नमस्ते वाग्भवाख्याय दीर्घकामाय ते नमः ।
नमस्ते कामराजाय योषित्कामाय ते नमः ॥ १२ ॥

दीर्घमायास्वरूपाय महामायापते नमः ।
सृष्टिमायास्वरूपाय विसर्गाय सम्यायिने ॥ १३ ॥

रुद्रलोकेशपूज्याय ह्यापदुद्धारणाय च ।
नमोऽजामलबद्धाय सुवर्णाकर्षणाय ते ॥ १४ ॥

नमो नमो भैरवाय महादारिद्र्यनाशिने ।
उन्मूलनकर्मठाय ह्यलक्ष्म्या सर्वदा नमः ॥ १५ ॥

नमो लोकत्रयेशाय स्वानन्दनिहिताय ते ।
नमः श्रीबीजरूपाय सर्वकामप्रदायिने ॥ १६ ॥

नमो महाभैरवाय श्रीरूपाय नमो नमः ।
धनाध्यक्ष नमस्तुभ्यं शरण्याय नमो नमः ॥ १७ ॥

नमः प्रसन्नरूपाय ह्यादिदेवाय ते नमः ।
नमस्ते मन्त्ररूपाय नमस्ते रत्नरूपिणे ॥ १८ ॥

नमस्ते स्वर्णरूपाय सुवर्णाय नमो नमः ।
नमः सुवर्णवर्णाय महापुण्याय ते नमः ॥ १९ ॥

नमः शुद्धाय बुद्धाय नमः संसारतारिणे ।
नमो देवाय गुह्याय प्रबलाय नमो नमः ॥ २० ॥

नमस्ते बलरूपाय परेषां बलनाशिने ।
नमस्ते स्वर्गसंस्थाय नमो भूर्लोकवासिने ॥ २१ ॥

नमः पातालवासाय निराधाराय ते नमः ।
नमो नमः स्वतन्त्राय ह्यनन्ताय नमो नमः ॥ २२ ॥

द्विभुजाय नमस्तुभ्यं भुजत्रयसुशोभिने ।
नमोऽणिमादिसिद्धाय स्वर्णहस्ताय ते नमः ॥ २३ ॥

पूर्णचन्द्रप्रतीकाशवदनाम्भोजशोभिने ।
नमस्ते स्वर्णरूपाय स्वर्णालङ्कारशोभिने ॥ २४ ॥

नमः स्वर्णाकर्षणाय स्वर्णाभाय च ते नमः ।
नमस्ते स्वर्णकण्ठाय स्वर्णालङ्कारधारिणे ॥ २५ ॥

स्वर्णसिंहासनस्थाय स्वर्णपादाय ते नमः ।
नमः स्वर्णाभपाराय स्वर्णकाञ्चीसुशोभिने ॥ २६ ॥

नमस्ते स्वर्णजङ्घाय भक्तकामदुघात्मने ।
नमस्ते स्वर्णभक्तानां कल्पवृक्षस्वरूपिणे ॥ २७ ॥

चिन्तामणिस्वरूपाय नमो ब्रह्मादिसेविने ।
कल्पद्रुमाधःसंस्थाय बहुस्वर्णप्रदायिने ॥ २८ ॥

नमो हेमादिकर्षाय भैरवाय नमो नमः ।
स्तवेनानेन सन्तुष्टो भव लोकेशभैरव ॥ २९ ॥

पश्य मां करुणाविष्ट शरणागतवत्सल ।
श्रीभैरव धनाध्यक्ष शरणं त्वां भजाम्यहम् ।
प्रसीद सकलान् कामान् प्रयच्छ मम सर्वदा ॥ ३० ॥

– फलश्रुतिः –
श्रीमहाभैरवस्येदं स्तोत्रसूक्तं सुदुर्लभम् ।
मन्त्रात्मकं महापुण्यं सर्वैश्वर्यप्रदायकम् ॥ ३१ ॥

यः पठेन्नित्यमेकाग्रं पातकैः स विमुच्यते ।
लभते चामलालक्ष्मीमष्टैश्वर्यमवाप्नुयात् ॥ ३२ ॥

चिन्तामणिमवाप्नोति धेनु कल्पतरुं धृवम् ।
स्वर्णराशिमवाप्नोति सिद्धिमेव स मानवः ॥ ३३ ॥

सन्ध्यायां यः पठेत् स्तोत्रं दशावृत्या नरोत्तमैः ।
स्वप्ने श्रीभैरवस्तस्य साक्षाद्भूत्वा जगद्गुरुः ॥ ३४ ॥

स्वर्णराशि ददात्येव तत्‍क्षणान्नास्ति संशयः ।
सर्वदा यः पठेत् स्तोत्रं भैरवस्य महात्मनः ॥ ३५ ॥

लोकत्रयं वशीकुर्यादचलां श्रियमवाप्नुयात् ।
न भयं लभते क्वापि विघ्नभूतादिसम्भव ॥ ३६ ॥

म्रियन्ते शत्रवोऽवश्यमलक्ष्मीनाशमाप्नुयात् ।
अक्षयं लभते सौख्यं सर्वदा मानवोत्तमः ॥ ३७ ॥

अष्टपञ्चाशताणढ्यो मन्त्रराजः प्रकीर्तितः ।
दारिद्र्यदुःखशमनं स्वर्णाकर्षणकारकः ॥ ३८ ॥

य येन सञ्जपेत् धीमान् स्तोत्रं वा प्रपठेत् सदा ।
महाभैरवसायुज्यं स्वान्तकाले भवेद्ध्रुवम् ॥ ३९ ॥

इति रुद्रयामल तन्त्रे स्वर्णाकर्षण भैरव स्तोत्रम् ॥


इतर श्री शिव स्तोत्राणि पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed