Sri Surya Sahasranamavali – श्री सूर्य सहस्रनामावली


ओं विश्वविदे नमः ।
ओं विश्वजिते नमः ।
ओं विश्वकर्त्रे नमः ।
ओं विश्वात्मने नमः ।
ओं विश्वतोमुखाय नमः ।
ओं विश्वेश्वराय नमः ।
ओं विश्वयोनये नमः ।
ओं नियतात्मने नमः ।
ओं जितेन्द्रियाय नमः ।
ओं कालाश्रयाय नमः ।
ओं कालकर्त्रे नमः ।
ओं कालघ्ने नमः ।
ओं कालनाशनाय नमः ।
ओं महायोगिने नमः ।
ओं महासिद्धये नमः ।
ओं महात्मने नमः ।
ओं सुमहाबलाय नमः ।
ओं प्रभवे नमः ।
ओं विभवे नमः ।
ओं भूतनाथाय नमः । २०

ओं भूतात्मने नमः ।
ओं भुवनेश्वराय नमः ।
ओं भूतभव्याय नमः ।
ओं भावितात्मने नमः ।
ओं भूतान्तःकरणाय नमः ।
ओं शिवाय नमः ।
ओं शरण्याय नमः ।
ओं कमलानन्दाय नमः ।
ओं नन्दनाय नमः ।
ओं नन्दवर्धनाय नमः ।
ओं वरेण्याय नमः ।
ओं वरदाय नमः ।
ओं योगिने नमः ।
ओं सुसम्युक्ताय नमः ।
ओं प्रकाशकाय नमः ।
ओं प्राप्तयानाय नमः ।
ओं परप्राणाय नमः ।
ओं पूतात्मने नमः ।
ओं प्रियताय नमः ।
ओं प्रियाय नमः । ४०

ओं नयाय नमः ।
ओं सहस्रपादे नमः ।
ओं साधवे नमः ।
ओं दिव्यकुण्डलमण्डिताय नमः ।
ओं अव्यङ्गधारिणे नमः ।
ओं धीरात्मने नमः ।
ओं सवित्रे नमः ।
ओं वायुवाहनाय नमः ।
ओं समाहितमतये नमः ।
ओं दात्रे नमः ।
ओं विधात्रे नमः ।
ओं कृतमङ्गलाय नमः ।
ओं कपर्दिने नमः ।
ओं कल्पपादे नमः ।
ओं रुद्राय नमः ।
ओं सुमनाय नमः ।
ओं धर्मवत्सलाय नमः ।
ओं समायुक्ताय नमः ।
ओं विमुक्तात्मने नमः ।
ओं कृतात्मने नमः । ६०

ओं कृतिनां वराय नमः ।
ओं अविचिन्त्यवपुषे नमः ।
ओं श्रेष्ठाय नमः ।
ओं महायोगिने नमः ।
ओं महेश्वराय नमः ।
ओं कान्ताय नमः ।
ओं कामारये नमः ।
ओं आदित्याय नमः ।
ओं नियतात्मने नमः ।
ओं निराकुलाय नमः ।
ओं कामाय नमः ।
ओं कारुणिकाय नमः ।
ओं कर्त्रे नमः ।
ओं कमलाकरबोधनाय नमः ।
ओं सप्तसप्तये नमः ।
ओं अचिन्त्यात्मने नमः ।
ओं महाकारुणिकोत्तमाय नमः ।
ओं सञ्जीवनाय नमः ।
ओं जीवनाथाय नमः ।
ओं जयाय नमः । ८०

ओं जीवाय नमः ।
ओं जगत्पतये नमः ।
ओं अयुक्ताय नमः ।
ओं विश्वनिलयाय नमः ।
ओं संविभागिने नमः ।
ओं वृषध्वजाय नमः ।
ओं वृषाकपये नमः ।
ओं कल्पकर्त्रे नमः ।
ओं कल्पान्तकरणाय नमः ।
ओं रवये नमः ।
ओं एकचक्ररथाय नमः ।
ओं मौनिने नमः ।
ओं सुरथाय नमः ।
ओं रथिनां वराय नमः ।
ओं सक्रोधनाय नमः ।
ओं रश्मिमालिने नमः ।
ओं तेजोराशये नमः ।
ओं विभावसवे नमः ।
ओं दिव्यकृते नमः ।
ओं दिनकृते नमः । १००

ओं देवाय नमः ।
ओं देवदेवाय नमः ।
ओं दिवस्पतये नमः ।
ओं दीननाथाय नमः ।
ओं हराय नमः ।
ओं होत्रे नमः ।
ओं दिव्यबाहवे नमः ।
ओं दिवाकराय नमः ।
ओं यज्ञाय नमः ।
ओं यज्ञपतये नमः ।
ओं पूष्णे नमः ।
ओं स्वर्णरेतसे नमः ।
ओं परावराय नमः ।
ओं परापरज्ञाय नमः ।
ओं तरणये नमः ।
ओं अंशुमालिने नमः ।
ओं मनोहराय नमः ।
ओं प्राज्ञाय नमः ।
ओं प्राज्ञपतये नमः ।
ओं सूर्याय नमः । १२०

ओं सवित्रे नमः ।
ओं विष्णवे नमः ।
ओं अंशुमते नमः ।
ओं सदागतये नमः ।
ओं गन्धवहाय नमः ।
ओं विहिताय नमः ।
ओं विधये नमः ।
ओं आशुगाय नमः ।
ओं पतङ्गाय नमः ।
ओं पतगाय नमः ।
ओं स्थाणवे नमः ।
ओं विहङ्गाय नमः ।
ओं विहगाय नमः ।
ओं वराय नमः ।
ओं हर्यश्वाय नमः ।
ओं हरिताश्वाय नमः ।
ओं हरिदश्वाय नमः ।
ओं जगत्प्रियाय नमः ।
ओं त्र्यम्बकाय नमः ।
ओं सर्वदमनाय नमः । १४०

ओं भावितात्मने नमः ।
ओं भिषग्वराय नमः ।
ओं आलोककृते नमः ।
ओं लोकनाथाय नमः ।
ओं लोकालोकनमस्कृताय नमः ।
ओं कालाय नमः ।
ओं कल्पान्तकाय नमः ।
ओं वह्नये नमः ।
ओं तपनाय नमः ।
ओं सम्प्रतापनाय नमः ।
ओं विलोचनाय नमः ।
ओं विरूपाक्षाय नमः ।
ओं सहस्राक्षाय नमः ।
ओं पुरन्दराय नमः ।
ओं सहस्ररश्मये नमः ।
ओं मिहिराय नमः ।
ओं विविधाम्बरभूषणाय नमः ।
ओं खगाय नमः ।
ओं प्रतर्दनाय नमः ।
ओं धन्याय नमः । १६०

ओं हयगाय नमः ।
ओं वाग्विशारदाय नमः ।
ओं श्रीमते नमः ।
ओं अशिशिराय नमः ।
ओं वाग्मिने नमः ।
ओं श्रीपतये नमः ।
ओं श्रीनिकेतनाय नमः ।
ओं श्रीकण्ठाय नमः ।
ओं श्रीधराय नमः ।
ओं श्रीमते नमः ।
ओं श्रीनिवासाय नमः ।
ओं वसुप्रदाय नमः ।
ओं कामचारिणे नमः ।
ओं महामायाय नमः ।
ओं महोग्राय नमः ।
ओं अविदितामयाय नमः ।
ओं तीर्थक्रियावते नमः ।
ओं सुनयाय नमः ।
ओं विभक्ताय नमः ।
ओं भक्तवत्सलाय नमः । १८०

ओं कीर्तये नमः ।
ओं कीर्तिकराय नमः ।
ओं नित्याय नमः ।
ओं कुण्डलिने नमः ।
ओं कवचिने नमः ।
ओं रथिने नमः ।
ओं हिरण्यरेतसे नमः ।
ओं सप्ताश्वाय नमः ।
ओं प्रयतात्मने नमः ।
ओं परन्तपाय नमः ।
ओं बुद्धिमते नमः ।
ओं अमरश्रेष्ठाय नमः ।
ओं रोचिष्णवे नमः ।
ओं पाकशासनाय नमः ।
ओं समुद्राय नमः ।
ओं धनदाय नमः ।
ओं धात्रे नमः ।
ओं मान्धात्रे नमः ।
ओं कश्मलापहाय नमः ।
ओं तमोघ्नाय नमः । २००

ओं ध्वान्तघ्ने नमः ।
ओं वह्नये नमः ।
ओं होत्रे नमः ।
ओं अन्तःकरणाय नमः ।
ओं गुहाय नमः ।
ओं पशुमते नमः ।
ओं प्रयतानन्दाय नमः ।
ओं भूतेशाय नमः ।
ओं श्रीमतां वराय नमः ।
ओं नित्याय नमः ।
ओं अदिताय नमः ।
ओं नित्यरथाय नमः ।
ओं सुरेशाय नमः ।
ओं सुरपूजिताय नमः ।
ओं अजिताय नमः ।
ओं विजिताय नमः ।
ओं जेत्रे नमः ।
ओं जङ्गमस्थावरात्मकाय नमः ।
ओं जीवानन्दाय नमः ।
ओं नित्यगामिने नमः । २२०

ओं विजेत्रे नमः ।
ओं विजयप्रदाय नमः ।
ओं पर्जन्याय नमः ।
ओं अग्नये नमः ।
ओं स्थितये नमः ।
ओं स्थेयाय नमः ।
ओं स्थविराय नमः ।
ओं निरञ्जनाय नमः ।
ओं प्रद्योतनाय नमः ।
ओं रथारूढाय नमः ।
ओं सर्वलोकप्रकाशकाय नमः ।
ओं ध्रुवाय नमः ।
ओं मेषिने नमः ।
ओं महावीर्याय नमः ।
ओं हंसाय नमः ।
ओं संसारतारकाय नमः ।
ओं सृष्टिकर्त्रे नमः ।
ओं क्रियाहेतवे नमः ।
ओं मार्तण्डाय नमः ।
ओं मरुतां पतये नमः । २४०

ओं मरुत्वते नमः ।
ओं दहनाय नमः ।
ओं त्वष्ट्रे नमः ।
ओं भगाय नमः ।
ओं भर्गाय नमः ।
ओं अर्यम्णे नमः ।
ओं कपये नमः ।
ओं वरुणेशाय नमः ।
ओं जगन्नाथाय नमः ।
ओं कृतकृत्याय नमः ।
ओं सुलोचनाय नमः ।
ओं विवस्वते नमः ।
ओं भानुमते नमः ।
ओं कार्याय नमः ।
ओं कारणाय नमः ।
ओं तेजसां निधये नमः ।
ओं असङ्गगामिने नमः ।
ओं तिग्मांशवे नमः ।
ओं धर्मांशवे नमः ।
ओं दीप्तदीधितये नमः । २६०

ओं सहस्रदीधितये नमः ।
ओं ब्रध्नाय नमः ।
ओं सहस्रांशवे नमः ।
ओं दिवाकराय नमः ।
ओं गभस्तिमते नमः ।
ओं दीधितिमते नमः ।
ओं स्रग्विणे नमः ।
ओं मणिकुलद्युतये नमः ।
ओं भास्कराय नमः ।
ओं सुरकार्यज्ञाय नमः ।
ओं सर्वज्ञाय नमः ।
ओं तीक्ष्णदीधितये नमः ।
ओं सुरज्येष्ठाय नमः ।
ओं सुरपतये नमः ।
ओं बहुज्ञाय नमः ।
ओं वचसां पतये नमः ।
ओं तेजोनिधये नमः ।
ओं बृहत्तेजसे नमः ।
ओं बृहत्कीर्तये नमः ।
ओं बृहस्पतये नमः । २८०

ओं अहिमते नमः ।
ओं ऊर्जिताय नमः ।
ओं धीमते नमः ।
ओं आमुक्ताय नमः ।
ओं कीर्तिवर्धनाय नमः ।
ओं महावैद्याय नमः ।
ओं गणपतये नमः ।
ओं धनेशाय नमः ।
ओं गणनायकाय नमः ।
ओं तीव्रप्रतापनाय नमः ।
ओं तापिने नमः ।
ओं तापनाय नमः ।
ओं विश्वतापनाय नमः ।
ओं कार्तस्वराय नमः ।
ओं हृषीकेशाय नमः ।
ओं पद्मानन्दाय नमः ।
ओं अतिनन्दिताय नमः ।
ओं पद्मनाभाय नमः ।
ओं अमृताहाराय नमः ।
ओं स्थितिमते नमः । ३००

ओं केतुमते नमः ।
ओं नभसे नमः ।
ओं अनाद्यन्ताय नमः ।
ओं अच्युताय नमः ।
ओं विश्वाय नमः ।
ओं विश्वामित्राय नमः ।
ओं घृणये नमः ।
ओं विराजे नमः ।
ओं आमुक्तकवचाय नमः ।
ओं वाग्मिने नमः ।
ओं कञ्चुकिने नमः ।
ओं विश्वभावनाय नमः ।
ओं अनिमित्तगतये नमः ।
ओं श्रेष्ठाय नमः ।
ओं शरण्याय नमः ।
ओं सर्वतोमुखाय नमः ।
ओं विगाहिने नमः ।
ओं वेणुरसहाय नमः ।
ओं समायुक्ताय नमः ।
ओं समाक्रतवे नमः । ३२०

ओं धर्मकेतवे नमः ।
ओं धर्मरतये नमः ।
ओं संहर्त्रे नमः ।
ओं सम्यमाय नमः ।
ओं यमाय नमः ।
ओं प्रणतार्तिहराय नमः ।
ओं वायवे नमः ।
ओं सिद्धकार्याय नमः ।
ओं जनेश्वराय नमः ।
ओं नभसे नमः ।
ओं विगाहनाय नमः ।
ओं सत्याय नमः ।
ओं सवित्रे नमः ।
ओं आत्मने नमः ।
ओं मनोहराय नमः ।
ओं हारिणे नमः ।
ओं हरये नमः ।
ओं हराय नमः ।
ओं वायवे नमः ।
ओं ऋतवे नमः । ३४०

ओं कालानलद्युतये नमः ।
ओं सुखसेव्याय नमः ।
ओं महातेजसे नमः ।
ओं जगतामेककारणाय नमः ।
ओं महेन्द्राय नमः ।
ओं विष्टुताय नमः ।
ओं स्तोत्राय नमः ।
ओं स्तुतिहेतवे नमः ।
ओं प्रभाकराय नमः ।
ओं सहस्रकराय नमः ।
ओं आयुष्मते नमः ।
ओं अरोषाय नमः ।
ओं सुखदाय नमः ।
ओं सुखिने नमः ।
ओं व्याधिघ्ने नमः ।
ओं सुखदाय नमः ।
ओं सौख्याय नमः ।
ओं कल्याणाय नमः ।
ओं कलतां वराय नमः ।
ओं आरोग्यकारणाय नमः । ३६०

ओं सिद्धये नमः ।
ओं ऋद्धये नमः ।
ओं वृद्धये नमः ।
ओं बृहस्पतये नमः ।
ओं हिरण्यरेतसे नमः ।
ओं आरोग्याय नमः ।
ओं विदुषे नमः ।
ओं ब्रध्नाय नमः ।
ओं बुधाय नमः ।
ओं महते नमः ।
ओं प्राणवते नमः ।
ओं धृतिमते नमः ।
ओं घर्माय नमः ।
ओं घर्मकर्त्रे नमः ।
ओं रुचिप्रदाय नमः ।
ओं सर्वप्रियाय नमः ।
ओं सर्वसहाय नमः ।
ओं सर्वशत्रुविनाशनाय नमः ।
ओं प्रांशवे नमः ।
ओं विद्योतनाय नमः । ३८०

ओं द्योताय नमः ।
ओं सहस्रकिरणाय नमः ।
ओं कृतिने नमः ।
ओं केयूरिणे नमः ।
ओं भूषणोद्भासिने नमः ।
ओं भासिताय नमः ।
ओं भासनाय नमः ।
ओं अनलाय नमः ।
ओं शरण्यार्तिहराय नमः ।
ओं होत्रे नमः ।
ओं खद्योताय नमः ।
ओं खगसत्तमाय नमः ।
ओं सर्वद्योताय नमः ।
ओं भवद्योताय नमः ।
ओं सर्वद्युतिकराय नमः ।
ओं मताय नमः ।
ओं कल्याणाय नमः ।
ओं कल्याणकराय नमः ।
ओं कल्याय नमः ।
ओं कल्यकराय नमः । ४००

ओं कवये नमः ।
ओं कल्याणकृते नमः ।
ओं कल्यवपवे नमः ।
ओं सर्वकल्याणभाजनाय नमः ।
ओं शान्तिप्रियाय नमः ।
ओं प्रसन्नात्मने नमः ।
ओं प्रशान्ताय नमः ।
ओं प्रशमप्रियाय नमः ।
ओं उदारकर्मणे नमः ।
ओं सुनयाय नमः ।
ओं सुवर्चसे नमः ।
ओं वर्चसोज्ज्वलाय नमः ।
ओं वर्चस्विने नमः ।
ओं वर्चसामीशाय नमः ।
ओं त्रैलोक्येशाय नमः ।
ओं वशानुगाय नमः ।
ओं तेजस्विने नमः ।
ओं सुयशसे नमः ।
ओं वर्ष्मिणे नमः ।
ओं वर्णाध्यक्षाय नमः । ४२०

ओं बलिप्रियाय नमः ।
ओं यशस्विने नमः ।
ओं तेजोनिलयाय नमः ।
ओं तेजस्विने नमः ।
ओं प्रकृतिस्थिताय नमः ।
ओं आकाशगाय नमः ।
ओं शीघ्रगतये नमः ।
ओं आशुगाय नमः ।
ओं गतिमते नमः ।
ओं खगाय नमः ।
ओं गोपतये नमः ।
ओं ग्रहदेवेशाय नमः ।
ओं गोमते नमः ।
ओं एकाय नमः ।
ओं प्रभञ्जनाय नमः ।
ओं जनित्रे नमः ।
ओं प्रजनाय नमः ।
ओं जीवाय नमः ।
ओं दीपाय नमः ।
ओं सर्वप्रकाशकाय नमः । ४४०

ओं सर्वसाक्षिने नमः ।
ओं योगनित्याय नमः ।
ओं नभस्वते नमः ।
ओं असुरान्तकाय नमः ।
ओं रक्षोघ्नाय नमः ।
ओं विघ्नशमनाय नमः ।
ओं किरीटिने नमः ।
ओं सुमनःप्रियाय नमः ।
ओं मरीचिमालिने नमः ।
ओं सुमतये नमः ।
ओं कृताभिख्यविशेषकाय नमः ।
ओं शिष्टाचाराय नमः ।
ओं शुभाचाराय नमः ।
ओं स्वचाराचारतत्पराय नमः ।
ओं मन्दाराय नमः ।
ओं माठराय नमः ।
ओं वेणवे नमः ।
ओं क्षुधापाय नमः ।
ओं क्ष्मापतये नमः ।
ओं गुरवे नमः । ४६०

ओं सुविशिष्टाय नमः ।
ओं विशिष्टात्मने नमः ।
ओं विधेयाय नमः ।
ओं ज्ञानशोभनाय नमः ।
ओं महाश्वेताय नमः ।
ओं प्रियाय नमः ।
ओं ज्ञेयाय नमः ।
ओं सामगाय नमः ।
ओं मोक्षदायकाय नमः ।
ओं सर्ववेदप्रगीतात्मने नमः ।
ओं सर्ववेदलयाय नमः ।
ओं महते नमः ।
ओं वेदमूर्तये नमः ।
ओं चतुर्वेदाय नमः ।
ओं वेदभृते नमः ।
ओं वेदपारगाय नमः ।
ओं क्रियावते नमः ।
ओं असिताय नमः ।
ओं जिष्णवे नमः ।
ओं वरीयांशवे नमः । ४८०

ओं वरप्रदाय नमः ।
ओं व्रतचारिणे नमः ।
ओं व्रतधराय नमः ।
ओं लोकबन्धवे नमः ।
ओं अलङ्कृताय नमः ।
ओं अलङ्काराक्षराय नमः ।
ओं वेद्याय नमः ।
ओं विद्यावते नमः ।
ओं विदिताशयाय नमः ।
ओं आकाराय नमः ।
ओं भूषणाय नमः ।
ओं भूष्याय नमः ।
ओं भूष्णवे नमः ।
ओं भुवनपूजिताय नमः ।
ओं चक्रपाणये नमः ।
ओं ध्वजधराय नमः ।
ओं सुरेशाय नमः ।
ओं लोकवत्सलाय नमः ।
ओं वाग्मिपतये नमः ।
ओं महाबाहवे नमः । ५००

ओं प्रकृतये नमः ।
ओं विकृतये नमः ।
ओं गुणाय नमः ।
ओं अन्धकारापहाय नमः ।
ओं श्रेष्ठाय नमः ।
ओं युगावर्ताय नमः ।
ओं युगादिकृते नमः ।
ओं अप्रमेयाय नमः ।
ओं सदायोगिने नमः ।
ओं निरहङ्काराय नमः ।
ओं ईश्वराय नमः ।
ओं शुभप्रदाय नमः ।
ओं शुभाय नमः ।
ओं शास्त्रे नमः ।
ओं शुभकर्मणे नमः ।
ओं शुभप्रदाय नमः ।
ओं सत्यवते नमः ।
ओं श्रुतिमते नमः ।
ओं उच्चैर्नकाराय नमः ।
ओं वृद्धिदाय नमः । ५२०

ओं अनलाय नमः ।
ओं बलभृते नमः ।
ओं बलदाय नमः ।
ओं बन्धवे नमः ।
ओं मतिमते नमः ।
ओं बलिनां वराय नमः ।
ओं अनङ्गाय नमः ।
ओं नागराजेन्द्राय नमः ।
ओं पद्मयोनये नमः ।
ओं गणेश्वराय नमः ।
ओं संवत्सराय नमः ।
ओं ऋतवे नमः ।
ओं नेत्रे नमः ।
ओं कालचक्रप्रवर्तकाय नमः ।
ओं पद्मेक्षणाय नमः ।
ओं पद्मयोनये नमः ।
ओं प्रभावते नमः ।
ओं अमराय नमः ।
ओं प्रभवे नमः ।
ओं सुमूर्तये नमः । ५४०

ओं सुमतये नमः ।
ओं सोमाय नमः ।
ओं गोविन्दाय नमः ।
ओं जगदादिजाय नमः ।
ओं पीतवाससे नमः ।
ओं कृष्णवाससे नमः ।
ओं दिग्वाससे नमः ।
ओं इन्द्रियातिगाय नमः ।
ओं अतीन्द्रियाय नमः ।
ओं अनेकरूपाय नमः ।
ओं स्कन्दाय नमः ।
ओं परपुरञ्जयाय नमः ।
ओं शक्तिमते नमः ।
ओं जलधृगे नमः ।
ओं भास्वते नमः ।
ओं मोक्षहेतवे नमः ।
ओं अयोनिजाय नमः ।
ओं सर्वदर्शिने नमः ।
ओं जितादर्शाय नमः ।
ओं दुःस्वप्नाशुभनाशनाय नमः । ५६०

ओं माङ्गल्यकर्त्रे नमः ।
ओं तरणये नमः ।
ओं वेगवते नमः ।
ओं कश्मलापहाय नमः ।
ओं स्पष्टाक्षराय नमः ।
ओं महामन्त्राय नमः ।
ओं विशाखाय नमः ।
ओं यजनप्रियाय नमः ।
ओं विश्वकर्मणे नमः ।
ओं महाशक्तये नमः ।
ओं द्युतये नमः ।
ओं ईशाय नमः ।
ओं विहङ्गमाय नमः ।
ओं विचक्षणाय नमः ।
ओं दक्षाय नमः ।
ओं इन्द्राय नमः ।
ओं प्रत्यूषाय नमः ।
ओं प्रियदर्शनाय नमः ।
ओं अखिन्नाय नमः ।
ओं वेदनिलयाय नमः । ५८०

ओं वेदविदे नमः ।
ओं विदिताशयाय नमः ।
ओं प्रभाकराय नमः ।
ओं जितरिपवे नमः ।
ओं सुजनाय नमः ।
ओं अरुणसारथये नमः ।
ओं कुनाशिने नमः ।
ओं सुरताय नमः ।
ओं स्कन्दाय नमः ।
ओं महिताय नमः ।
ओं अभिमताय नमः ।
ओं गुरवे नमः ।
ओं ग्रहराजाय नमः ।
ओं ग्रहपतये नमः ।
ओं ग्रहनक्षत्रमण्डलाय नमः ।
ओं भास्कराय नमः ।
ओं सततानन्दाय नमः ।
ओं नन्दनाय नमः ।
ओं नरवाहनाय नमः ।
ओं मङ्गलाय नमः । ६००

ओं मङ्गलवते नमः ।
ओं माङ्गल्याय नमः ।
ओं मङ्गलावहाय नमः ।
ओं मङ्गल्यचारुचरिताय नमः ।
ओं शीर्णाय नमः ।
ओं सर्वव्रताय नमः ।
ओं व्रतिने नमः ।
ओं चतुर्मुखाय नमः ।
ओं पद्ममालिने नमः ।
ओं पूतात्मने नमः ।
ओं प्रणतार्तिघ्ने नमः ।
ओं अकिञ्चनाय नमः ।
ओं सतामीशाय नमः ।
ओं निर्गुणाय नमः ।
ओं गुणवते नमः ।
ओं शुचये नमः ।
ओं सम्पूर्णाय नमः ।
ओं पुण्डरीकाक्षाय नमः ।
ओं विधेयाय नमः ।
ओं योगतत्पराय नमः । ६२०

ओं सहस्रांशवे नमः ।
ओं क्रतुमतये नमः ।
ओं सर्वज्ञाय नमः ।
ओं सुमतये नमः ।
ओं सुवाचे नमः ।
ओं सुवाहनाय नमः ।
ओं माल्यदाम्ने नमः ।
ओं कृताहाराय नमः ।
ओं हरिप्रियाय नमः ।
ओं ब्रह्मणे नमः ।
ओं प्रचेतसे नमः ।
ओं प्रथिताय नमः ।
ओं प्रयतात्मने नमः ।
ओं स्थिरात्मकाय नमः ।
ओं शतविन्दवे नमः ।
ओं शतमुखाय नमः ।
ओं गरीयसे नमः ।
ओं अनलप्रभाय नमः ।
ओं धीराय नमः ।
ओं महत्तराय नमः । ६४०

ओं विप्राय नमः ।
ओं पुराणपुरुषोत्तमाय नमः ।
ओं विद्याराजाधिराजाय नमः ।
ओं विद्यावते नमः ।
ओं भूतिदाय नमः ।
ओं स्थिताय नमः ।
ओं अनिर्देश्यवपुषे नमः ।
ओं श्रीमते नमः ।
ओं विपाप्मने नमः ।
ओं बहुमङ्गलाय नमः ।
ओं स्वःस्थिताय नमः ।
ओं सुरथाय नमः ।
ओं स्वर्णाय नमः ।
ओं मोक्षदाय नमः ।
ओं बलिकेतनाय नमः ।
ओं निर्द्वन्द्वाय नमः ।
ओं द्वन्द्वघ्ने नमः ।
ओं स्वर्गाय नमः ।
ओं सर्वगाय नमः ।
ओं सम्प्रकाशकाय नमः । ६६०

ओं दयालवे नमः ।
ओं सूक्ष्मधिये नमः ।
ओं क्षान्तये नमः ।
ओं क्षेमाक्षेमस्थितिप्रियाय नमः ।
ओं भूधराय नमः ।
ओं भूपतये नमः ।
ओं वक्त्रे नमः ।
ओं पवित्रात्मने नमः ।
ओं त्रिलोचनाय नमः ।
ओं महावराहाय नमः ।
ओं प्रियकृते नमः ।
ओं दात्रे नमः ।
ओं भोक्त्रे नमः ।
ओं अभयप्रदाय नमः ।
ओं चक्रवर्तिने नमः ।
ओं धृतिकराय नमः ।
ओं सम्पूर्णाय नमः ।
ओं महेश्वराय नमः ।
ओं चतुर्वेदधराय नमः ।
ओं अचिन्त्याय नमः । ६८०

ओं विनिन्द्याय नमः ।
ओं विविधाशनाय नमः ।
ओं विचित्ररथाय नमः ।
ओं एकाकिने नमः ।
ओं सप्तसप्तये नमः ।
ओं परात्पराय नमः ।
ओं सर्वोदधिस्थितिकराय नमः ।
ओं स्थितिस्थेयाय नमः ।
ओं स्थितिप्रियाय नमः ।
ओं निष्कलाय नमः ।
ओं पुष्कलाय नमः ।
ओं विभवे नमः ।
ओं वसुमते नमः ।
ओं वासवप्रियाय नमः ।
ओं पशुमते नमः ।
ओं वासवस्वामिने नमः ।
ओं वसुधाम्ने नमः ।
ओं वसुप्रदाय नमः ।
ओं बलवते नमः ।
ओं ज्ञानवते नमः । ७००

ओं तत्त्वाय नमः ।
ओं ओङ्काराय नमः ।
ओं त्रिषुसंस्थिताय नमः ।
ओं सङ्कल्पयोनये नमः ।
ओं दिनकृते नमः ।
ओं भगवते नमः ।
ओं कारणापहाय नमः ।
ओं नीलकण्ठाय नमः ।
ओं धनाध्यक्षाय नमः ।
ओं चतुर्वेदप्रियंवदाय नमः ।
ओं वषट्काराय नमः ।
ओं उद्गात्रे नमः ।
ओं होत्रे नमः ।
ओं स्वाहाकाराय नमः ।
ओं हुताहुतये नमः ।
ओं जनार्दनाय नमः ।
ओं जनानन्दाय नमः ।
ओं नराय नमः ।
ओं नारायणाय नमः ।
ओं अम्बुदाय नमः । ७२०

ओं सन्देहनाशनाय नमः ।
ओं वायवे नमः ।
ओं धन्विने नमः ।
ओं सुरनमस्कृताय नमः ।
ओं विग्रहिने नमः ।
ओं विमलाय नमः ।
ओं विन्दवे नमः ।
ओं विशोकाय नमः ।
ओं विमलद्युतये नमः ।
ओं द्युतिमते नमः ।
ओं द्योतनाय नमः ।
ओं विद्युते नमः ।
ओं विद्यावते नमः ।
ओं विदिताय नमः ।
ओं बलिने नमः ।
ओं घर्मदाय नमः ।
ओं हिमदाय नमः ।
ओं हासाय नमः ।
ओं कृष्णवर्त्मने नमः ।
ओं सुताजिताय नमः । ७४०

ओं सावित्रीभाविताय नमः ।
ओं राज्ञे नमः ।
ओं विश्वामित्राय नमः ।
ओं घृणये नमः ।
ओं विराजे नमः ।
ओं सप्तार्चिषे नमः ।
ओं सप्ततुरगाय नमः ।
ओं सप्तलोकनमस्कृताय नमः ।
ओं सम्पूर्णाय नमः ।
ओं जगन्नाथाय नमः ।
ओं सुमनसे नमः ।
ओं शोभनप्रियाय नमः ।
ओं सर्वात्मने नमः ।
ओं सर्वकृते नमः ।
ओं सृष्टये नमः ।
ओं सप्तिमते नमः ।
ओं सप्तमीप्रियाय नमः ।
ओं सुमेधसे नमः ।
ओं मेधिकाय नमः ।
ओं मेध्याय नमः । ७६०

ओं मेधाविने नमः ।
ओं मधुसूदनाय नमः ।
ओं अङ्गिरःपतये नमः ।
ओं कालज्ञाय नमः ।
ओं धूमकेतवे नमः ।
ओं सुकेतनाय नमः ।
ओं सुखिने नमः ।
ओं सुखप्रदाय नमः ।
ओं सौख्याय नमः ।
ओं कान्तये नमः ।
ओं कान्तिप्रियाय नमः ।
ओं मुनये नमः ।
ओं सन्तापनाय नमः ।
ओं सन्तपनाय नमः ।
ओं आतपाय नमः ।
ओं तपसां पतये नमः ।
ओं उमापतये नमः ।
ओं सहस्रांशवे नमः ।
ओं प्रियकारिणे नमः ।
ओं प्रियङ्कराय नमः । ७८०

ओं प्रीतये नमः ।
ओं विमन्यवे नमः ।
ओं अम्भोत्थाय नमः ।
ओं खञ्जनाय नमः ।
ओं जगतां पतये नमः ।
ओं जगत्पित्रे नमः ।
ओं प्रीतमनसे नमः ।
ओं सर्वाय नमः ।
ओं खर्वाय नमः ।
ओं गुहाय नमः ।
ओं अचलाय नमः ।
ओं सर्वगाय नमः ।
ओं जगदानन्दाय नमः ।
ओं जगन्नेत्रे नमः ।
ओं सुरारिघ्ने नमः ।
ओं श्रेयसे नमः ।
ओं श्रेयस्कराय नमः ।
ओं ज्यायसे नमः ।
ओं महते नमः ।
ओं उत्तमाय नमः । ८००

ओं उद्भवाय नमः ।
ओं उत्तमाय नमः ।
ओं मेरुमेयाय नमः ।
ओं धरणाय नमः ।
ओं धरणीधराय नमः ।
ओं धराध्यक्षाय नमः ।
ओं धर्मराजाय नमः ।
ओं धर्माधर्मप्रवर्तकाय नमः ।
ओं रथाध्यक्षाय नमः ।
ओं रथगतये नमः ।
ओं तरुणाय नमः ।
ओं तनिताय नमः ।
ओं अनलाय नमः ।
ओं उत्तराय नमः ।
ओं अनुत्तराय नमः ।
ओं तापिने नमः ।
ओं अवाक्पतये नमः ।
ओं अपां पतये नमः ।
ओं पुण्यसङ्कीर्तनाय नमः ।
ओं पुण्याय नमः । ८२०

ओं हेतवे नमः ।
ओं लोकत्रयाश्रयाय नमः ।
ओं स्वर्भानवे नमः ।
ओं विगतानन्दाय नमः ।
ओं विशिष्टोत्कृष्टकर्मकृते नमः ।
ओं व्याधिप्रणाशनाय नमः ।
ओं क्षेमाय नमः ।
ओं शूराय नमः ।
ओं सर्वजितां वराय नमः ।
ओं एकरथाय नमः ।
ओं रथाधीशाय नमः ।
ओं शनैश्चरस्य पित्रे नमः ।
ओं वैवस्वतगुरवे नमः ।
ओं मृत्यवे नमः ।
ओं धर्मनित्याय नमः ।
ओं महाव्रताय नमः ।
ओं प्रलम्बहारसञ्चारिणे नमः ।
ओं प्रद्योताय नमः ।
ओं द्योतितानलाय नमः ।
ओं सन्तापहृते नमः । ८४०

ओं परस्मै नमः ।
ओं मन्त्राय नमः ।
ओं मन्त्रमूर्तये नमः ।
ओं महाबलाय नमः ।
ओं श्रेष्ठात्मने नमः ।
ओं सुप्रियाय नमः ।
ओं शम्भवे नमः ।
ओं मरुतामीश्वरेश्वराय नमः ।
ओं संसारगतिविच्छेत्त्रे नमः ।
ओं संसारार्णवतारकाय नमः ।
ओं सप्तजिह्वाय नमः ।
ओं सहस्रार्चिषे नमः ।
ओं रत्नगर्भाय नमः ।
ओं अपराजिताय नमः ।
ओं धर्मकेतवे नमः ।
ओं अमेयात्मने नमः ।
ओं धर्माधर्मवरप्रदाय नमः ।
ओं लोकसाक्षिणे नमः ।
ओं लोकगुरवे नमः ।
ओं लोकेशाय नमः । ८६०

ओं चण्डवाहनाय नमः ।
ओं धर्मयूपाय नमः ।
ओं यूपवृक्षाय नमः ।
ओं धनुष्पाणये नमः ।
ओं धनुर्धराय नमः ।
ओं पिनाकधृते नमः ।
ओं महोत्साहाय नमः ।
ओं महामायाय नमः ।
ओं महाशनाय नमः ।
ओं वीराय नमः ।
ओं शक्तिमतां श्रेष्ठाय नमः ।
ओं सर्वशस्त्रभृतां वराय नमः ।
ओं ज्ञानगम्याय नमः ।
ओं दुराराध्याय नमः ।
ओं लोहिताङ्गाय नमः ।
ओं विवर्धनाय नमः ।
ओं खगाय नमः ।
ओं अन्धाय नमः ।
ओं धर्मदाय नमः ।
ओं नित्याय नमः । ८८०

ओं धर्मकृते नमः ।
ओं चित्रविक्रमाय नमः ।
ओं भगवते नमः ।
ओं आत्मवते नमः ।
ओं मन्त्राय नमः ।
ओं त्र्यक्षराय नमः ।
ओं नीललोहिताय नमः ।
ओं एकाय नमः ।
ओं अनेकाय नमः ।
ओं त्रयिने नमः ।
ओं कालाय नमः ।
ओं सवित्रे नमः ।
ओं समितिञ्जयाय नमः ।
ओं शार्ङ्गधन्वने नमः ।
ओं अनलाय नमः ।
ओं भीमाय नमः ।
ओं सर्वप्रहरणायुधाय नमः ।
ओं सुकर्मणे नमः ।
ओं परमेष्ठिने नमः ।
ओं नाकपालिने नमः । ९००

ओं दिविस्थिताय नमः ।
ओं वदान्याय नमः ।
ओं वासुकये नमः ।
ओं वैद्याय नमः ।
ओं आत्रेयाय नमः ।
ओं पराक्रमाय नमः ।
ओं द्वापराय नमः ।
ओं परमोदाराय नमः ।
ओं परमाय नमः ।
ओं ब्रह्मचर्यवते नमः ।
ओं उदीच्यवेषाय नमः ।
ओं मुकुटिने नमः ।
ओं पद्महस्ताय नमः ।
ओं हिमांशुभृते नमः ।
ओं सिताय नमः ।
ओं प्रसन्नवदनाय नमः ।
ओं पद्मोदरनिभाननाय नमः ।
ओं सायं दिवा दिव्यवपुषे नमः ।
ओं अनिर्देश्याय नमः ।
ओं महालयाय नमः । ९२०

ओं महारथाय नमः ।
ओं महते नमः ।
ओं ईशाय नमः ।
ओं शेषाय नमः ।
ओं सत्त्वरजस्तमसे नमः ।
ओं धृतातपत्रप्रतिमाय नमः ।
ओं विमर्षिणे नमः ।
ओं निर्णयाय नमः ।
ओं स्थिताय नमः ।
ओं अहिंसकाय नमः ।
ओं शुद्धमतये नमः ।
ओं अद्वितीयाय नमः ।
ओं विवर्धनाय नमः ।
ओं सर्वदाय नमः ।
ओं धनदाय नमः ।
ओं मोक्षाय नमः ।
ओं विहारिणे नमः ।
ओं बहुदायकाय नमः ।
ओं चारुरात्रिहराय नमः ।
ओं नाथाय नमः । ९४०

ओं भगवते नमः ।
ओं सर्वगाय नमः ।
ओं अव्ययाय नमः ।
ओं मनोहरवपुषे नमः ।
ओं शुभ्राय नमः ।
ओं शोभनाय नमः ।
ओं सुप्रभावनाय नमः ।
ओं सुप्रभावाय नमः ।
ओं सुप्रतापाय नमः ।
ओं सुनेत्राय नमः ।
ओं दिग्विदिक्पतये नमः ।
ओं राज्ञीप्रियाय नमः ।
ओं शब्दकराय नमः ।
ओं ग्रहेशाय नमः ।
ओं तिमिरापहाय नमः ।
ओं सैंहिकेयरिपवे नमः ।
ओं देवाय नमः ।
ओं वरदाय नमः ।
ओं वरनायकाय नमः ।
ओं चतुर्भुजाय नमः । ९६०

ओं महायोगिने नमः ।
ओं योगीश्वरपतये नमः ।
ओं अनादिरूपाय नमः ।
ओं अदितिजाय नमः ।
ओं रत्नकान्तये नमः ।
ओं प्रभामयाय नमः ।
ओं जगत्प्रदीपाय नमः ।
ओं विस्तीर्णाय नमः ।
ओं महाविस्तीर्णमण्डलाय नमः ।
ओं एकचक्ररथाय नमः ।
ओं स्वर्णरथाय नमः ।
ओं स्वर्णशरीरधृषे नमः ।
ओं निरालम्बाय नमः ।
ओं गगनगाय नमः ।
ओं धर्मकर्मप्रभावकृते नमः ।
ओं धर्मात्मने नमः ।
ओं कर्मणां साक्षिणे नमः ।
ओं प्रत्यक्षाय नमः ।
ओं परमेश्वराय नमः ।
ओं मेरुसेविने नमः । ९८०

ओं सुमेधाविने नमः ।
ओं मेरुरक्षाकराय नमः ।
ओं महते नमः ।
ओं आधारभूताय नमः ।
ओं रतिमते नमः ।
ओं धनधान्यकृते नमः ।
ओं पापसन्तापहर्त्रे नमः ।
ओं मनोवाञ्छितदायकाय नमः ।
ओं रोगहर्त्रे नमः ।
ओं राज्यदायिने नमः ।
ओं रमणीयगुणाय नमः ।
ओं अनृणिने नमः ।
ओं कालत्रयानन्तरूपाय नमः ।
ओं मुनिवृन्दनमस्कृताय नमः ।
ओं सन्ध्यारागकराय नमः ।
ओं सिद्धाय नमः ।
ओं सन्ध्यावन्दनवन्दिताय नमः ।
ओं साम्राज्यदाननिरताय नमः ।
ओं समाराधनतोषवते नमः ।
ओं भक्तदुःखक्षयकराय नमः । १०००

ओं भवसागरतारकाय नमः ।
ओं भयापहर्त्रे नमः ।
ओं भगवते नमः ।
ओं अप्रमेयपराक्रमाय नमः ।
ओं मनुस्वामिने नमः
ओं मनुपतये नमः ।
ओं मान्याय नमः ।
ओं मन्वन्तराधिपाय नमः । १००८

इति श्री सूर्य सहस्रनामावली ।


इतर श्री सूर्य स्तोत्राणि पश्यतु । इतर नवग्रह स्तोत्राणि पश्यतु |


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed