Sri Sudarshana Mala Mantra Stotram – श्री सुदर्शन माला मन्त्र स्तोत्रम्


अस्य श्रीसुदर्शनमालामहामन्त्रस्य अहिर्बुध्न्य ऋषिः अनुष्टुप् छन्दः सुदर्शन चक्ररूपी श्रीहरिर्देवता आचक्राय स्वाहेति बीजं सुचक्राय स्वाहेति शक्तिः ज्वालाचक्राय स्वाहेति कीलकं श्रीसुदर्शनप्रीत्यर्थे जपे विनियोगः ।

करन्यासः –
आचक्राय स्वाहा – अङ्गुष्ठाभ्यां नमः ।
विचक्राय स्वाहा – तर्जनीभ्यां नमः ।
सुचक्राय स्वाहा – मध्यमाभ्यां नमः ।
धीचक्राय स्वाहा – अनामिकाभ्यां नमः ।
सञ्चक्राय स्वाहा – कनिष्ठिकाभ्यां नमः ।
ज्वालाचक्राय स्वाहा – करतलकरपृष्ठाभ्यां नमः ।

अङ्गन्यासः –
आचक्राय स्वाहा – हृदयाय नमः ।
विचक्राय स्वाहा – शिरसे स्वाहा ।
सुचक्राय स्वाहा – शिखायै वषट् ।
धीचक्राय स्वाहा – कवचाय हुम् ।
सञ्चक्राय स्वाहा – नेत्रत्रयाय वौषट् ।
ज्वालाचक्राय स्वाहा – अस्त्राय फट् ।

ध्यानम् ।
कल्पान्तार्कप्रकाशं त्रिभुवनमखिलं तेजसा पूरयन्तं
रक्ताक्षं पिङ्गकेशं रिपुकुलभयदं भीमदंष्ट्राट्‍टहासम् ।
शङ्खं चक्रं गदाब्जं पृथुतरमुसलं चापबाणाङ्कुशादीन्
बिभ्राणं दोर्भिराद्यं मनसि मुररिपुं भावयेच्चक्रराजम् ॥

अथ मन्त्रम् ।
ओं श्रीं ह्रीं क्लीं सहस्रार हुं फट् स्वाहा ।
ओं श्रीं ह्रीं क्लीं कृष्णाय गोविन्दाय गोपीजनवल्लभाय पराय परमपुरुषाय परमात्मने परकर्म मन्त्रयन्त्रौषधास्त्रशस्त्राणि संहर संहर मृत्योर्मोचय मोचय ।
ओं नमो भगवते महासुदर्शनाय दीप्त्रे ज्वालापरीताय सर्वदिक्षोभणकराय ब्रह्मणे परञ्ज्योतिषे हुं फट् स्वाहा ॥

इति श्री सुदर्शन मालामन्त्र स्तोत्रं सम्पूर्णम् ।


इतर श्री विष्णु स्तोत्राणि पश्यतु |
इतर श्री विष्णु स्तोत्राणि पश्यतु |


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed