Sri Sudarshana Kavacham 2 – श्री सुदर्शन कवचम् २


अस्य श्रीसुदर्शनकवच महामन्त्रस्य अहिर्बुध्न्य ऋषिः अनुष्टुप् छन्दः सुदर्शनरूपी परमात्मा देवता सहस्रारं इति बीजं सुदर्शनं इति शक्तिः चक्रराडिति कीलकं मम सर्वरक्षार्थे जपे विनियोगः ।

करन्यासः –
आचक्राय स्वाहा – अङ्गुष्ठाभ्यां नमः ।
विचक्राय स्वाहा – तर्जनीभ्यां नमः ।
सुचक्राय स्वाहा – मध्यमाभ्यां नमः ।
धीचक्राय स्वाहा – अनामिकाभ्यां नमः ।
सञ्चक्राय स्वाहा – कनिष्ठिकाभ्यां नमः ।
ज्वालाचक्राय स्वाहा – करतलकरपृष्ठाभ्यां नमः ।

अङ्गन्यासः –
आचक्राय स्वाहा – हृदयाय नमः ।
विचक्राय स्वाहा – शिरसे स्वाहा ।
सुचक्राय स्वाहा – शिखायै वषट् ।
धीचक्राय स्वाहा – कवचाय हुम् ।
सञ्चक्राय स्वाहा – नेत्रत्रयाय वौषट् ।
ज्वालाचक्राय स्वाहा – अस्त्राय फट् ।

ध्यानम् ।
शङ्खं शार्ङ्गं सुखेटं हलपरशुगदापाशमन्तर्दधाने
सव्ये वामेऽथ चक्रेऽप्यसिमुसल लसद्वज्रहस्तं त्रिशूलम् ।
ज्वालाकेशं च पाशं ज्वलदनलशिखा विद्युद्दृङ्मण्डलस्थं
प्रत्यालीढं त्रिणेत्रं पुरगणमथनं भावये मन्त्रराजम् ॥

अथ मूलमन्त्रम् ।
ओं श्रीं ह्रीं क्लीं सहस्रार हुं फट् स्वाहा ।

अथ कवचम् ।
मस्तकं मे सहस्रारं पातु फालं सुदर्शनम् ।
भ्रूमध्ये चक्रराट् पातु नेत्रेऽग्न्यर्केन्दुलोचनः ॥ १ ॥

कर्णौ वेदस्तवः पातु घ्राणं पातु विभीषणः ।
महादेवः कपोलं मे चक्षू रुद्रो वरप्रदः ॥ २ ॥

दन्तान् पातु जगद्वन्द्यो रसनां मम सर्वदः ।
सर्वविद्यां नृपः पातु गिरं वागीश्वरोऽवतु ॥ ३ ॥

वीरसिंहो मुखं पातु चिबुकं भक्तवत्सलः ।
सर्वदा पृष्ठदेशे मे देवानामभयप्रदः ॥ ४ ॥

नाभिं षट्कोणगः पातु घण्टारावः कटिं तथा ।
ऊरू पातु महाशूरो जानुनी भीमविक्रमः ॥ ५ ॥

जङ्घे पातु महावेगो गुल्फावदितिरञ्जनः ।
पातु पादतलद्वन्द्वं विश्वभारो निरन्तरम् ॥ ६ ॥

सुदर्शननृसिंहो मे शरीरं पातु सर्वदा ।
पातु सर्वाङ्गकान्तिं मे कल्पान्ताग्निसमप्रभः ॥ ७ ॥

मम सर्वाङ्गरोमाणि ज्वालाकेशस्तु रक्षतु ।
अन्तर्बहिश्च मे पातु विश्वात्मा सर्वतोमुखः ॥ ८ ॥

रक्षाहीनं च यत्स्थानं प्रचण्डस्तत्र रक्षतु ।
सर्वतो दिक्षु मे पातु ज्वालासाहस्रसंस्तुतम् ॥ ९ ॥

इति सौदर्शनं दिव्यं कवचं सर्वकामदम् ।
सर्वपापोपशमनं सर्वव्याधिनिवारणम् ॥ १० ॥

सर्वशत्रुक्षयकरं सर्वमङ्गलदायकम् ।
त्रिसन्ध्यं जपतां नॄणां सर्वदा सर्वकामदम् ॥ ११ ॥

प्रातरुत्थाय यो भक्त्या पठेदेतत्सदा नरः ।
तस्य कार्येषु सर्वेषु विघ्नः कोऽपि न जायते ॥ १२ ॥

यक्षराक्षसवेतालपिशाचाश्च विनायकः ।
शाकिनी डाकिनी माला कालिका चण्डिकादयः ॥ १३
भूतप्रेतपिशाचाश्च येऽन्ये दुष्टग्रहा अपि ।
कवचस्य प्रभावेन दृष्टिमात्रेण तेऽखिलाः ॥ १४ ॥

पलायन्ते यथा नागाः पक्षिराजस्य दर्शनात् ।
अस्यायुतं पुरश्चर्या दशांशं तिलसर्पिषा ॥ १५ ॥

हवनं तत्समं चैव तर्पणं गन्धवारिणा ।
पुष्पाञ्जलिं दशांशेन मृष्टान्नैः सुघृतप्लुतैः ॥ १६ ॥

चतुर्विंशद्द्विजा भोज्यास्ततः कार्याणि साधयेत् ।
विन्यस्य जवनो धीरो युद्धार्थं योऽधिगच्छति ॥ १७ ॥

क्षणाज्जित्वाऽखिलान् शत्रून् विजयी भवति ध्रुवम् ।
मन्त्रिताम्बु त्रिवारं वै पिबेत्सप्तदिनावधि ॥ १८ ॥

व्याधयः प्रशमं यान्ति सकलाः कुक्षिसम्भवाः ।
मुखरोगाक्षिरोगाणां नाशनं परमं मतम् ॥ १९ ॥

भीतानामभिषेकाच्च महाभयनिवारणम् ।
सप्ताभिमन्त्रितानेन तुलसीमूलमृत्तिका ॥ २० ॥

लिम्पेन्नश्यन्ति तद्रोगाः सप्त कृच्छ्रादयोऽखिलाः ।
ललाटे तिलकं नॄणां मोहनं सर्ववश्यकृत् ॥ २१ ॥

परेषां मन्त्रतन्त्रादि नाशनं परमं मतम् ।
अग्निसर्पादिसर्वेषां विषाणां हरणं परम् ॥ २२ ॥

सौवर्णे राजते वापि पत्रे भूर्जादिकेऽपि वा ।
लिखित्वा पूजयेद्भक्त्या स श्रीमान्भवति ध्रुवम् ॥ २३ ॥

बहुना किमिहोक्तेन यद्यद्वाञ्छति मानवः ।
सकलं प्राप्नुयादस्य कवचस्य प्रभावतः ॥ २४ ॥

इति श्री सुदर्शन कवचम् ।


इतर श्री विष्णु स्तोत्राणि पश्यतु |


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed