Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
अस्य श्री सुब्रह्मण्य षोडशनामस्तोत्र महामन्त्रस्य अगस्त्यो भगवानृषिः अनुष्टुप्छन्दः सुब्रह्मण्यो देवता ममेष्ट सिद्ध्यर्थे जपे विनियोगः ।
ध्यानम् ।
षड्वक्त्रं शिखिवाहनं त्रिनयनं चित्राम्बरालङ्कृतं
शक्तिं वज्रमसिं त्रिशूलमभयं खेटं धनुश्चक्रकम् ।
पाशं कुक्कुटमङ्कुशं च वरदं हस्तैर्दधानं सदा
ध्यायेदीप्सितसिद्धिदं शिवसुतं स्कन्दं सुराराधितम् ॥
प्रथमो ज्ञानशक्त्यात्मा द्वितीयः स्कन्द एव च ।
अग्निगर्भस्तृतीयस्तु बाहुलेयश्चतुर्थकः ॥ १ ॥
गाङ्गेयः पञ्चमः प्रोक्तः षष्ठः शरवणोद्भवः ।
सप्तमः कार्तिकेयश्च कुमारश्चाष्टमस्तथा ॥ २ ॥
नवमः षण्मुखः प्रोक्तो दशमस्तारकान्तकः ।
एकादशश्च सेनानीः गुहो द्वादश एव च ॥ ३ ॥
त्रयोदशो ब्रह्मचारी शिवतेजश्चतुर्दशः ।
क्रौञ्चदारी पञ्चदशः षोडशः शिखिवाहनः ॥ ४ ॥
षोडशैतानि नामानि यः पठेद्भक्तिसम्युतः ।
बृहस्पतिसमो वाचि ब्रह्मतेजोयुतो भवेत् ।
यद्यत्प्रार्थये मर्त्यस्तत्सर्वं लभते ध्रुवम् ॥ ५ ॥
इति श्री सुब्रह्मण्य षोडशनाम स्तोत्रम् ।
इतर श्री सुब्रह्मण्य स्तोत्राणि पश्यतु ।
గమనిక: ఇటివలి ప్రచురణలు "శ్రీ కృష్ణ స్తోత్రనిధి" మరియు "శ్రీ ఆంజనేయ స్తోత్రనిధి"
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.