Sri Skanda Shatkam – श्री स्कन्द षट्कम्


षण्मुखं पार्वतीपुत्रं क्रौञ्चशैलविमर्दनम् ।
देवसेनापतिं देवं स्कन्दं वन्दे शिवात्मजम् ॥ १ ॥

तारकासुरहन्तारं मयूरासनसंस्थितम् ।
शक्तिपाणिं च देवेशं स्कन्दं वन्दे शिवात्मजम् ॥ २ ॥

विश्वेश्वरप्रियं देवं विश्वेश्वरतनूद्भवम् ।
कामुकं कामदं कान्तं स्कन्दं वन्दे शिवात्मजम् ॥ ३ ॥

कुमारं मुनिशार्दूलमानसानन्दगोचरम् ।
वल्लीकान्तं जगद्योनिं स्कन्दं वन्दे शिवात्मजम् ॥ ४ ॥

प्रलयस्थितिकर्तारं आदिकर्तारमीश्वरम् ।
भक्तप्रियं मदोन्मत्तं स्कन्दं वन्दे शिवात्मजम् ॥ ५ ॥

विशाखं सर्वभूतानां स्वामिनं कृत्तिकासुतम् ।
सदाबलं जटाधारं स्कन्दं वन्दे शिवात्मजम् ॥ ६ ॥

स्कन्दषट्कं स्तोत्रमिदं यः पठेच्छृणुयान्नरः ।
वाञ्छितान् लभते सद्यश्चान्ते स्कन्दपुरं व्रजेत् ॥ ७ ॥

इति श्रीस्कन्दषट्कम् ।


इतर श्री सुब्रह्मण्य स्तोत्राणि पश्यतु ।


పైరసీ ప్రకటన : నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ మరియు శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు కలిసి మా రెండు పుస్తకాలను ("శ్రీ వారాహీ స్తోత్రనిధి" మరియు "శ్రీ శ్యామలా స్తోత్రనిధి") ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed