Skanda lahari – स्कन्दलहरी


श्रियै भूयाः श्रीमच्छरवणभव त्वं शिवसुतः
प्रियप्राप्त्यै भूयाः प्रतनगजवक्त्रस्य सहज ।
त्वयि प्रेमोद्रेकात्प्रकटवचसा स्तोतुमनसा
मयाऽऽरब्धं स्तोतुं तदिदमनुमन्यस्व भगवन् ॥ १ ॥

निराबाधं राजच्छरदुदितराकाहिमकर
प्ररूढज्योत्स्नाभास्मितवदनषट्कस्त्रिणयनः ।
पुरः प्रादुर्भूय स्फुरतु करुणापूर्णहृदयः
करोतु स्वास्थ्यं वै कमलदलबिन्दूपमहृदि ॥ २ ॥

न लोकेऽन्यं देवं नतजनकृतप्रत्ययविधिं
विलोके भीतानां निखिलभयभीतैकशरणम् ।
कलौ कालेऽप्यन्तर्हरसि तिमिरं भास्कर इव
प्रलुब्धानां भोगेष्वपि निखिलभोगान्वितरसि ॥ ३ ॥

शिव स्वामिन् देव श्रितकलुषनिःशेषण गुरो
भवध्वान्तध्वंसे मिहिरशतकोटिप्रतिभट ।
शिवप्राप्त्यै सम्यक्फलित सदुपायप्रकटन
ध्रुवं त्वत्कारुण्ये कलिरपि कृती भूतविभवः ॥ ४ ॥

अशक्तानां कर्मस्वपि निखिलनिःश्रेयसकृतौ
पशुत्वग्रस्तानां पतिरसि विपाशत्वकलने ।
प्रशस्तानां भूम्नां निधिरसि निरोद्धा निजशुचा-
-मशक्तानां कर्ता जगति धृतशक्तिः किल भवान् ॥ ५ ॥

रुषार्तानां हर्ता विषयिविषयाणां घटयिता
तृषार्तानां काले परममृतवर्षी घन इव ।
मृषाज्ञानार्तानां निखिलविचिकित्सापरिहरो
विषग्रस्तानां त्वं सकलभयहर्ता विलससि ॥ ६ ॥

रसाधिक्यं भक्तैरधिकमधिकं वर्धय विभो
प्रसीद त्वं भूयः प्रकटय चिदानन्दलहरीम् ।
असारे संसारे सदसति न लिप्तं मम मनः
कुसीदं भूयान्मे कुशलवति निःश्रेयसपथे ॥ ७ ॥

महामोहारण्ये विचरति मनस्तन्नियमय-
-न्नहन्तां निःशेषीकुरु करुणया त्वं स्नपय माम् ।
महीयो माहात्म्यं तव मननमार्गे स्फुरतु मे
महस्स्तोमाकारे त्वयि मतिजुषि स्यात्क्व नु तमः ॥ ८ ॥

वलक्षाभं स्निग्धं वदनकमलेभ्यः प्रसृमरं
मिलत्कारुण्यार्द्रं मृदितभुवनार्ति स्मितमिदम् ।
पुलिन्दापत्यस्य प्रकटपुलकोद्रेकजनकं
दलद्दैन्यं खेदं हरतु सततं नः सुरगुरो ॥ ९ ॥

अतीतो ब्रह्मादीन् कृतिमुखकृतः कारणपतीन्
क्षितिस्तोयं वह्निर्मरुदसि वियत्तत्वमखिलम् ।
पतिः कृत्यानां त्वं परिणतचिदात्मेक्षणवतां
धृतिस्त्वं ध्यातः सन् दिशसि निजसायुज्यपदवीम् ॥ १० ॥

त्वदात्मा त्वच्चित्तस्त्वदनुभवबुद्धिस्मृतिपथः
त्वया व्याप्तं सर्वं जगदिदमशेषं स्थिरचरम् । [त्वदालोकः]
सदा योगी साक्षाद्भजति तव सारूप्यममलं
त्वदायत्तानां किं न हि सुलभमष्टौ च विभवाः ॥ ११ ॥

कति ब्रह्माणो वा कति कमलनेत्राः कति हराः
कति ब्रह्माण्डानां कति च शतकोटिष्वधिकृताः ।
कृताज्ञाः सन्तस्ते विविधकृतिरक्षाभृतिकराः
अतः सर्वैश्वर्यं तव यदपरिच्छेद्यविभवम् ॥ १२ ॥

नमस्ते स्कन्दाय त्रिदशपरिपालाय महते
नमः क्रौञ्चाभिख्यासुरदलनदक्षाय भवते ।
नमः शूरक्रूरत्रिदशरिपुदण्डाध्वरकृते
नमो भूयो भूयो नतिकृदवने जागरवते ॥ १३ ॥

शिवस्त्वं शक्तिस्त्वं तदुभयतमैक्यं पृथगसि
स्तवे ध्याने पूजाजपनियममुख्येष्वभिरताः ।
भुवि स्थित्वा भोगान् सुचिरमुपभुज्य प्रमुदिताः
भवन्ति स्थाने तत्तदनु पुनरावृत्तिविमुखाः ॥ १४ ॥ [त्वत्]

गुरोर्विद्यां लब्ध्वा सकलभयहन्त्रीं जपपराः
पुरश्चर्यामुख्यक्रमविधिजुषो ध्याननिपुणाः ।
व्रतस्थैः कामौघैरभिलषितवाञ्छां प्रियभुज-
-श्चिरं जीवन्मुक्ता जगति विजयन्ते सुकृतिनः ॥ १५ ॥

शरज्ज्योत्स्नाशुभ्रं स्फटिकनिकुरुम्बाभरुचिरं
स्फुरन्मुक्ताहारं धवलवसनं भावयति यः ।
प्ररोहत्कारुण्यामृतबहुलधाराभिरभित-
-श्चिरं सिक्तात्मा वै स भवति च विच्छिन्ननिगडः ॥ १६ ॥

वृथा कर्तुं दुष्टान्विविधविषवेगान् शमयितुं
सुधारोचिष्कोटिप्रतिभटरुचिं भावयति यः ।
अधः कर्तुं साक्षाद्भवति विनतासूनुमचिरा-
-द्विधत्ते सर्पाणां विविधविषदर्पापहरणम् ॥ १७ ॥

प्रवालाभापूरे प्रसरति महस्ते जगदिदं
दिवं भूमिं काष्ठाः सकलमपि सञ्चिन्तयति यः ।
द्रवीकुर्याच्चेतस्त्रिदशनिवहानामपि सुखा-
-द्भुवि स्त्रीणां पुंसां वशयति तिरश्चामपि मनः ॥ १८ ॥

नवाम्भोदश्यामं मरकतमणिप्रख्यमथवा
भवन्तं ध्यायेद्यो भवति निपुणो मोहनविधौ ।
दिविष्ठानां भूमावपि विविधदेशेषु वसतां
नृणां देवानां वा वियति चरतां पत्रिफणिनाम् ॥ १९ ॥

कुमार श्रीमंस्त्वां कनकसदृशाभं स्मरति यः
समारब्धस्तम्भे सकलजगतां वा प्रभवति ।
समस्तद्युःस्थानां प्रबलपृतनानां सवयसां
प्रमत्तव्याघ्राणां किटिहयगजानां च सपदि ॥ २० ॥

छटात्कारैः साकं सहकृतमहाधूमपटल-
-स्फुटाकारं साक्षात्स्मरति यदि मन्त्री सकृदपि ।
हठादुच्चाटाय प्रभवति मृगाणां स पततां
पटुर्विद्वेषे स्याद्विधिरचित पाशं विघटयन् ॥ २१ ॥

स्मरन्घोराकारं तिमिरनिकुरुम्बस्य सदृशं
जपन्मन्त्रान् मर्त्यः सकलरिपुदर्पक्षपयिता ।
स रुद्रेणौपम्यं भजति परमात्मन् गुह विभो
वरिष्ठः साधूनामपि च नितरां त्वद्भजनवान् ॥ २२ ॥

महाभूतव्याप्तं कलयति च यो ध्याननिपुणः
स भूतैः सन्त्यक्तस्त्रिजगति च योगेन सरसः ।
गुह स्वामिन्नन्तर्दहरयति यस्त्वां तु कलयन्
जहन्मायो जीवन्भवति स विमुक्तः पटुमतिः ॥ २३ ॥

शिवस्वामिन् गौरीप्रियसुत मयूरासन गुहे-
-त्यमून्युक्त्वा नामान्यखिलदुरितौघान् क्षपयति ।
इहासौ लोके तु प्रबलविभवः सन् सुविचरन्
विमानारूढोऽन्ते तव भजति लोकं निरुपमम् ॥ २४ ॥

तव श्रीमन्मूर्तिं कलयितुमनीशोऽहमधुना
भवत्पादाम्भोजं भवभयहरं नौमि शरणम् ।
अतः सत्याद्रीश प्रमथगणनाथात्मज विभो
गुह स्वामिन् दीने वितनु मयि कारुण्यमनिशम् ॥ २५ ॥

भवायानन्दाब्धे श्रुतिनिकरमूलार्थमखिलं
निगृह्य व्याहर्तुं कमलजमसक्तं तु सहसा ।
ब्रुवाणस्त्वं स्वामिक्षितिधरपते देशिकगुरो
गुह स्वामिन् दीने मयि वितनु कारुण्यमनिशम् ॥ २६ ॥

अगस्त्यप्रष्ठानाममलहृदयाब्जैकनिलयं
सकृद्वा न ध्यातं पदकमलयुग्मं तव मया ।
तथापि श्रीजन्ति स्थलनिलय देवेश वरद
गुह स्वामिन् दीने मयि वितनु कारुण्यमनिशम् ॥ २७ ॥

रणे हत्वा शक्त्या सकलदनुजांस्तारकमुखान्
हरिब्रह्मेन्द्राणामपि सुरमुनीनां भुवि नृणाम् ।
मुदं कुर्वाणः श्रीशिवशिखरिनाथ त्वमखिलां
गुह स्वामिन् दीने मयि वितनु कारुण्यमनिशम् ॥ २८ ॥

शरद्राकाजैवातृक विमलषड्वक्त्रविलस-
-द्द्विषड्बाहो शक्त्या विदलितमहाक्रौञ्चशिखरिन् ।
हृदावास श्रीहल्लकगिरिपते सर्वविदुषां
गुह स्वामिन् दीने मयि वितनु कारुण्यमनिशम् ॥ २९ ॥

महान्तं केकीन्द्रं वरद सहसाऽऽरुह्य दिविष-
-द्गणानां सर्वेषामभयद मुनीनां च भजताम् ।
वलारातेः कन्यारमण बहुपुण्याचलपते
गुह स्वामिन् दीने मयि वितनु कारुण्यमनिशम् ॥ ३० ॥

महद्ब्रह्मानन्दं परशिवगुरुं सन्ततलस-
-त्तटित्कोटिप्रख्यं सकलदुरितार्तिघ्नममलम् ।
हरिब्रह्मेन्द्रामरगणनमस्कार्यचरणं
गुहं श्रीसङ्गीतप्रियमहमन्तर्हृदि भजे ॥ ३१ ॥

इति स्कन्दलहरी ।


इतर श्री सुब्रह्मण्य स्तोत्राणि पश्यतु ।

Report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

Your email address will not be published.

error: Not allowed
%d bloggers like this: