Sri Shiva Sahasranama stotram (Uttara Peetika) – श्री शिव सहस्रनाम स्तोत्रम् – उत्तरपीठिक (फलश्रुति)

यथा प्रधानं भगवान् इति भक्त्या स्तुतो मया ।
यं न ब्रह्मादयो देवा विदुस्तत्त्वेन नर्षयः ॥ १ ॥

स्तोतव्यमर्च्यं वन्द्यं च कः स्तोष्यति जगत्पतिं ।
भक्त्यात्वेवं पुरस्कृत्य मया यज्ञपतिर्विभुः ॥ २ ॥

ततोऽभ्यनुज्ञां सम्प्राप्य स्तुतो मतिमतां वरः ।
शिवमेभिः स्तुवन् देवं नामभिः पुष्टिवर्धनैः ॥ ३ ॥

नित्ययुक्तः शुचिर्भक्तः प्राप्नोत्यात्मानमात्मना ।
एतद्धि परमं ब्रह्म परं ब्रह्माधिगच्छति ॥ ४ ॥

ॠषयश्चैव देवाश्च स्तुवन्त्येतेन तत्परं ।
स्तूयमानो महादेवस्तुष्यते नियमात्मभिः ॥ ५ ॥

भक्तानुकम्पी भगवान् आत्मसंस्थाकरो विभुः ।
तथैव च मनुष्येषु ये मनुष्याः प्रधानतः ॥ ६ ॥

आस्तिकाः श्रद्दधानाश्च बहुभिर्जन्मभिः स्तवैः ।
भक्त्या ह्यनन्यमीशानं परं देवं सनातनम् ॥ ७ ॥

कर्मणा मनसा वाचा भावेनामिततेजसः ।
शयाना जाग्रमाणाश्च व्रजन्नुपविशंस्तथा ॥ ८ ॥

उन्मिषन्निमिषञ्चैव चिन्तयन्तः पुनः पुनः ।
शृण्वन्तः श्रावयन्तश्च कथयन्तश्च ते भवम् ॥ ९ ॥

स्तुवन्तः स्तूयमानाश्च तुष्यन्ति च रमन्ति च ।
जन्मकोटिसहस्रेषु नानासंसारयोनिषु ॥ १० ॥

जन्तोर्विगतपापस्य भवे भक्तिः प्रजायते ।
उत्पन्ना च भवे भक्तिरनन्या सर्वभावतः ॥ ११ ॥

भाविनः कारणे चास्य सर्वयुक्तस्य सर्वथा ।
एतद्देवेषु दुष्प्रापं मनुष्येषु न लभ्यते ॥ १२ ॥

निर्विघ्ना निश्चला रुद्रे भक्तिरव्यभिचारिणी ।
तस्यैव च प्रसादेन भक्तिरुत्पद्यते नृणाम् ॥ १३ ॥

येन यान्ति परां सिद्धिं तद्भावगतचेतसः ।
ये सर्वभावानुगताः प्रपद्यन्ते महेश्वरम् ॥ १४ ॥

प्रपन्नवत्सलो देवः संसारात् तान् समुद्धरेत् ।
एवं अन्ये विकुर्वन्ति देवाः संसारमोचनम् ॥ १५ ॥

मनुष्याणामृते देवं नान्या शक्तिस्तपोबलं ।
इति तेनेन्द्रकल्पेन भगवान् सदसत्पतिः ॥ १६ ॥

कृत्तिवासाः स्तुतः कृष्णा तण्डिना शुभबुद्धिना ।
स्तवमेतं भगवतो ब्रह्मा स्वयमधारयत् ॥ १७ ॥

गीयते च स बुद्ध्येत ब्रह्मा शङ्करसन्निधौ ।
इदं पुण्यं पवित्रं च सर्वदा पापनाशनम् ॥ १८ ॥

योगदं मोक्षदं चैव स्वर्गदं तोषदं तथा ।
एवमेतत् पठन्ते य एकभक्त्या तु शङ्करम् ॥ १९ ॥

या गतिः साङ्ख्ययोगानां व्रजन्त्येतां गतिं तदा ।
स्तवमेतं प्रयत्नेन सदा रुद्रस्य सन्निधौ ॥ २० ॥

अब्दमेकं चरेद्भक्तः प्राप्नुयादीप्सितं फलं ।
एतद्रहस्यं परमं ब्रह्मणो हृदि संस्थितम् ॥ २१ ॥

ब्रह्मा प्रोवाच शक्राय शक्रः प्रोवाच मृत्यवे ।
मृत्युः प्रोवाच रुद्रेभ्यो रुद्रेभ्यस्तण्डिमागमत् ॥ २२ ॥

महता तपसा प्राप्तस्तण्डिना ब्रह्मसद्मनि ।
तण्डिः प्रोवाच शुक्राय गौतमाय च भार्गवः ॥ २३ ॥

वैवस्वताय मनवे गौतमः प्राह माधव ।
नारायणाय साध्याय समाधिष्ठाय धीमते ॥ २४ ॥

यमाय प्राह भगवान् साध्यो नारायणोऽच्युतः ।
नाचिकेताय भगवान् आह वैवस्वतो यमः ॥ २५ ॥

मार्कण्डेयाय वार्ष्णेय नाचिकेतोऽभ्यभाषत ।
मार्कण्डेयान्मया प्राप्तं नियमेन जनार्दन ॥ २६ ॥

तवाप्यहं अमित्रघ्न स्तवं दद्यां ह्यविश्रुतं ।
स्वर्ग्यमारोग्यमायुष्यं धन्यं वेदेन सम्मितम् ॥ २७ ॥

नास्य विघ्नं विकुर्वन्ति दानवा यक्षराक्षसाः ।
पिशाचा यातुधानाश्च गुह्यका भुजगा अपि ॥ २८ ॥

यः पठेत शुचिर्भूत्वा ब्रह्मचारी जितेन्द्रियः ।
अभग्नयोगो वर्षं तु सोऽश्वमेधफलं लभेत् ॥ २९ ॥

इति श्रीमन्महाभारते आनुशासनिकपर्वणि श्री शिवसहस्रनामस्तोत्र रत्न कथनं नाम सप्तदशोऽध्यायः समाप्तः ॥

Facebook Comments

You may also like...

Leave a Reply

Your email address will not be published.

error: Not allowed
%d bloggers like this: