Sri Saraswathi Dvadasanama Stotram – श्री सरस्वती द्वादशनाम स्तोत्रम्


सरस्वती त्वयं दृष्ट्या वीणापुस्तकधारिणी ।
हंसवाह समायुक्ता विद्यादानकरी मम ॥ १ ॥

प्रथमं भारती नामा द्वितीयं च सरस्वती ।
तृतीयं शारदादेवी चतुर्थं हंसवाहना ॥ २ ॥

पञ्चमं जगतीख्यातं षष्ठं वागीश्वरी तथा ।
कौमारी सप्तमं प्रोक्तमष्टमं ब्रह्मचारिणी ॥ ३ ॥

नवमं बुद्धिधात्री च दशमं वरदायिनी ।
एकादशं क्षुद्रघण्टा द्वादशं भुवनेश्वरी ॥ ४ ॥

ब्राह्मी द्वादश नामानि त्रिसन्ध्यं यः पठेन्नरः ।
सर्वसिद्धिकरी तस्य प्रसन्ना परमेश्वरी ।
सा मे वसतु जिह्वाग्रे ब्रह्मरूपा सरस्वती ॥ ५ ॥


इतर श्री सरस्वती स्तोत्राणि पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed