Sri Sainatha Ashtakam – श्री सायिनाथ अष्टकम्


पत्रिग्राम समुद्भूतं द्वारकामायि वासिनम् ।
भक्ताभीष्टप्रदं देवं सायिनाथं नमाम्यहम् ॥ १ ॥

महोन्नत कुलेजातं क्षीराम्बुधि समे शुभे ।
द्विजराजं तमोघ्नं तं सायिनाथं नमाम्यहम् ॥ २ ॥

जगदुद्धारणार्थं यो नररूप धरो विभुः ।
योगिनं च महात्मानं सायिनाथं नमाम्यहम् ॥ ३ ॥

साक्षात्कारे जये लाभे स्वात्मारामो गुरोर्मुखात् ।
निर्मलं मम गात्रं च सायिनाथं नमाम्यहम् ॥ ४ ॥

यस्य दर्शन मात्रेण नश्यन्ति व्याधि कोटयः ।
सर्वे पापाः प्रणश्यन्ति सायिनाथं नमाम्यहम् ॥ ५ ॥

नरसिंहादि शिष्याणां ददौ योऽनुग्रहं गुरुः ।
भवबन्धापहर्तारं सायिनाथं नमाम्यहम् ॥ ६ ॥

धनाढ्यान् च दरिद्रान्यः समदृष्ट्येव पश्यति ।
करुणासागरं देवं सायिनाथं नमाम्यहम् ॥ ७ ॥

समाधिस्थोपि यो भक्त्या समतीर्थार्थदानतः ।
अचिन्त्य महिमानन्तं सायिनाथं नमाम्यहम् ॥ ८ ॥

इति श्री सायिनाथ अष्टकम् ॥


इतर श्री शिर्डी साईबाबा स्तोत्राणि पश्यतु ।


గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed