Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
पत्रिग्राम समुद्भूतं द्वारकामायि वासिनं
भक्ताभीष्टप्रदं देवं सायिनाथं नमाम्यहम् ॥ १ ॥
महोन्नत कुलेजातं क्षीराम्बुधि समे शुभे
द्विजराजं तमोघ्नं तं सायिनाथं नमाम्यहम् ॥ २ ॥
जगदुद्धारणार्थं यो नररूपधरो विभुः
योगिनं च महात्मानं सायिनाथं नमाम्यहम् ॥ ३ ॥
साक्षात्कारे जये लाभे स्वात्मारामो गुरोर्मुखात्
निर्मलं मम गात्रं च सायिनाथं नमाम्यहम् ॥ ४ ॥
यस्य दर्शन मात्रेण नश्यन्ति व्याधि कोटयः
सर्वे पापाः प्रणश्यन्ति सायिनाथं नमाम्यहम् ॥ ५ ॥
नरसिंहादि शिष्याणां ददौ योऽनुग्रहं गुरुः
भवबन्धापहर्तारं सायिनाथं नमाम्यहम् ॥ ६ ॥
धनाढ्यान् च दरिद्रान्यः समदृष्ट्येव पश्यति
करुणासागरं देवं सायिनाथं नमाम्यहम् ॥ ७ ॥
समाधिस्थोपि यो भक्त्या समतीर्थार्थदानतः
अचिन्त्य महिमानन्तं सायिनाथं नमाम्यहम् ॥ ८ ॥
గమనిక: "నవగ్రహ స్తోత్రనిధి" పుస్తకము తాయారుచేయుటకు ఆలోచన చేయుచున్నాము.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.