Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
रं रं रं रक्तवर्णं दिनकरवदनं तीक्ष्णदंष्ट्राकरालं
रं रं रं रम्यतेजं गिरिचलनकरं कीर्तिपञ्चादि वक्त्रम् ।
रं रं रं राजयोगं सकलशुभनिधिं सप्तभेतालभेद्यं
रं रं रं राक्षसान्तं सकलदिशयशं रामदूतं नमामि ॥ १ ॥
खं खं खं खड्गहस्तं विषज्वरहरणं वेदवेदाङ्गदीपं
खं खं खं खड्गरूपं त्रिभुवननिलयं देवतासुप्रकाशम् ।
खं खं खं कल्पवृक्षं मणिमयमकुटं माय मायास्वरूपं
खं खं खं कालचक्रं सकलदिशयशं रामदूतं नमामि ॥ २ ॥
इं इं इं इन्द्रवन्द्यं जलनिधिकलनं सौम्यसाम्राज्यलाभं
इं इं इं सिद्धियोगं नतजनसदयं आर्यपूज्यार्चिताङ्गम् ।
इं इं इं सिंहनादं अमृतकरतलं आदिअन्त्यप्रकाशं
इं इं इं चित्स्वरूपं सकलदिशयशं रामदूतं नमामि ॥ ३ ॥
सं सं सं साक्षिभूतं विकसितवदनं पिङ्गलाक्षं सुरक्षं
सं सं सं सत्यगीतं सकलमुनिनुतं शास्त्रसम्पत्करीयम् ।
सं सं सं सामवेदं निपुण सुललितं नित्यतत्त्वस्वरूपं
सं सं सं सावधानं सकलदिशयशं रामदूतं नमामि ॥ ४ ॥
हं हं हं हंसरूपं स्फुटविकटमुखं सूक्ष्मसूक्ष्मावतारं
हं हं हं अन्तरात्मं रविशशिनयनं रम्यगम्भीरभीमम् ।
हं हं हं अट्टहासं सुरवरनिलयं ऊर्ध्वरोमं करालं
हं हं हं हंसहंसं सकलदिशयशं रामदूतं नमामि ॥ ५ ॥
इति श्री रामदूत स्तोत्रम् ॥
ಗಮನಿಸಿ :"ಪ್ರಭಾತ ಸ್ತೋತ್ರನಿಧಿ" ಪುಸ್ತಕ ಬಿಡುಗಡೆಯಾಗಿದೆ ಮತ್ತು ಈಗ ಖರೀದಿಗೆ ಲಭ್ಯವಿದೆ. Click here to buy
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.