Sri Ramachandra Ashtakam – श्री रामचन्द्राष्टकम्


सुग्रीवमित्रं परमं पवित्रं
सीताकलत्रं नवमेघगात्रम् ।
कारुण्यपात्रं शतपत्रनेत्रं
श्रीरामचन्द्रं सततं नमामि ॥ १ ॥

संसारसारं निगमप्रचारं
धर्मावतारं हृतभूमिभारम् ।
सदाऽविकारं सुखसिन्धुसारं
श्रीरामचन्द्रं सततं नमामि ॥ २ ॥

लक्ष्मीविलासं जगतां निवासं
लङ्काविनाशं भुवनप्रकाशम् ।
भूदेववासं शरदिन्दुहासं
श्रीरामचन्द्रं सततं नमामि ॥ ३ ॥

मन्दारमालं वचने रसालं
गुणैर्विशालं हतसप्ततालम् ।
क्रव्यादकालं सुरलोकपालं
श्रीरामचन्द्रं सततं नमामि ॥ ४ ॥

वेदान्तगानं सकलैस्समानं
हृतारिमानं त्रिदशप्रधानम् ।
गजेन्द्रयानं विगतावसानं
श्रीरामचन्द्रं सततं नमामि ॥ ५ ॥

श्यामाभिरामं नयनाभिरामं
गुणाभिरामं वचनाभिरामम् ।
विश्वप्रणामं कृतभक्तकामं
श्रीरामचन्द्रं सततं नमामि ॥ ६ ॥

लीलाशरीरं रणरङ्गधीरं
विश्वैकसारं रघुवंशहारम् ।
गम्भीरवादं जितसर्ववादं
श्रीरामचन्द्रं सततं नमामि ॥ ७ ॥

खले कृतान्तं स्वजने विनीतं
सामोपगीतं मनसा प्रतीतम् ।
रागेण गीतं वचनादतीतं
श्रीरामचन्द्रं सततं नमामि ॥ ८ ॥

श्रीरामचन्द्रस्य वराष्टकं त्वां
मयेरितं देवि मनोहरं ये ।
पठन्ति शृण्वन्ति गृणन्ति भक्त्या
ते स्वीयकामान् प्रलभन्ति नित्यम् ॥ ९ ॥

इति श्रीरामचन्द्राष्टकम् ।

इति शतकोटिरामचरितान्तर्गते श्रीमदानन्दरामायणे वाल्मीकीये सारकाण्डे युद्धचरिते द्वादशसर्गान्तर्गतं श्रीरामाष्टकं समाप्तम् ॥


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed