Sri Pratyangira Suktam (Rigveda Variation 2) – श्री प्रत्यङ्गिरा सूक्तम् (ऋग्वेदीय पाठान्तरम् – २)


(ऋ.वे.खि.४.५)

यां क॒ल्पय᳚न्ति॒ नोऽर॑यः क्रू॒रां कृ॒त्यां व॒धूमि॑व ।
तां ब्र॑ह्म॒णाप॑ निर्णु॒द्मः प्रत्य॑क्क॒र्तार॑मृच्छतु ॥ १ ॥

शी॒र्ष॒ण्व॒तीं क॑र्णव॒तीं विषु॑रूपां भयंक॒रीम् ।
यः प्राहि॑णोदि॒हाद्य॒ त्वां वि तं त्वं यो᳚जया॒सुभि॑: ॥ २ ॥

येन॒ दिष्टे॒ह व॑हसि॒ प्रति॑कूलम॒घायि॑नि ।
तमे॒वेतो॒ निव॑र्तस्व॒ मास्मान् मृ॑च्छो॒ अना᳚गसः ॥ ३ ॥

अभि॒वर्त॑स्व क॒र्तारं॒ निर॑स्ता॒स्माभि॒रोज॑सा ।
आयु॑रस्य॒ निकृ॑न्तस्व प्र॒जां च॑ पुरु॒षादि॑नि ॥ ४ ॥

यस्त्वा᳚ कृ॒त्ये च॒कारे᳚ह॒ तं त्वं ग॑च्छ॒ पुन॒र्नवे᳚ ।
अरा᳚तीः कृत्ये नाशय॒ सर्वा᳚श्च यातुधा॒न्य॑: ॥ ५ ॥

क्षिप्रं᳚ कृत्ये॒ निव॑र्तस्व॒ कर्तु॑रे॒व गृ॒हान् प्र॑ति ।
पशूं᳚श्चै॒वास्य॑ नाशय वी॒रांश्चा᳚स्य॒ नि ब॑र्हय ॥ ६ ॥

यस्त्वा᳚ कृ॒त्ये प्रजि॑घाय वि॒द्वान् अवि॑दुषो॒ गृहान्॑ ।
तस्त्यै॒वेत॒: परे᳚त्या॒शु त॒नुं कृ॑धि॒ परु॑ष्परुः ॥ ७ ॥

प्र॒तीचीं᳚ त्वा॒पसे᳚धतु॒ ब्रह्म॑ रोचिष्ण्वमित्र॒हा ।
अ॒ग्निश्च॒ कृत्ये᳚ रक्षो॒हा रि॑प्र॒हा चाज॑ एक॒पात् ॥ ८ ॥

यथा॒ त्वाङ्गि॑रस॒: पूर्वे॒ भृग॑व॒श्चाप॑ सेधि॒रे ।
अत्र॑यश्च व॒सिष्ठा᳚श्च॒ तथै॒व त्वाप॑ सेधिम ॥ ९ ॥

यस्ते॒ प॑रूंषि॒ संद॑धौ॒ रथ॑स्येव वि॒भुर्धि॒या ।
तं ग॑च्छ॒ तत्र॒ तेऽय॑नम॒ज्ञात॑स्ते अ॒यं जन॑: ॥ १० ॥

यो न॑: कश्चिद्र॒णस्थो᳚ वा॒ कश्चि॑द्वा॒न्योऽभि॒ हिंस॑ति ।
तस्य॒ त्वं द्रोरि॑वेद्धो॒ऽग्निस्त॒नूमृ॑च्छस्व हेळि॒ता ॥ ११ ॥

भवा᳚ श॒र्वा दे॒वहे᳚ळिम॒स्यत॑ पाप॒कृत्व॑ने ।
हर॑स्वती॒ त्वं च॑ कृत्ये॒ मोच्छि॑ष॒स्तस्य॑ किंच॒न ॥ १२ ॥

यो न॒: कश्चि॒द्रुहा᳚रा॒तिर्मन॑सा॒ प्रतिभूष॑ति ।
दूर॑स्थो॒ वान्ति॑कस्थो वा तस्य॑ हृद्य॒मसृ॑क् पिब ॥ १३ ॥

येना᳚सि॒ कृत्ये॒ प्रहि॑ता दू॒ढ्ये᳚ना॒स्मज्जि॒घांस॑या ।
तस्य॑ व्या॒नच्चा᳚व्यानच्च हि॒नस्तु॒ हर॑सा॒शनि॑: ॥ १४ ॥

ये न॑: शि॒वास॒: पन्था᳚नः परा॒यन्ति॑ परा॒वत᳚म् ।
तैर्दे᳚वि॒ रात्र्या᳚: कृत्या॒ नो ग॒मय॑स्वानु॒कृत्त॑ये ॥ १५ ॥

यदि॒ वैषि॑ द्वि॒पद्य॒स्मान् यदि॑ वैषि॒ चतु॑ष्पदी ।
निर॑स्ते॒तो व्र॑जास्मा॒भिः कर्तु॑र॒ष्टाप॑दी गृ॒हान् ॥ १६ ॥

यो न॒: शपा॒दश॑पतो॒ यश्च॑ न॒: शप॑त॒: शपा᳚त् ।
वृ॒क्षमि॑व वि॒द्युदाशु॒ तमामू᳚ला॒दनु॑शोषय ॥ १७ ॥

यं द्वि॒ष्मो यश्च॑ नो॒ द्वेष्ट्यघा॒युर्यश्च॑ न॒: शपा᳚त् ।
शु॒ने पि॒ष्टमि॑व॒ क्षामं॒ तं प्रत्य॑स्य॒ स्वमृ॒त्यवे᳚ ॥ १८ ॥

यश्च॑ सापत्नः श॒पथो॒ यश्च॒ यामी᳚ श॒पाति॑ नः ।
ब्रह्मा᳚ च॒ यत्क्रु॒द्धः श॑पा॒त्सर्वं॒ तत्कृ॑ध्यधस्प॒दम् ॥ १९ ॥

सब᳚न्धु॒श्चाप्य॑बन्धु॒श्च यो अ॒स्मान् अभि॒दास॑ति ।
तस्य॒ त्वं भिन्द्य॑धि॒ष्ठाय॑ प॒दा विस्फू᳚र्य॒ तच्छि॑रः ॥ २० ॥

अ॒भि प्रेहि॑ सहस्रा॒क्षं यु॒क्त्वा तु॒ शप॑थं॒ रथे᳚ ।
शत्रू॒नन्वि॑च्छती॒ कृत्ये᳚ वृ॒कीवा᳚विम॒तो गृ॒हान् ॥ २१ ॥

परि॑ णो वृङ्धि श॒पथा॒न् दह॑न्न॒ग्निरि॑व ह्र॒दम् ।
शत्रू॒नेवा᳚भि॒तो ज॑हि दि॒व्या वृ॒क्षमि॑वा॒शनि॑: ॥ २२ ॥

श॒त्रून् मे᳚ प्रोथ श॒पथा᳚त् कृ॒त्याश्च॒ सुहृ॑दो॒ऽसुहृ॑त् ।
जि॒ह्माः श्ल॒क्ष्णाश्च॑ दु॒र्हृद॒: समि॑द्धं जा॒तवे᳚दसम् ॥ २३ ॥

अ॒स॒प॒त्नं पु॒रस्ता᳚न्नः शि॒वं द॑क्षिण॒तः कृ॑धि ।
अभ॑यं॒ सत॑तं प॒श्चाद्भ॒द्रमु॑त्तर॒तो गृ॒हे ॥ २४ ॥

परे᳚हि॒ कृत्ये॒ मा ति॑ष्ठ वि॒द्धस्ये᳚व प॒दं न॑य ।
मृग॑स्य॒ हि मृ॑गारि॒पो न त्वा॒ निक॑र्तुमर्हति ॥ २५ ॥

अ॒घ्न्यास्ये᳚व॒ घोर॑रूपे॒ विषु॑रूपे॒ऽविना᳚शिनि ।
जृम्भि॑ता॒ प्रति॑गृभ्णीष्व स्व॒यमा᳚दाय॒ चाद्भु॑तम् ॥ २६ ॥

त्वमि᳚न्द्रो य॒मो वरु॑ण॒स्त्वमापो॒ऽग्निर॑था॒निल॑: ।
त्वं ब्र॒ह्मा चैव॑ रुद्र॒श्च त्व॒ष्टा चै॑व प्र॒जाप॑तिः ॥ २७ ॥

आव॑र्त॒ध्वं निव॑र्तध्व॒मृत॑वः परिवत्स॒राः ।
अ॒हो॒रा॒त्राश्चा॒ब्दाश्च॒ त्वं दिश॑: प्र॒दिश॑श्च॒ मे ॥ २८ ॥

त्वं य॒मं वरु॑णं॒ सोमं॒ त्वमापो॒ऽग्निम॑था॒निलम्᳚ ।
अत्रा᳚हृ॒त्य प॑शूंश्चै॒वमु॒त्पाद॑यसि॒ चाद्भु॑तम् ॥ २९ ॥

ये मे॒ दमे॒ दारु॒गर्भे॒ शया᳚नं धि॒या सहि॑तं॒ पुरु॑षं॒ निज॑ह्रुः ।
कु॒म्भी॒पा॒कं नर॑कं ग्री॒वब॑द्धं ह॒ता ए॒वं पु॑रु॒षासो॒ यम॑स्य ॥ ३० ॥

अभ्य॑क्ता॒क्ता स्व॑लंकृ॒ता सर्वं᳚ नो दुरि॒तं द॑ह ।
जा॒नी॒थाश्चैव॑ कृत्या॒नां कर्तॄ॒न् नॄन् पा᳚पचे॒तस॑: ॥ ३१ ॥

यथा॒ हन्ति॑ पु॒रासी᳚नं॒ तथै॒वेष्वा᳚ सु॒कृन्नर॑: ।
तथा॒ त्वया᳚ यु॒जा व॒यं निकृ॑ण्म॒ स्थास्नु॑ जङ्ग॒मम् ॥ ३२ ॥

उत्ति॑ष्ठै॒व परे᳚हि॒तोऽज्ञा᳚ते॒ किमि॒हेच्छ॑सि ।
ग्री॒वास्ते᳚ कृत्ये॒ पादौ॒ चाभि॒ क॑र्त्स्यामि॒ विद्र॑व ॥ ३३ ॥

स्वा॒य॒सा॒: सन्ति॑ नो॒ऽसयो᳚ वि॒द्म चै᳚व परूं᳚षि ते ।
तैस्ते॒ निकृ॑ण्म॒स्तान्यु॑ग्रे॒ यदि॑ नो जी॒वय॒स्वरीन्॑ ॥ ३४ ॥

मास्यो॒च्छिषो᳚ द्वि॒पदं॒ मोत॒ किंचि॒च्च॒तुष्पद᳚म् ।
मा ज्ञा॒तीन॑नुजान्पूर्वान्मा वे᳚शि॒ प्रति॑वेशिनौ ॥ ३५ ॥

श॒त्रू॒य॒ता प्रहि॑तासि दू॒ढ्येनाभि॒ यथा॒यत॑: ।
तत॑स्तथा॒ त्वा नु॑दतु यो॒ऽयम॒न्तर्मयि॑ श्रितः ॥ ३६ ॥

ए॒वं त्वं॒ निकृ॑तास्मा॒भिर्ब्रह्म॒णा दे᳚वि सर्व॒शः ।
यथे॒तमाश्रि॑ता ग॒त्वा पाप॒दीनि॑व नो जहि ॥ ३७ ॥

यथा᳚ वि॒द्युद्ध॑तो वृ॒क्ष आमू᳚ल॒दानु॒ शुष्य॑ति ।
ए॒वं स प्र॑तिशुष्यतु॒ यो मे᳚ पा॒पं चिकी᳚र्षति ॥ ३८ ॥

यथा॒ प्रति॑शुको भू॒त्वा तमे॒व प्र॑ति॒धाव॑ति ।
पा॒पं तमे॒वं धा᳚वतु॒ यो मे᳚ पा॒पं चिकी᳚र्षति ॥ ३९ ॥

यो न॒: स्वो अर॑णो॒ यश्च॒ निष्ट्यो॒ जिघां᳚सति ।
दे॒वास्तं सर्वे᳚ धूर्वन्तु॒ ब्रह्म॒ वर्म॒ ममान्त॑रम् ॥ ४० ॥

उत्त्वा᳚ मन्दन्तु॒ स्तोमा᳚: कृणु॒ष्व राधो᳚ अद्रिवः ।
अव॑ ब्रह्म॒द्विषो᳚ जहि ॥ ४१ ॥

कुबे᳚र॒ ते मु॑खं रौद्रं न॒न्दिन्ना᳚नन्द॒माव॑ह ।
ज्वरमृ॒त्युभ॑यं घो॒रं वि॒श ना᳚शय॒ मे ज्व॑रम् ॥ ४२ ॥

यो मे᳚ क॒रोति॑ प्रद्वा॒रे यो गृ॒हे यो नि॒वेश॑ने ।
यो मे᳚ के॒शन॑खे कु॒र्यादञ्ज॒ने᳚ दन्त॒धाव॑ने ॥ ४३ ॥

प्रति॑सर॒ प्रति॑धाव कुमा॒रीव॑ पि॒तुर्गृ॑हान् ।
मू॒र्धान॑मेषां स्फोटय प॒दमे᳚षां कु॒ले कृ॑धि ॥ ४४ ॥

ये नो᳚ र॒यिं दु॑श्चरि॒तासो᳚ अग्ने ज॒ह्रुर्मर्ता᳚सो॒ अनृ॑तं॒ वद᳚न्तः ।
तेषां॒ वपूं᳚ष्य॒र्चिषा᳚ जातवेदः शु॒ष्कं न वृ॒क्षम॒भि सं द॑हस्व ॥ ४५ ॥

कृष्ण॑व॒र्णे म॑हद्रू॒पे बृ॒हत्क॑र्णे म॒हद्भ॑ये ।
देवि॑ दे॒वि म॑हादे॒वि म॒म श॑त्रून् वि॒नाश॑य ॥ ४६ ॥

खट् फ॑ट् ज॒हि म॑हाकृ॒त्ये वि॒धूमा᳚ग्निस॒मप्र॑भे ।
ज॒हि श॒त्रूंस्त्रि॑शूले॒न क्रु॒ध्यस्व॑ पिब॒ शोणि॑तम् ॥ ४७ ॥

ये द्रु॒ह्युरृ॒जवे॒ मह्य॑मग्ने क॒दाधियो᳚ दुर्म॒दा अश्म॑नासः ।
आब॒ध्यैता᳚न् शो॒चिषा᳚ विध्य॒ तन्तून्॑ वैवस्व॒तस्य॒ सद॑नं नयस्व ॥ ४८ ॥


గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed