Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
अस्य श्रीपञ्चवक्त्र हनुमत् हृदयस्तोत्रमन्त्रस्य भगवान् श्रीरामचन्द्र ऋषिः अनुष्टुप् छन्दः श्रीपञ्चवक्त्रहनुमान् देवता ओं बीजं रुद्रमूर्तये इति शक्तिः स्वाहा कीलकं श्रीपञ्चवक्त्रहनुमद्देवता प्रसादसिद्ध्यर्थे जपे विनियोगः ॥
करन्यासः –
ओं ह्रां अञ्जनासुताय अङ्गुष्ठाभ्यां नमः ।
ओं ह्रीं रुद्रमूर्तये तर्जनीभ्यां नमः ।
ओं ह्रूं वायुपुत्राय मध्यमाभ्यां नमः ।
ओं ह्रैं अग्निगर्भाय अनामिकाभ्यां नमः ।
ओं ह्रौं रामदूताय कनिष्ठिकाभ्यां नमः ।
ओं ह्रः पञ्चवक्त्रहनुमते करतलकरपृष्ठाभ्यां नमः ।
अङ्गन्यासः –
ओं ह्रां अञ्जनासुताय हृदयाय नमः ।
ओं ह्रीं रुद्रमूर्तये शिरसे स्वाहा ।
ओं ह्रूं वायुपुत्राय शिखायै वषट् ।
ओं ह्रैं अग्निगर्भाय कवचाय हुम् ।
ओं ह्रौं रामदूताय नेत्रत्रयाय वौषट् ।
ओं ह्रः पञ्चवक्त्रहनुमते अस्त्राय फट् ।
ओं भूर्भुवः स्वरोमिति दिग्बन्धः ॥
ध्यानम् –
ध्यायेद्बालदिवाकरद्युतिनिभं देवारिदर्पापहं
देवेन्द्रप्रमुखैः प्रशस्तयशसं देदीप्यमानं ऋचा ।
सुग्रीवादिसमस्तवानरयुतं सुव्यक्ततत्त्वप्रियं
संरक्तारुणलोचनं पवनजं पीताम्बरालङ्कृतम् ॥
हृदय स्तोत्रम् –
ओं नमो वायुपुत्राय पञ्चवक्त्राय ते नमः ।
नमोऽस्तु दीर्घबालाय राक्षसान्तकराय च ॥ १ ॥
वज्रदेह नमस्तुभ्यं शताननमदापह ।
सीतासन्तोषकरण नमो राघवकिङ्कर ॥ २ ॥
सृष्टिप्रवर्तक नमो महास्थित नमो नमः ।
कलाकाष्ठस्वरूपाय माससंवत्सरात्मक ॥ ३ ॥
नमस्ते ब्रह्मरूपाय शिवरूपाय ते नमः ।
नमो विष्णुस्वरूपाय सूर्यरूपाय ते नमः ॥ ४ ॥
नमो वह्निस्वरूपाय नमो गगनचारिणे ।
सर्वरम्भावनचर अशोकवननाशक ॥ ५ ॥
नमो कैलासनिलय मलयाचल संश्रय ।
नमो रावणनाशाय इन्द्रजिद्वधकारिणे ॥ ६ ॥
महादेवात्मक नमो नमो वायुतनूद्भव ।
नमः सुग्रीवसचिव सीतासन्तोषकारण ॥ ७ ॥
समुद्रोल्लङ्घन नमो सौमित्रेः प्राणदायक ।
महावीर नमस्तुभ्यं दीर्घबाहो नमो नमः ॥ ८ ॥
दीर्घबाल नमस्तुभ्यं वज्रदेह नमो नमः ।
छायाग्रहहर नमो वरसौम्यमुखेक्षण ॥ ९ ॥
सर्वदेवसुसंसेव्य मुनिसङ्घनमस्कृत ।
अर्जुनध्वजसंवास कृष्णार्जुनसुपूजित ॥ १० ॥
धर्मार्थकाममोक्षाख्य पुरुषार्थप्रवर्तक ।
ब्रह्मास्त्रबन्द्य भगवन् आहतासुरनायक ॥ ११ ॥
भक्तकल्पमहाभुज भूतभेतालनाशक ।
दुष्टग्रहहरानन्त वासुदेव नमोऽस्तु ते ॥ १२ ॥
श्रीरामकार्ये चतुर पार्वतीगर्भसम्भव ।
नमः पम्पावनचर ऋष्यमूककृतालय ॥ १३ ॥
धान्यमालीशापहर कालनेमिनिबर्हण ।
सुवर्चलाप्राणनाथ रामचन्द्रपरायण ॥ १४ ॥
नमो वर्गस्वरूपाय वर्णनीयगुणोदय ।
वरिष्ठाय नमस्तुभ्यं वेदरूप नमो नमः ॥ १५ ॥
नमस्तुभ्यं नमस्तुभ्यं भूयो भूयो नमाम्यहम् ।
इति ते कथितं देवि हृदयं श्रीहनूमतः ॥ १६ ॥
सर्वसम्पत्करं पुण्यं सर्वसौख्यविवर्धनम् ।
दुष्टभूतग्रहहरं क्षयापस्मारनाशनम् ॥ १७ ॥
यस्त्वात्मनियमो भक्त्या वायुसूनोः सुमङ्गलम् ।
हृदयं पठते नित्यं स ब्रह्मसदृशो भवेत् ॥ १८ ॥
अजप्तं हृदयं यो यः मन्त्रं जपति मानवः ।
स दुःखं शीघ्रमाप्नोति मन्त्रसिद्धिर्न जायते ॥ १९ ॥
सत्यं सत्यं पुनः सत्यं मन्त्रसिद्धिकरं परम् ।
इत्थं च कथितं पूर्वं साम्बेन स्वप्रियां प्रति ॥ २० ॥
महर्षेर्गौतमात् पूर्वं मया प्राप्तमिदं मुने ।
तन्मया प्रहितं सर्वं शिष्यवात्सल्यकारणात् ॥ २१ ॥
इति श्रीपराशरसंहितायां श्रीपराशरमैत्रेयसंवादे श्री पञ्चमुख हनुमत् हृदय स्तोत्रम् ॥
గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.