Sri Panchamukha Hanumath Panjaram – श्री पञ्चमुख हनुमत् पञ्जरम्


अस्य श्रीहनुमत्पञ्जरस्य ऋषिः श्रीरामचन्द्र भगवानिति च, छन्दोऽनुष्टुप् श्रीपञ्चवक्त्रहनुमान देवतेति च ह्रां बीजं स्वाहा शक्तिः प्रणवो कीलकं स्मृतः मन्त्रोक्त देवताप्रसादसिद्ध्यर्थे विनियोगः ॥

करन्यासः –
ओं ह्रां रामदूताय अङ्गुष्ठाभ्यां नमः ।
ओं ह्रीं वानरमुखाय तर्जनीभ्यां नमः ।
ओं ह्रूं वायुनन्दनाय मध्यमाभ्यां नमः ।
ओं ह्रैं नृसिंहमुखाय अनामिकाभ्यां नमः ।
ओं ह्रौं अञ्जनासूनवे कनिष्ठिकाभ्यां नमः ।
ओं ह्रः पराय करतलकरपृष्ठाभ्यां नमः ।

अङ्गन्यासः –
ओं ह्रां गरुडमुखाय हृदयाय नमः ।
ओं ह्रीं हरिमर्कटाय शिरसे स्वाहा ।
ओं ह्रूं क्रोडमुखाय शिखायै वषट् ।
ओं ह्रैं रामकार्यधुरन्धराय कवचाय हुम् ।
ओं ह्रौं अश्वमुखाय नेत्रत्रयाय वौषट् ।
ओं ह्रः सर्वराक्षसनाशनाय अस्त्राय फट् ।

ध्यानम् –
ध्यायेद्बालदिवाकरद्युतिनिभं देवारिदर्पापहं
देवेन्द्रप्रमुखैः प्रशस्तयशसं देदीप्यमानं ऋचा ।
सुग्रीवादिसमस्तवानरयुतं सुव्यक्ततत्त्वप्रियं
संरक्तारुणलोचनं पवनजं पीताम्बरालङ्कृतम् ॥

पञ्जरम् –
आदौ प्रणवमुच्चार्यं वन्दे हरिपदं ततः ।
उच्चार्य मर्कटपदं मर्कटायेति चोच्चरेत् ।
अग्निजायां समुच्चार्य द्वादशार्णो महामनुः ।
(ओं हरिमर्कट मर्कटाय स्वाहा)
शिरः पातु मम सदा सर्वसौख्यप्रदायकः ॥ १ ॥

आदौ प्रणवमुच्चार्य कपिबीजं ततोच्चरेत् ।
नृसिंहबीजमुच्चार्य गारुडं च समुच्चरेत् ।
वराहबीजमुच्चार्य हयग्रीवं ततोच्चरेत् ।
नमः पदं ततोच्चार्य स पञ्चास्य महाकपेः ।
चतुर्दशार्णमन्त्रोऽयं मुखं पायात् सदा मम ॥ २ ॥

आदौ प्रणवमुच्चार्य नमो भगवते पदम् ।
पञ्चवदनाय चोच्चार्य पूर्वमुखेति चोच्चरेत् ।
वानरं बीजमुच्चार्य कपिमुखाय चोच्चरेत् ।
सर्वशत्रुहरायेति महाबलाय चोच्चरेत् ।
अग्निजायां ततोच्चार्य सप्तत्रिंशाक्षराभिधः ।
कण्ठं मम सदा पातु सर्वशत्रुविनाशकः ॥ ३ ॥

उच्चार्यं प्रणवं चादौ नमो भगवतेति च ।
नारसिंह महाबीज करालपदमुच्चरेत् ।
नृसिंहाय पदं चोक्त्वा सकलभूतप्रेत च ।
पिशाचब्रह्मराक्षसप्रमथनाय पदं वदेत् ।
अग्निजायां ततोच्चार्य वसु वेदार्णको मनुः ।
हृदयं मे सदा पातु सर्वशत्रुविनाशकः ॥ ४ ॥

ओं नमो भगवतेति पञ्चवदनाय ततः ।
पश्चिममुखेति चोच्चार्य गारुडं बीजमुच्चरेत् ।
वीरगरुडाय महाबलायेति पदं ततः ।
सर्वनागप्रमथनायान्ते सकलविषेति ।
हराय स्वाहा त्वं ततः वेदाभ्यक्षरसम्युतः ।
हनुमन्ममोदरं पातु सर्वरोगनिबर्हणः ॥ ५ ॥

ओं नमो भगवतेति पञ्चवदनाय ततः ।
उत्तरमुखे चोच्चार्य क्रोडवाग्बीजमुच्चरेत् ।
आदिवाराह सर्वसम्पत्प्रदाय निधि भूमि च ।
प्रदाय पश्चाज्ज्वरेति रोगनिकृन्तन स्वाहा ।
नाभिं पातु मम सदा सुखसौभाग्य हेतुकः ।
नेत्र बाणार्णको मनोः पश्चात्प्रणवमुच्चरेत् ॥ ६ ॥

ओं नमो भगवते पञ्चवदनाय पदं ततः ।
ऊर्ध्वमुखेत्यन्ते हयबीजं ततः परम् ।
हयग्रीवाय सकलप्रदाय सकलेति च ।
जनवशीकरणाय सकल दानवान्तकाय ।
पश्चात् प्राज्ञाय स्वाहेति षट्पञ्चाशद्वर्णको मनुः ।
मम जानुद्वयं पातु सर्व राक्षसनाशकः ॥ ७ ॥

ओं च ह्रीमित्ययं चोक्त्वा नमो भगवते ततः ।
ब्रह्मास्त्रसंहारकाय राक्षसकुलनाशयेति ।
पताक हनुमतेति मायाबीजत्रयं ततः ।
क्रोडास्त्र वह्निजायां तं मनुः पादद्वयं मम ॥ ८ ॥

ह्रां नमः पञ्चवक्त्राय नाभिदेशं सदा मम ।
ह्रीं नमः पञ्चवक्त्राय पातु जङ्घद्वयं मम ।
ह्रूं नमः पञ्चवक्त्राय पातु जानुद्वयं मम ।
ह्रैं नमः पञ्चवक्त्राय पादद्वन्द्वं सदाऽवतु ।
ह्रौं नमः पञ्चवक्त्राय कटिदेशं सदाऽवतु ।
ह्रः नमः पञ्चवक्त्राय चोदरं पातु सर्वदा ॥ ९ ॥

ऐं नमः पञ्चवक्त्राय हृदयं पातु सर्वदा ।
क्लां नमः पञ्चवक्त्राय बाहुयुग्मं सदावतु ।
क्लीं नमः पञ्चवक्त्राय करयुग्मं सदा मम ।
क्लूं नमः पञ्चवक्त्राय कण्ठदेशं सदाऽवतु ।
क्लैं नमः पञ्चवक्त्राय चुबुकं मे सदाऽवतु ।
क्लौं नमः पञ्चवक्त्राय पातु चोष्ठद्वयं मम ।
क्लः नमः पञ्चवक्त्राय नेत्रयुग्मं सदावतु ॥ १० ॥

रां नमः पञ्चवक्त्राय शोत्रयुग्मं सदावतु ।
रीं नमः पञ्चवक्त्राय फालं पातु महाबलः ।
रूं नमः पञ्चवक्त्राय शिरः पायात् सदा मम ।
रैं नमः पञ्चवक्त्राय शिखां मम सदाऽवतु ।
रौं नमः पञ्चवक्त्राय मूर्धानं पातु सर्वदा ।
रः नमः पञ्चवक्त्राय मुखं पातु सदा मम ॥ ११ ॥

क्ष्रां नमः पञ्चवक्त्राय श्रोत्रयुग्मं सदाऽवतु ।
क्ष्रीं नमः पञ्चवक्त्राय नेत्रयुग्मं सदा मम ।
क्ष्रूं नमः पञ्चवक्त्राय पातु चोष्ठद्वयं मम ।
क्ष्रैं नमः पञ्चवक्त्राय भ्रूयुग्मं पातु सर्वदा ।
क्ष्रौं नमः पञ्चवक्त्राय नासिकां पातु सर्वदा ।
क्षः नमः पञ्चवक्त्राय कण्ठं पातु कपीश्वरः ॥ १२ ॥

ग्लां नमः पञ्चवक्त्राय पातु वक्षस्थलं मम ।
ग्लीं नमः पञ्चवक्त्राय बाहुयुग्मं सदा मम ।
ग्लूं नमः पञ्चवक्त्राय करयुग्मं सदाऽवतु ।
ग्लैं नमः पञ्चवक्त्राय मम पातु वलित्रयम् ।
ग्लौं नमः पञ्चवक्त्राय चोरदं पातु सर्वदा ।
ग्लः नमः पञ्चवक्त्राय नाभिं पातु सदा मम ॥ १३ ॥

आं नमः पञ्चवक्त्राय वानराय कटिं मम ।
ईं नमः पञ्चवक्त्राय ऊरुयुग्मं सदाऽवतु ।
ऊं नमः पञ्चवक्त्राय जानुद्वन्द्वं सदा मम ।
ऐं नमः पञ्चवक्त्राय गुल्फद्वन्द्वं सदाऽवतु ।
औं नमः पञ्चवक्त्राय पादद्वन्द्वं सदाऽवतु ।
अः नमः पञ्चवक्त्राय सर्वाङ्गानि सदाऽवतु ॥ १४ ॥

वानरः पूर्वतः पातु दक्षिणे नरकेसरिः ।
प्रतीच्यां पातु गरुड उत्तरे पातु सूकरः ।
ऊर्ध्वं हयाननः पातु सर्वतः पातु मृत्युहा ॥ १५ ॥

वानरः पूर्वतः पातु आग्नेय्यां वायुनन्दनः ।
दक्षिणे पातु हनुमान् निरृते केसरीप्रियः ॥ १६ ॥

प्रतीच्यां पातु दैत्यारिः वायव्यां पातु मङ्गलः ।
उत्तरे रामदासस्तु निम्नं युद्धविशारदः ॥ १७ ॥

ऊर्ध्वे रामसखः पातु पाताले च कपीश्वरः ।
सर्वतः पातु पञ्चास्यः सर्वरोगनिकृन्तनः ॥ १८ ॥

हनुमान् पूर्वतः पातु दक्षिणे पवनात्मजः ।
पातु प्रतीचिमक्षघ्नो उदीच्यां सागरतारकः ॥ १९ ॥

ऊर्ध्वं केसरीनन्दनः पात्वधस्ताद्विष्णुभक्तः ।
पातु मध्यप्रदेशे तु सर्वलङ्काविदाहकः ।
एवं सर्वतो मां पातु पञ्चवक्त्रः सदा कपिः ॥ २० ॥

सुग्रीवसचिवः पातु मस्तकं मम सर्वदा ।
वायुनन्दनः फालं मे महावीरः भ्रूमध्यमम् ॥ २१ ॥

नेत्रे छायापहारी च पातु श्रोत्रे प्लवङ्गमः ।
कपोलौ कर्णमूले च पातु श्रीरामकिङ्करः ॥ २२ ॥

नासाग्रमञ्जनासूनुः पातु वक्त्रः हरीश्वरः ।
पातु कण्ठं च दैत्यारिः स्कन्धौ पातु सुरार्चितः ॥ २३ ॥

जानौ पातु महातेजः कूर्परौ चरणायुधः ।
नखान् नखायुधः पातु कक्षं पातु कपीश्वरः ॥ २४ ॥

सीताशोकापहारी तु स्तनौ पातु निरन्तरम् ।
लक्ष्मणप्राणदाताऽसौ कुक्षि पात्वनिशं मम ॥ २५ ॥

वक्षौ मुद्रापहारी च पातु पार्श्वे भुजायुधः ।
लङ्खिणीभञ्जनः पातु पृष्ठदेशे निरन्तरम् ॥ २६ ॥

नाभिं च रामदासस्तु कटिं पात्वनिलात्मजः ।
गुह्यं पातु महाप्राज्ञः सन्धौ पातु शिवप्रियः ॥ २७ ॥

ऊरू च जानुनी पातु लङ्काप्रासादभञ्जनः ।
जङ्घौ पातु कपिश्रेष्ठः गुल्फौ पातु महाबलः ॥ २८ ॥

अचलोद्धारकः पातु पादौ भास्करसन्निभः ।
अङ्गान्यमितसत्वाढ्यः पातु पादाङ्गुलिः सदा ॥ २९ ॥

सर्वाङ्गानि महाशूरः पातु मां रोमवान् सदा ।
भार्यां पातु महातेजः पुत्रान् पातु नखायुधः ॥ ३० ॥

पशून् पञ्चाननः पातु क्षेत्रं पातु कपीश्वरः ।
बन्धून् पातु रघुश्रेष्ठः दासः पवनसम्भवः ।
सीता शोकापहारी सः गृहान् मम सदाऽवतु ॥ ३१ ॥

हनूमत् पञ्जरं यस्तु पठेद्विद्वान् विचक्षणः ।
स एष पुरुषश्रेष्ठो भक्ति मुक्तिं च विन्दति ॥ ३२ ॥

कालत्रयेऽप्येककाले पठेन्मासत्रयं नरः ।
सर्वशत्रून् क्षणे जित्वा स्वयं च विजयी भवेत् ॥ ३३ ॥

अर्धरात्रौ जले स्थित्वा सप्तवारं पठेद्यदि ।
क्षयापस्मार कुष्ठादि तापज्वरनिवारणम् ॥ ३४ ॥

अर्कवारेऽश्वत्थमूले स्थित्वा पठति यः पुमान् ।
स पुमान् श्रियमाप्नोति सङ्ग्रामे विजयी भवेत् ॥ ३५ ॥

अनेन मन्त्रितं चापि यः पिबेत् रोगपीडितः ।
स नरो रोगनिर्मुक्तः सुखी भवति निश्चयः ॥ ३६ ॥

यो नित्यं ध्यायेद्यस्तु सर्वमन्त्रविनिर्मितम् ।
तं दृष्ट्वा देवताः सर्वे नमस्यन्ति कपीश्वरम् ॥ ३७ ॥

राक्षसास्तु पलायन्ते भूता धावन्ति सर्वतः ।
इदं पञ्जरमज्ञात्वा यो जपन्मन्त्रनायकम् ॥ ३८ ॥

न शीघ्रं फलमाप्नोति सत्यं सत्यं मयोदितम् ।
त्रिकालमेककालं वा पञ्जरं धारयेच्छुभम् ॥ ३९ ॥

पञ्जरं विधिवज्जप्त्वा स्तोत्रैः वेदान्तसम्मितैः ।
तोषयेदञ्जनासूनुं सर्वराक्षसमर्दनम् ॥ ४० ॥

इतीदं पञ्जरं यस्तु पञ्चवक्त्रहनूमतः ।
धारयेत् श्रावयेद्वापि कृतकृत्यो भवेन्नरः ॥ ४१ ॥

इति श्रीपराशरसंहितायां श्रीपराशरमैत्रेयसंवादे श्री पञ्चमुख हनुमत् पञ्जरं नाम चतुः सप्ततितमः पटलः ।


గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed