Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
ध्यायामि नारसिंहाख्यं ब्रह्मवेदान्तगोचरम् ।
भवाब्धितरणोपायं शङ्खचक्रधरं पदम् ॥
नीलां रमां च परिभूय कृपारसेन
स्तम्भे स्वशक्तिमनघां विनिधाय देवीम् ।
प्रह्लादरक्षणविधायवती कृपा ते
श्रीनारसिंह परिपालय मां च भक्तम् ॥ १ ॥
इन्द्रादिदेवनिकरस्य किरीटकोटि-
-प्रत्युप्तरत्नप्रतिबिम्बितपादपद्म ।
कल्पान्तकालघनगर्जनतुल्यनाद
श्रीनारसिंह परिपालय मां च भक्तम् ॥ २ ॥
प्रह्लाद ईड्य प्रलयार्कसमानवक्त्र
हुङ्कारनिर्जितनिशाचरबृन्दनाथ ।
श्रीनारदादिमुनिसङ्घसुगीयमान
श्रीनारसिंह परिपालय मां च भक्तम् ॥ ३ ॥
रात्रिञ्चराद्रिजठरात्परिस्रंस्यमान
रक्तं निपीय परिकल्पितसान्त्रमाल ।
विद्राविताऽखिलसुरोग्रनृसिंहरूप
श्रीनारसिंह परिपालय मां च भक्तम् ॥ ४ ॥
योगीन्द्र योगपरिरक्षक देवदेव
दीनार्तिहारि विभवागम गीयमान ।
मां वीक्ष्य दीनमशरण्यमगण्यशील
श्रीनारसिंह परिपालय मां च भक्तम् ॥ ५ ॥
प्रह्लादशोकविनिवारण भद्रसिंह
नक्तञ्चरेन्द्र मदखण्डन वीरसिंह ।
इन्द्रादिदेवजनसन्नुतपादपद्म
श्रीनारसिंह परिपालय मां च भक्तम् ॥ ६ ॥
तापत्रयाब्धिपरिशोषणबाडबाग्ने
ताराधिपप्रतिनिभानन दानवारे ।
श्रीराजराजवरदाखिललोकनाथ
श्रीनारसिंह परिपालय मां च भक्तम् ॥ ७ ॥
ज्ञानेन केचिदवलम्ब्य पदाम्बुजं ते
केचित् सुकर्मनिकरेण परे च भक्त्या ।
मुक्तिं गताः खलु जना कृपया मुरारे
श्रीनारसिंह परिपालय मां च भक्तम् ॥ ८ ॥
नमस्ते नारसिंहाय नमस्ते मधुवैरिणे ।
नमस्ते पद्मनेत्राय नमस्ते दुःखहारिणे ॥
इति श्री नृसिंहाष्टकम् ।
గమనిక: "శ్రీ కాళికా స్తోత్రనిధి" విడుదల చేశాము. కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.