Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
प्रह्लादवरदं श्रेष्ठं राज्यलक्ष्म्या समन्वितम् ।
पुत्रार्थं प्रार्थये देवं मट्टपल्याधिपं हरिम् ॥ १ ॥
भरद्वाज हृदयान्ते वासिनं वासवानुजम् ।
पुत्रार्थं प्रार्थये देवं मट्टपल्याधिपं हरिम् ॥ २ ॥
सुश्रोण्या पूजितं नित्यं सर्वकामदुघं हरिम् ।
पुत्रार्थं प्रार्थये देवं मट्टपल्याधिपं हरिम् ॥ ३ ॥
महायज्ञस्वरूपं तं गुहायां नित्यवासिनम् ।
पुत्रार्थं प्रार्थये देवं मट्टपल्याधिपं हरिम् ॥ ४ ॥
कृष्णातीरविहारं तं कृष्णां रक्षितवान् स्वयम् ।
पुत्रार्थं प्रार्थये देवं मट्टपल्याधिपं हरिम् ॥ ५ ॥
यममोहितक्षेत्रेऽस्मिन् नित्यवासप्रियं परम् ।
पुत्रार्थं प्रार्थये देवं मट्टपल्याधिपं हरिम् ॥ ६ ॥
चक्रिणा पूजितं सम्यक् चक्रिणं सर्वतोमुखम् ।
पुत्रार्थं प्रार्थये देवं मट्टपल्याधिपं हरिम् ॥ ७ ॥
योगानन्दं नित्यानन्दं निगमागमसेवितम् ।
पुत्रार्थं प्रार्थये देवं मट्टपल्याधिपं हरिम् ॥ ८ ॥
श्रीनृसिंहं हृदि ध्यात्वा मुक्कूर् नृहरिणा कृतम् ।
ये पठन्त्यष्टकं नित्यं इष्टप्राप्तिर्भविष्यति ॥ ९ ॥
इति श्रीमुक्कूर् लक्ष्मीनृसिंहस्वामिना अनुगृहीतं पुत्रप्राप्तिकरं नाम श्री मट्टपल्लि नृसिंहाष्टकम् ॥
इतर श्री नृसिंह स्तोत्राणि पश्यतु |
గమనిక (15-May) : "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" ప్రింటింగు పూర్తి అయినది. కొనుగోలు చేయుటకు ఈ లింకు క్లిక్ చేయండి - Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.