Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
शिवा भवानी कल्याणी गौरी काली शिवप्रिया ।
कात्यायनी महादेवी दुर्गाऽऽर्या चण्डिका भवा ॥ १ ॥
चन्द्रचूडा चन्द्रमुखी चन्द्रमण्डलवासिनी ।
चन्द्रहासकरा चन्द्रहासिनी चन्द्रकोटिभा ॥ २ ॥
चिद्रूपा चित्कला नित्या निर्मला निष्कला कला ।
भव्या भवप्रिया भव्यरूपिणी कलभाषिणी ॥ ३ ॥
कविप्रिया कामकला कामदा कामरूपिणी ।
कारुण्यसागरा काली संसारार्णवतारका ॥ ४ ॥
दूर्वाभा दुष्टभयदा दुर्जया दुरितापहा ।
ललिता राज्यदा सिद्धा सिद्धेशी सिद्धिदायिनी ॥ ५ ॥
शर्मदा शान्तिरव्यक्ता शङ्खकुण्डलमण्डिता ।
शारदा शाङ्करी साध्वी श्यामला कोमलाकृतिः ॥ ६ ॥
पुष्पिणी पुष्पबाणाम्बा कमला कमलासना ।
पञ्चबाणस्तुता पञ्चवर्णरूपा सरस्वती ॥ ७ ॥
पञ्चमी परमा लक्ष्मीः पावनी पापहारिणी ।
सर्वज्ञा वृषभारूढा सर्वलोकवशङ्करी ॥ ८ ॥
सर्वस्वतन्त्रा सर्वेशी सर्वमङ्गलकारिणी ।
निरवद्या नीरदाभा निर्मला निश्चयात्मिका ॥ ९ ॥
निर्मदा नियताचारा निष्कामा निगमालया ।
अनादिबोधा ब्रह्माणी कौमारी गुरुरूपिणी ॥ १० ॥
वैष्णवी समयाचारा कौलिनी कुलदेवता ।
सामगानप्रिया सर्ववेदरूपा सरस्वती ॥ ११ ॥
अन्तर्यागप्रियाऽऽनन्दा बहिर्यागपरार्चिता ।
वीणागानरसानन्दा चार्धोन्मीलितलोचना ॥ १२ ॥
दिव्यचन्दनदिग्धाङ्गी सर्वसाम्राज्यरूपिणी ।
तरङ्गीकृतस्वापाङ्गवीक्षारक्षितसज्जना ॥ १३ ॥
सुधापानसमुद्वेलहेलामोहितधूर्जटिः ।
मतङ्गमुनिसम्पूज्या मतङ्गकुलभूषणा ॥ १४ ॥
मकुटाङ्गदमञ्जीरमेखलादामभूषिता ।
ऊर्मिकाकिङ्किणीरत्नकङ्कणादिपरिष्कृता ॥ १५ ॥
मल्लिकामालतीकुन्दमन्दाराञ्चितमस्तका ।
ताम्बूलकवलोदञ्चत्कपोलतलशोभिनी ॥ १६ ॥
त्रिमूर्तिरूपा त्रैलोक्यसुमोहनतनुप्रभा ।
श्रीमच्चक्राधिनगरीसाम्राज्यश्रीस्वरूपिणी ॥ १७ ॥
इदं नाम्नां साष्टशतं ललितायाः मतिप्रदम् ।
विद्याधनयशः कामपूर्तिदं सर्वमङ्गलम् ॥ १८ ॥
इति श्रीललिताष्टोत्तरशतनामस्तोत्रम् ।
గమనిక: "శ్రీ కాళికా స్తోత్రనిధి" విడుదల చేశాము. కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.