Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
ब्रह्मज्ञा ब्रह्मसुखदा ब्रह्मण्या ब्रह्मरूपिणी ।
सुमतिः सुभगा सुन्दा प्रयतिर्नियतिर्यतिः ॥ १ ॥
सर्वप्राणस्वरूपा च सर्वेन्द्रियसुखप्रदा ।
संविन्मयी सदाचारा सदातुष्टा सदानता ॥ २ ॥
कौमुदी कुमुदानन्दा कुः कुत्सिततमोहरी ।
हृदयार्तिहरी हारशोभिनी हानिवारिणी ॥ ३ ॥
सम्भाज्या संविभज्याऽऽज्ञा ज्यायसी जनिहारिणी ।
महाक्रोधा महातर्षा महर्षिजनसेविता ॥ ४ ॥
कैटभारिप्रिया कीर्तिः कीर्तिता कैतवोज्झिता ।
कौमुदी शीतलमनाः कौसल्यासुतभामिनी ॥ ५ ॥
कासारनाभिः का ता याऽऽप्येषेयत्ताविवर्जिता । [सा]
अन्तिकस्थाऽतिदूरस्था हृदयस्थाऽम्बुजस्थिता ॥ ६ ॥
मुनिचित्तस्थिता मौनिगम्या मान्धातृपूजिता ।
मतिस्थिरीकर्तृकार्यनित्यनिर्वहणोत्सुका ॥ ७ ॥
महीस्थिता च मध्यस्था द्युस्थिताऽधःस्थितोर्ध्वगा ।
भूतिर्विभूतिः सुरभिः सुरसिद्धार्तिहारिणी ॥ ८ ॥
अतिभोगाऽतिदानाऽतिरूपाऽतिकरुणाऽतिभाः ।
विज्वरा वियदाभोगा वितन्द्रा विरहासहा ॥ ९ ॥
शूर्पकारातिजननी शून्यदोषा शुचिप्रिया ।
निःस्पृहा सस्पृहा नीलासपत्नी निधिदायिनी ॥ १० ॥
कुम्भस्तनी कुन्दरदा कुङ्कुमालेपिता कुजा ।
शास्त्रज्ञा शास्त्रजननी शास्त्रज्ञेया शरीरगा ॥ ११ ॥
सत्यभाः सत्यसङ्कल्पा सत्यकामा सरोजिनी ।
चन्द्रप्रिया चन्द्रगता चन्द्रा चन्द्रसहोदरी ॥ १२ ॥
औदर्यौपयिकी प्रीता गीता चौता गिरिस्थिता ।
अनन्विताऽप्यमूलार्तिध्वान्तपुञ्जरविप्रभा ॥ १३ ॥
मङ्गला मङ्गलपरा मृग्या मङ्गलदेवता ।
कोमला च महालक्ष्मीः नाम्नामष्टोत्तरं शतम् ॥ १४ ॥
सर्वपापक्षयकरं सर्वशत्रुविनाशनम् ।
दारिद्र्यध्वंसनकरं पराभवनिवर्तकम् ॥ १५ ॥
शतसंवत्सरं विंशत्युत्तरं जीवितं भवेत् ।
मङ्गलानि तनोत्येषा श्रीविद्यामङ्गला शुभा ॥ १६ ॥
इति नारदीयोपपुराणान्तर्गतं श्री लक्ष्म्यष्टोत्तरशतनाम स्तोत्रम् ।
इतर श्री लक्ष्मी स्तोत्राणि पश्यतु । इतर १०८, ३००, १००० नामावल्यः पश्यतु ।
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.