Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
त्वामतीन्द्रियमव्यक्तमक्षरं निर्गुणं विभुम् ।
ध्यानासाध्यं च सर्वेषां परमात्मानमीश्वरम् ॥ १ ॥
स्वेच्छामयं सर्वरूपं स्वेच्छारूपधरं परम् ।
निर्लिप्तं परमं ब्रह्म बीजरूपं सनातनम् ॥ २ ॥
स्थूलात् स्थूलतरं प्राप्तमतिसूक्ष्ममदर्शनम् ।
स्थितं सर्वशरीरेषु साक्षिरूपमदृश्यकम् ॥ ३ ॥
शरीरवन्तं सगुणमशरीरं गुणोत्करम् ।
प्रकृतेः प्रकृतीशं च प्राकृतं प्रकृतेः परम् ॥ ४ ॥
सर्वेशं सर्वरूपं च सर्वान्तकरमव्ययम् ।
सर्वाधारं निराधारं निर्व्यूहं स्तौमि किं विभुम् ॥ ५ ॥
अनन्तः स्तवनेऽशक्तोऽशक्ता देवी सरस्वती ।
यं वा स्तोतुमशक्तश्च पञ्चवक्त्रः षडाननः ॥ ६ ॥
चतुर्मुखो वेदकर्ता यं स्तोतुमक्षमः सदा ।
गणेशो न समर्थश्च योगीन्द्राणां गुरोर्गुरुः ॥ ७ ॥
ऋषयो देवताश्चैव मुनीन्द्रमनुमानवाः ।
स्वप्ने तेषामदृश्यं च त्वामेवं किं स्तुवन्ति ते ॥ ८ ॥
श्रुतयः स्तवनेऽशक्ताः किं स्तुवन्ति विपश्चितः ।
विहायैवं शरीरं च बालो भवितुमर्हसि ॥ ९ ॥
वसुदेवकृतं स्तोत्रं त्रिसन्ध्यं यः पठेन्नरः ।
भक्तिं दास्यमवाप्नोति श्रीकृष्णचरणाम्बुजे ॥ १० ॥
विशिष्टपुत्रं लभते हरिदासं गुणान्वितम् ।
सङ्कटं निस्तरेत्तूर्णं शत्रुभीतेः प्रमुच्यते ॥ ११ ॥
इति श्रीब्रह्मवैवर्तमहापुराणे श्रीकृष्णजन्मखण्डे सप्तमोऽध्याये वसुदेवकृत श्री कृष्ण स्तोत्रम् ।
इतर श्री कृष्ण स्तोत्राणि पश्यतु ।
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.