Sri Krishna Kavacham – श्री कृष्ण कवचम्


प्रणम्य देवं विप्रेशं प्रणम्य च सरस्वतीम् ।
प्रणम्य च मुनीन् सर्वान् सर्वशास्त्र विशारदान् ॥ १ ॥

श्रीकृष्ण कवचं वक्ष्ये श्रीकीर्तिविजयप्रदम् ।
कान्तारे पथि दुर्गे च सदा रक्षाकरं नृणाम् ॥ २ ॥

स्मृत्वा नीलाम्बुदश्यामं नीलकुञ्चित कुन्तलम् ।
बर्हिपिञ्छलसन्मौलिं शरच्चन्द्रनिभाननम् ॥ ३ ॥

राजीवलोचनं राजद्वेणुनाभूषिताधरम् ।
दीर्घपीनमहाबाहुं श्रीवत्साङ्कितवक्षसम् ॥ ४ ॥

भूभारहरणोद्युक्तं कृष्णं गीर्वाणवन्दितम् ।
निष्कलं देवदेवेशं नारदादिभिरर्चितम् ॥ ५ ॥

नारायणं जगन्नाथं मन्दस्मित विराजितम् ।
जपेदेवमिमं भक्त्या मन्त्रं सर्वार्थसिद्धये ॥ ६ ॥

सर्वदोषहरं पुण्यं सकलव्याधिनाशनम् ।
वसुदेवसुतः पातु मूर्धानं मम सर्वदा ॥ ७ ॥

ललाटं देवकीसूनुः भ्रूयुग्मं नन्दनन्दनः ।
नयनौ पूतनाहन्ता नासां शकटमर्दनः ॥ ८ ॥

यमलार्जुनहृत्कर्णौ कपोलौ नगमर्दनः ।
दन्तान् गोपालकः पातु जिह्वां हय्यङ्गवीणधृत् ॥ ९ ॥ [*भुक्*]

ओष्ठं धेनुकजित्पायादधरं केशिनाशनः ।
चिबुकं पातु गोविन्दो बलदेवानुजो मुखम् ॥ १० ॥

अक्रूरसहितः कण्ठं कक्षौ दन्तिवरान्तकः ।
भुजौ चाणूरहारिर्मे करौ कंसनिषूदनः ॥ ११ ॥

वक्षो लक्ष्मीपतिः पातु हृदयं जगदीश्वरः ।
उदरं मधुरानाथो नाभिं द्वारवतीपतिः ॥ १२ ॥

रुक्मिणीवल्लभः पृष्ठं जघनं शिशुपालहा ।
ऊरू पाण्डवदूतो मे जानुनी पार्थसारथिः ॥ १३ ॥

विश्वरूपधरो जङ्घे प्रपदे भूमिभारहृत् ।
चरणौ यादवः पातु पातु कृष्णोऽखिलं वपुः ॥ १४ ॥

दिवा पायाज्जगन्नाथो रात्रौ नारायणः स्वयम् ।
सर्वकालमुपासीनः सर्वकामार्थसिद्धये ॥ १५ ॥

इदं कृष्णबलोपेतं यः पठेत् कवचं नरः ।
सर्वदाऽऽर्तिभयान्मुक्तः कृष्णभक्तिं समाप्नुयात् ॥ १६ ॥

इति श्री कृष्ण कवचम् ।


इतर श्री कृष्ण स्तोत्राणि पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed