Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
अगस्त्य उवाच ।
नमोऽस्तु बृन्दारकबृन्दवन्द्य-
-पादारविन्दाय सुधाकराय ।
षडाननायामितविक्रमाय
गौरीहृदानन्दसमुद्भवाय ॥ १ ॥
नमोऽस्तु तुभ्यं प्रणतार्तिहन्त्रे
कर्त्रे समस्तस्य मनोरथानाम् ।
दात्रे रथानां परतारकस्य
हन्त्रे प्रचण्डासुरतारकस्य ॥ २ ॥
अमूर्तमूर्ताय सहस्रमूर्तये
गुणाय गण्याय परात्पराय ।
अपारपाराय परापराय
नमोऽस्तु तुभ्यं शिखिवाहनाय ॥ ३ ॥
नमोऽस्तु ते ब्रह्मविदां वराय
दिगम्बरायाम्बरसंस्थिताय ।
हिरण्यवर्णाय हिरण्यबाहवे
नमो हिरण्याय हिरण्यरेतसे ॥ ४ ॥
तपः स्वरूपाय तपोधनाय
तपः फलानां प्रतिपादकाय ।
सदा कुमाराय हिमारमारिणे
तृणीकृतैश्वर्य विरागिणे नमः ॥ ५ ॥
नमोऽस्तु तुभ्यं शरजन्मने विभो
प्रभातसूर्यारुणदन्तपङ्क्तये ।
बालाय चाबालपराक्रमाय षा-
-ण्मातुरायालमनातुराय ॥ ६ ॥
मीढुष्टमायोत्तरमीढुषे नमो
नमो गणानां पतये गणाय ।
नमोऽस्तु ते जन्मजरातिगाय
नमो विशाखाय सुशक्तिपाणये ॥ ७ ॥
सर्वस्य नाथस्य कुमारकाय
क्रौञ्चारये तारकमारकाय ।
स्वाहेय गाङ्गेय च कार्तिकेय
शैवेय तुभ्यं सततं नमोऽस्तु ॥ ८ ॥
इति श्रीस्कान्दे महापुराणे काशीखण्डे पञ्चविंशतितमोऽध्याये श्री कार्तिकेयाष्टकम् ।
इतर श्री सुब्रह्मण्य स्तोत्राणि पश्यतु ।
గమనిక: "శ్రీ అయ్యప్ప స్తోత్రనిధి" విడుదల చేశాము. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.