Sri Kamala Ashtottara Shatanamavali – श्री कमलाष्टोत्तरशतनामावली


ओं महामायायै नमः ।
ओं महालक्ष्म्यै नमः ।
ओं महावाण्यै नमः ।
ओं महेश्वर्यै नमः ।
ओं महादेव्यै नमः ।
ओं महारात्र्यै नमः ।
ओं महिषासुरमर्दिन्यै नमः ।
ओं कालरात्र्यै नमः ।
ओं कुह्वै नमः । ९

ओं पूर्णायै नमः ।
ओं आनन्दायै नमः ।
ओं आद्यायै नमः ।
ओं भद्रिकायै नमः ।
ओं निशायै नमः ।
ओं जयायै नमः ।
ओं रिक्तायै नमः ।
ओं महाशक्त्यै नमः ।
ओं देवमात्रे नमः । १८

ओं कृशोदर्यै नमः ।
ओं शच्यै नमः ।
ओं इन्द्राण्यै नमः ।
ओं शक्रनुतायै नमः ।
ओं शङ्करप्रियवल्लभायै नमः ।
ओं महावराहजनन्यै नमः ।
ओं मदनोन्मथिन्यै नमः ।
ओं मह्यै नमः ।
ओं वैकुण्ठनाथरमण्यै नमः । २७

ओं विष्णुवक्षःस्थलस्थितायै नमः ।
ओं विश्वेश्वर्यै नमः ।
ओं विश्वमात्रे नमः ।
ओं वरदायै नमः ।
ओं अभयदायै नमः ।
ओं शिवायै नमः ।
ओं शूलिन्यै नमः ।
ओं चक्रिण्यै नमः ।
ओं मायै नमः । ३६

ओं पाशिन्यै नमः ।
ओं शङ्खधारिण्यै नमः ।
ओं गदिन्यै नमः ।
ओं मुण्डमालायै नमः ।
ओं कमलायै नमः ।
ओं करुणालयायै नमः ।
ओं पद्माक्षधारिण्यै नमः ।
ओं अम्बायै नमः ।
ओं महाविष्णुप्रियङ्कर्यै नमः । ४५

ओं गोलोकनाथरमण्यै नमः ।
ओं गोलोकेश्वरपूजितायै नमः ।
ओं गयायै नमः ।
ओं गङ्गायै नमः ।
ओं यमुनायै नमः ।
ओं गोमत्यै नमः ।
ओं गरुडासनायै नमः ।
ओं गण्डक्यै नमः ।
ओं सरय्वै नमः । ५४

ओं ताप्यै नमः ।
ओं रेवायै नमः ।
ओं पयस्विन्यै नमः ।
ओं नर्मदायै नमः ।
ओं कावेर्यै नमः ।
ओं केदारस्थलवासिन्यै नमः ।
ओं किशोर्यै नमः ।
ओं केशवनुतायै नमः ।
ओं महेन्द्रपरिवन्दितायै नमः । ६३

ओं ब्रह्मादिदेवनिर्माणकारिण्यै नमः ।
ओं वेदपूजितायै नमः ।
ओं कोटिब्रह्माण्डमध्यस्थायै नमः ।
ओं कोटिब्रह्माण्डकारिण्यै नमः ।
ओं श्रुतिरूपायै नमः ।
ओं श्रुतिकर्यै नमः ।
ओं श्रुतिस्मृतिपरायणायै नमः ।
ओं इन्दिरायै नमः ।
ओं सिन्धुतनयायै नमः । ७२

ओं मातङ्ग्यै नमः ।
ओं लोकमातृकायै नमः ।
ओं त्रिलोकजनन्यै नमः ।
ओं तन्त्रायै नमः ।
ओं तन्त्रमन्त्रस्वरूपिण्यै नमः ।
ओं तरुण्यै नमः ।
ओं तमोहन्त्र्यै नमः ।
ओं मङ्गलायै नमः ।
ओं मङ्गलायनायै नमः । ८१

ओं मधुकैटभमथन्यै नमः ।
ओं शुम्भासुरविनाशिन्यै नमः ।
ओं निशुम्भादिहरायै नमः ।
ओं मात्रे नमः ।
ओं हरिशङ्करपूजितायै नमः ।
ओं सर्वदेवमय्यै नमः ।
ओं सर्वायै नमः ।
ओं शरणागतपालिन्यै नमः ।
ओं शरण्यायै नमः । ९०

ओं शम्भुवनितायै नमः ।
ओं सिन्धुतीरनिवासिन्यै नमः ।
ओं गन्धार्वगानरसिकायै नमः ।
ओं गीतायै नमः ।
ओं गोविन्दवल्लभायै नमः ।
ओं त्रैलोक्यपालिन्यै नमः ।
ओं तत्त्वरूपायै नमः ।
ओं तारुण्यपूरितायै नमः ।
ओं चन्द्रावल्यै नमः । ९९

ओं चन्द्रमुख्यै नमः ।
ओं चन्द्रिकायै नमः ।
ओं चन्द्रपूजितायै नमः ।
ओं चन्द्रायै नमः ।
ओं शशाङ्कभगिन्यै नमः ।
ओं गीतवाद्यपरायणायै नमः ।
ओं सृष्टिरूपायै नमः ।
ओं सृष्टिकर्यै नमः ।
ओं सृष्टिसंहारकारिण्यै नमः । १०८

इति श्री कमलाष्टोत्तरशतनामावली ॥


इतर दशमहाविद्या स्तोत्राणि पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed