Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
ध्येयं वदन्ति शिवमेव हि केचिदन्ये
शक्तिं गणेशमपरे तु दिवाकरं वै ।
रूपैस्तु तैरपि विभासि यतस्त्वमेव
तस्मात्त्वमेव शरणं मम शङ्खपाणे ॥ १ ॥
नो सोदरो न जनको जननी न जाया
नैवात्मजो न च कुलं विपुलं बलं वा ।
संदृश्यते न किल कोऽपि सहायको मे
तस्मात्त्वमेव शरणं मम शङ्खपाणे ॥ २ ॥
नोपासिता मदमपास्य मया महान्त-
-स्तीर्थानि चास्तिकधिया नहि सेवितानि ।
देवार्चनं च विधिवन्न कृतं कदापि
तस्मात्त्वमेव शरणं मम शङ्खपाणे ॥ ३ ॥
दुर्वासना मम सदा परिकर्षयन्ति
चित्तं शरीरमपि रोगगणा दहन्ति ।
सञ्जीवनं च परहस्तगतं सदैव
तस्मात्त्वमेव शरणं मम शङ्खपाणे ॥ ४ ॥
पूर्वं कृतानि दुरितानि मया तु यानि
स्मृत्वाखिलानि हृदयं परिकम्पते मे ।
ख्याता च ते पतितपावनता तु यस्मा-
-त्तस्मात्त्वमेव शरणं मम शङ्खपाणे ॥ ५ ॥
दुःखं जराजननं विविधाश्च रोगाः
काकश्वसूकर जनिर्निचये च पातः ।
ते विस्मृतेः फलमिदं विततं हि लोके
तस्मात्त्वमेव शरणं मम शङ्खपाणे ॥ ६ ॥
नीचोऽपि पापवलितोऽपि विनिन्दितोऽपि
ब्रूयात्तवाहमिति यस्तु किलैकवारम् ।
तं यच्छसीश निजलोकमिति व्रतं ते
तस्मात्त्वमेव शरणं मम शङ्खपाणे ॥ ७ ॥
वेदेषु धर्मवचनेषु तथागमेषु
रामायणेऽपि च पुराणकदंबके वा ।
सर्वत्र सर्वविधिना गदितस्त्वमेव
तस्मात्त्वमेव शरणं मम शङ्खपाणे ॥ ८ ॥
इति श्रीपरमहंसस्वामि ब्रह्मानन्दविरचितं श्रीहरिशरणाष्टकं ।
ಗಮನಿಸಿ :"ಪ್ರಭಾತ ಸ್ತೋತ್ರನಿಧಿ" ಪುಸ್ತಕ ಬಿಡುಗಡೆಯಾಗಿದೆ ಮತ್ತು ಈಗ ಖರೀದಿಗೆ ಲಭ್ಯವಿದೆ. Click here to buy
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.