Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
श्रीपराशरभट्टार्यः श्रीरङ्गेशपुरोहितः ।
श्रीवत्साङ्कसुतः श्रीमान् श्रेयसे मेऽस्तु भूयसे ॥
श्रियै समस्तचिदचिद्विधानव्यसनं हरेः ।
अङ्गीकारिभिरालोकैः सार्थयन्त्यै कृतोऽञ्जलिः ॥ १ ॥
उल्लासपल्लवितपालितसप्तलोकी-
-निर्वाहकोरकितनेमकटाक्षलीलाम् ।
श्रीरङ्गहर्म्यतलमङ्गलदीपरेखां
श्रीरङ्गराजमहिषीं श्रियमाश्रयामः ॥ २ ॥
अनुकलतनुकाण्डालिङ्गनारम्भशुम्भत्
प्रतिदिशभुजशाखश्रीसखानोकहर्धिः ।
स्तननयनगुलुच्छस्फारपुष्पद्विरेफा
रचयतु मयि लक्ष्मीकल्पवल्ली कटाक्षान् ॥ ३ ॥
यद्भ्रूभङ्गाः प्रमाणं स्थिरचररचनातारतम्ये मुरारेः
वेदान्तास्तत्त्वचिन्तां मुरभिदुरसि यत्पादचिह्नैस्तरन्ति ।
भोगोपोद्घातकेलीचुलकितभगवद्वैश्वरूप्यानुभावा
सा नः श्रीरास्तृणीताममृतलहरिधीलङ्घनीयैरपाङ्गैः ॥ ४ ॥
यद्यावत्तव वैभवं तदुचितस्तोत्राय दूरे स्पृहा
स्तोतुं के वयमित्यदश्च जगृहुः प्राञ्चो विरिञ्चादयः ।
अप्येवं तव देवि वाङ्मनसयोर्भाषानभिज्ञं पदं
कावाचः प्रयतामहे कवयितुं स्वस्ति प्रशस्त्यै गिराम् ॥ ५ ॥
स्तोतारं तमुशन्ति देवि कवयो यो विस्तृणीते गुणान्
स्तोतव्यस्य ततश्च ते स्तुतिधुरा मय्येव विश्राम्यति ।
यस्मादस्मदमर्षणीयफणितिस्वीकारतस्ते गुणाः
क्षान्त्यौदार्यदयादयो भगवति स्वां प्रस्नुवीरन् प्रथाम् ॥ ६ ॥
सूक्तिं समग्रयतु नः स्वयमेव लक्ष्मीः
श्रीरङ्गराजमहिषी मधुरैः कटाक्षैः ।
वैदग्ध्यवर्णगुणगुम्भनगौरवैर्यां
कण्डूलकर्णकुहराः कवयो धयन्ति ॥ ७ ॥
अनाघ्रातावद्यं बहुगुणपरीणाहि मनसो
दुहानं सौहार्दं परिचितमिवाथापि गहनम् ।
पदानां सौभ्रात्रादनिमिषनिषेव्यं श्रवणयोः
त्वमेव श्रीर्मह्यं बहुमुखय वाणीविलसितम् ॥ ८ ॥
श्रियः श्रीः श्रीरङ्गेशय तव च हृद्यां भगवतीं
श्रियं त्वत्तोऽप्युच्चैर्वयमिह फणामः शृणुतराम् ।
दृशौ ते भूयास्तां सुखतरलतारे श्रवणतः
पुनर्हर्षोत्कर्षात् स्फुटतु भुजयोः कञ्चुकशतम् ॥ ९ ॥
देवि श्रुतिं भगवतीं प्रथमे पुमांसः
त्वत्सद्गुणौघमणिकोशगृहं गृणन्ति ।
तद्द्वारपाटनपटूनि च सेतिहास-
-सन्तर्कणस्मृतिपुराणपुरस्सराणि ॥ १० ॥
आहुर्वेदानमानं कतिचन कतिचाराजकं विश्वमेतत्
राजन्वत्केचिदीशं गुणिनमपि गुणैस्तं दरिद्राणमन्ये ।
भिक्षावन्ये सुराजम्भवमिति च जडास्ते तलातल्यकार्षुः
ये ते श्रीरङ्गहर्म्याङ्गणकनकलते न क्षणं लक्ष्यमासन् ॥ ११ ॥
मनसि विलसताऽक्ष्णा भक्तिसिद्धाञ्जनेन
श्रुतिशिरसि निगूढं लक्ष्मि ते वीक्षमाणाः ।
निधिमिव महिमानं भुञ्जते येऽपि धन्याः
ननु भगवति दैवीं सम्पदं तेऽभिजाताः ॥ १२ ॥
अस्येशाना जगत इति तेऽधीमहे यां समृद्धिं
श्रीः श्रीसूक्तं बहुमुखयते तां च शाखानुशाखम् ।
ईष्टे कश्चिज्जगत इति यः पौरुषे सूक्त उक्तः
तं च त्वत्कं पतिमधिजगावुत्तरश्चानुवाकः ॥ १३ ॥
उद्बाहुस्त्वामुपनिषदसावाह नैका नियन्त्रीं
श्रीमद्रामायणमपि परं प्राणिति त्वच्चरित्रे ।
स्मर्तारोऽस्मज्जननि यतमे सेतिहासैः पुराणैः
नित्युर्वेदानपि च ततमे त्वन्महिम्नि प्रमाणम् ॥ १४ ॥
आकुग्रामनियामकादपि विभोरासर्वनिर्वाहकात्
ऐश्वर्यं यदिहोत्तरोत्तरगुणं श्रीरङ्गभर्तुः प्रिये ।
तुङ्गं मङ्गलमुज्ज्वलं गरिमवत् पुण्यं पुनः पावनं
धन्यं यत्तददश्च वीक्षणभुवस्ते पञ्चषाः विप्रुषः ॥ १५ ॥
एको मुक्तातपत्रप्रचलमणिघणात्कारिमौलिर्मनुष्यो
दृप्यद्दन्तावलस्थो न गणयति नतान् यत्क्षणं क्षोणिपालान् ।
यत्तस्मै तिष्ठतेऽन्यः कृपणमशरणो दर्शयन् दन्तपङ्क्ती
तत्ते श्रीरङ्गराजप्रणयिनि नयनोदञ्चितान्यञ्चिताभ्याम् ॥ १६ ॥
रतिर्मतिसरस्वती धृतिसमृद्धिसिद्धिश्रियः
सुधासखि यतोमुखं चिचलिषेत्तव भ्रूलता ।
ततोमुखमथेन्दिरे बहुमुखीमहम्पूर्विकां
विगाह्य च वशंवदाः परिवहन्ति कूलङ्कषाः ॥ १७ ॥
सह स्थिरपरित्रसव्रजविरिञ्चनाकिञ्चनैः
अनोकहबृहस्पतिप्रबलविक्लबप्रक्रियम् ।
इदं सदसदात्मना निखिलमेव निम्नोन्नतं
कटाक्षतदुपेक्षयोस्तव हि लक्ष्मि तत्ताण्डवम् ॥ १८ ॥
काले शंसति योग्यतां चिदचितोरन्योन्यमालिङ्गतोः
भूताहङ्कृतिबुद्धिपञ्चकरणीस्वान्तप्रवृत्तीन्द्रियैः ।
अण्डानावरणैः सहस्रमकरोत्तान्भूर्भुवः सर्वतः
श्रीरङ्गेश्वरदेवि ते विहृतये सङ्कल्पमानः प्रियः ॥ १९ ॥
शब्दादीन् विषयान् प्रदर्श्य विभवं विस्मार्य दास्यात्मकं
वैष्णव्या गुणमाययाऽऽत्मनिवहान् विप्लाव्य पूर्वः पुमान् ।
पुंसा पण्यवधूविडम्बिवपुषा धूर्तानिवायासयन्
श्रीरङ्गेश्वरि कल्पते तव परीहासात्मने केलये ॥ २० ॥
यद्दूरे मनसो यदेव तमसः पारे यदत्यद्भुतं
यत्कालादपचेलिमं सुरपुरी यद्गच्छतो दुर्गतिः ।
सायुज्यस्य यदेव सूतिरथवा यद्दुर्ग्रहं मद्गिरां
तद्विष्णोः परमं पदं तव कृते मातः समाम्नासिषुः ॥ २१ ॥
हेलायामखिलं चराचरमिदं भोगे विभूतिः परा
पुण्यास्ते परिचारकर्मणि सदा पश्यन्ति ये सूरयः ।
श्रीरङ्गेश्वरदेवि केवलकृपानिर्वाह्यवर्गे वयं
शेषित्वे परमः पुमान् परिकरा ह्येते तव स्फारणे ॥ २२ ॥
आज्ञानुग्रहभीमकोमलपुरीपाला फलं भेजुषां
याऽयोध्येत्यपराजितेति विदिता नाकं परेण स्थिता ।
भावैरद्भुतभोगभूमगहनैः सान्द्रा सुधास्यन्दिभिः
श्रीरङ्गेश्वरगेहलक्ष्मि युवयोस्तां राजधानीं विदुः ॥ २३ ॥
तस्यां च त्वत्कृपावन्निरवधिजनताविश्रमार्हावकाशं
सङ्कीर्णं दास्यतृष्णाकलितपरिकरैः पुम्भिरानन्दनिघ्नैः ।
स्नेहादास्थानरक्षाव्यसनिभिरभयं शार्ङ्गचक्रासिमुख्यै-
-रानन्दैकार्णवं श्रीर्भगवति युवयोराहुरास्थानरत्नम् ॥ २४ ॥
तत्र स्रक्स्पर्शगन्धं स्फुरदुपरिफणारत्नरोचिर्वितानं
विस्तीर्यानन्तभोगं तदुपरि नयता विश्वमेकातपत्रम् ।
तैस्तैः कान्तेन शान्तोदितगुणविभवैरर्हता त्वामसङ्ख्यैः
अन्योन्याद्वैतनिष्ठाघनरसगहनान् देवि बध्नासि भोगान् ॥ २५ ॥
भोग्या वामपि नान्तरीयकतया पुष्पाङ्गरागैः समं
निर्वृत्तप्रणयातिवाहनविधौ नीताः परीवाहताम् ।
देवि त्वामनु नीलया सह महीदेव्यः सहस्रं तथा
याभिस्वं स्तनबाहुदृष्टिभिरिव स्वाभिः प्रियं श्लाघसे ॥ २६ ॥
ते साध्याः सन्ति देवा जननि गुणवपुर्वेषवृत्तस्वरूपैः
भोगैर्वा निर्विशेषाः सवयस इव ये नित्यनिर्दोषगन्धाः
हे श्रीः श्रीरङ्गभर्तुस्तव च पदपरीचारवृत्त्यै सदाऽपि
प्रेमप्रद्राणभावाविलहृदयहठात्कारकैङ्कर्यभोगाः ॥ २७ ॥
स्वरूपं स्वातन्त्र्यं भगवत इदं चन्द्रवदने
त्वदाश्लेषोत्कर्षाद्भवति खलु निष्कर्षसमये ।
त्वमासीर्मातः श्रीः कमितुरिदमित्थन्त्वविभव-
-स्तदन्तर्भावात्त्वां न पृथगभिधत्ते श्रुतिरपि ॥ २८ ॥
तव स्पर्शादीशं स्पृशति कमले मङ्गलपदं
तवेदं नोपाधेरुपनिपतितं श्रीरसि यतः ।
प्रसूनं पुष्यन्तीमपि परिमलर्धिं जिगदिषुः
न चैवं त्वादेवं स्वदत इति कश्चित्कवयते ॥ २९ ॥
अपाङ्गा भूयांसो यदुपरि परं ब्रह्म तदभू-
-दमी यत्र द्वित्राः स च शतमखादिस्तदधरात् ।
अतः श्रीराम्नायस्तदुभयमुशंस्त्वां प्रणिजगौ
प्रशस्तिः सा राज्ञो यदपि च पुरीकोशकथनम् ॥ ३० ॥
स्वतः श्रीस्त्वं विष्णोः स्वमसि तत एवैष भगवान्
त्वदायत्तर्धित्वेऽप्यभवदपराधीनविभवः ।
स्वया दीप्त्या रत्नं भवदपि महार्घं न विगुणं
न कुण्ठस्वातन्त्र्यं भवति च न चान्याहितगुणम् ॥ ३१ ॥
प्रशकनबलज्योतिर्ज्ञानैश्वरीविजयप्रथा-
-प्रणतवरणप्रेमक्षेमङ्करत्वपुरस्सराः
अपि परिमलः कान्तिर्लावण्यमर्चिरितीन्दिरे
तव भगवतश्चैते साधारणाः गुणराशयः ॥ ३२ ॥
अन्येऽपि यौवनमुखाः युवयोः समानाः
श्रीरङ्गमङ्गलविजृम्भणवैजयन्ति
तस्मिंस्तव त्वयि च तस्य परस्परेण
संस्तीर्य दर्पण इव प्रचुरं स्वदन्ते ॥ ३३ ॥
युवत्वादौ तुल्येऽप्यपरवशताशत्रुशमन-
-स्थिरत्वादीन् कृत्वा भगवति गुणान् पुंस्त्वसुलभान् ।
त्वयि स्त्रीत्वैकान्तान् म्रदिमपतिपारार्थ्यकरुणा-
-क्षमादीन्वा भोक्तुं भवति युवयोरात्मनि भिदा ॥ ३४ ॥
घनकनकद्युती युवदशामपि मुग्धदशां
युवतरुणत्वयोरुचितमाभरणादि परम् ।
ध्रुवमसमानदेशविनिवेशि विभज्य हरौ
त्वयि च कुशेशयोदरविहारिणि निर्विशसि ॥ ३५ ॥
अङ्गं ते मृदुशीतमुग्धमधुरोदारैर्गुणैर्गुम्भतः
क्षीराब्धेः किमृजीषतामुपगता मन्ये महार्घास्ततः ।
इन्दुः कल्पलता सुधामधुमुखा इत्याविलां वर्णनां
श्रीरङ्गेश्वरि शान्तकृत्रिमकथं दिव्यं वपुर्नार्हति ॥ ३६ ॥
प्रणमदनुविधित्सावासनानम्रमग्रे
प्रणयिपरिचिचीषाकुञ्चितं पार्श्वकेन ।
कनकनिकषचञ्चच्चम्पकस्रक्समान-
-प्रवरमिदमुदारं वर्ष्म वाचामभूमिः ॥ ३७ ॥
एकं न्यञ्च्य नतिक्षमं मम परं चाकुञ्च्य पादाम्बुजं
मध्ये विष्टरपुण्डरीकमभयं विन्यस्य हस्ताम्बुजम् ।
त्वां पश्येम निषेदुषीं प्रतिकलं कारुण्यकूलङ्कष-
-स्फारापाङ्गतरङ्गमम्ब मधुरं मुग्धं मुखं बिभ्रतीम् ॥ ३८ ॥
सुरभितनिगमान्तं वन्दिषीयेन्दिरायाः
तव कमलपलाशप्रक्रियं पादयुग्मम् ।
वहति यदुपमर्दैर्वैजयन्ती हिमाम्भः
प्लुतिभिरिव नवत्वं कान्तबाहान्तराले ॥ ३९ ॥
त्वत्स्वीकारकलावलेपकलुषा राज्ञां दृशो दुर्वचाः
नित्यं त्वन्मधुपानमत्तमधुपश्रीनिर्भराभ्यां पतिम् ।
दृग्भ्यामेव हि पुण्डरीकनयनं वेदो विदामास ते
साक्षाल्लक्ष्मि तवावलोकविभवः काक्वा कया वर्ण्यते ॥ ४० ॥
आनन्दात्मभिरीशमज्जनमदक्षीबालसैरागल-
-प्रेमार्द्रैरपि कूलमुद्वहकृपासम्प्लावितास्मादृशैः ।
पद्मे! ते प्रतिबिन्दुबद्धकलिकब्रह्मादिविष्कम्भकैः
ऐश्वर्योद्गमगद्गदैरशरणं मां पालयालोकितैः ॥ ४१ ॥
पादारुन्तुदमेव पङ्कजरजश्चेटीभृशालोकितैः
अङ्गम्लानिरथाम्ब साहसविधौ लीलारविन्दग्रहः
डोला ते वनमालया हरिभुजे हा कष्टशब्दास्पदं
केन श्रीरतिकोमला तनुरियं वाचां विमर्दक्षमा ॥ ४२ ॥
आमर्यादमकण्टकं स्तनयुगं नाद्यापि नालोकित-
-भ्रूभेदस्मितविभ्रमा जहति वा नैसर्गिकत्वायशः ।
सूते शैशवयौवनव्यतिकरो गात्रेषु ते सौरभं
भोगस्रोतसि कान्तदेशिककरग्राहेण गाहक्षमः ॥ ४३ ॥
आमोदाद्भुतशालि यौवनदशाव्याकोचमम्लानिमत्
सौन्दर्यामृतसेकशीतलमिदं लावण्यसूत्रार्पितम् ।
श्रीरङ्गेश्वरि कोमलाङ्गसुमनः सन्दर्भणं देवि ते
कान्तोरःप्रतियत्नमर्हति कविं धिङ्मामकाण्डाकुलम् ॥ ४४ ॥
मर्मस्पृशो रससिरा व्यतिविध्य वृत्तैः
कान्तोपभोगललितैर्लुलिताङ्गयष्टिः ।
पुष्पावलीव रसिकभ्रमरोपभुक्ता
त्वं देवि नित्यमभिनन्दयसे मुकुन्दम् ॥ ४५ ॥
कनकरशनामुक्ताताटङ्कहारललाटिका-
-मणिसरतुलाकोटिप्रायैर्जनार्दनजीविके ।
प्रकृतिमधुरं गात्रं जागर्ति मुग्धविभूषणैः
वलयशकलैर्दुग्धं पुष्पैश्च कल्पलता यथा ॥ ४६ ॥
सामान्यभोग्यमपि कौस्तुभवैजयन्ती-
-पञ्चायुधादि रमणः स्वयमेव बिभ्रत् ।
तद्भारखेदमिव ते परिहर्तुकामः
श्रीरङ्गधाममणिमञ्जरि गाहते त्वाम् ॥ ४७ ॥
यदि मनुजतिरश्चां लीलया तुल्यवृत्तेः
अनुजनुरनुरूपा देवि नावातरिष्यः ।
असरसमभविष्यन्नर्म नाथस्य मातः
दरदलदरविन्दोदन्तकान्तायताक्षि ॥ ४८ ॥
स्खलितकटकमाल्यैर्दोर्भिरब्धिं मुरारेः
भगवति दधिमाथं मथ्नतः श्रान्तिशान्त्यै ।
भ्रमदमृतरङ्गावर्ततः प्रादुरासीः
स्मितनयनसुधाभिः सिञ्चती चन्द्रिकेव ॥ ४९ ॥
मातर्मैथिलि राक्षसीस्त्वयि तदैवार्द्रापराधास्त्वया
रक्षन्त्या पवनात्मजाल्लघुतरा रामस्य गोष्ठी कृता
काकं तं च विभीषणं शरणमित्युक्तिक्षमौ रक्षतः
सा नः सान्द्रमहागसः सुखयतु क्षान्तिस्तवाऽऽकस्मिकी ॥ ५० ॥
मातर्लक्ष्मि यथैव मैथिलजनस्तेनाध्वना ते वयं
त्वद्दास्यैकरसाभिमानसुभगैर्भावैरिहामुत्र च ।
जामाता दयितस्तवेति भवतीसम्बन्धदृष्ट्या हरिं
पश्येम प्रतियाम याम च परीचारान् प्रहृष्येम च ॥ ५१ ॥
पितेव त्वत्प्रेयान् जननि परिपूर्णागसि जने
हितस्रोतोवृत्त्या भवति च कदाचित् कलुषधीः ।
किमेतन्निर्दोषः क इह जगतीति त्वमुचितैः
उपायैर्विस्मार्य स्वजनयसि माता तदसि नः ॥ ५२ ॥
नेतुर्नित्यसहायिनी जननि नस्त्रातुं त्वमत्रागता
लोके त्वन्महिमावबोधबधिरे प्राप्ता विमर्दं बहु ।
क्लिष्टं ग्रावसु मालतीमृदुपदं विश्लिष्य वासो वने
जातो धिक्करुणां धिगस्तु युवयोः स्वातन्त्र्यमत्यङ्कुशम् ॥ ५३ ॥
अधिशयितवानब्धिं नाथो ममन्थ बबन्ध तं
हरधनुरसौ वल्लीभञ्जं बभञ्ज च मैथिलि ।
अपि दशमुखीं लूत्वा रक्षः कबन्धमनर्तयत्
किमिव न पतिः कर्ता त्वच्चाटुचुञ्चुमनोरथः ॥ ५४ ॥
दशशतपाणिपादवदनाक्षिमुखैरखिलैः
अपि निजवैश्वरूप्यविभवैरनुरूपगुणैः ।
अवतरणैरतैश्च रसयन् कमिता कमले
क्वचन हि विभ्रमभ्रमिमुखे विनिमज्जति ते ॥ ५५ ॥
जननभवनप्रीत्या दुग्धार्णवं बहुमन्यसे
जननि दयितप्रेम्णा पुष्णासि तत्परमं पदम् ।
उदधिपरमव्योम्नोर्विस्मृत्य मादृशरक्षण-
-क्षममिति धिया भूयः श्रीरङ्गधामनि मोदसे ॥ ५६ ॥
औदार्यकारुणिकताश्रितवत्सलत्व-
-पूर्वेषु सर्वमतिशायितमत्र मातः ।
श्रीरङ्गधाम्नि यदुतान्यदुदाहरन्ति
सीतावतारमुखमेतदमुष्य योग्या ॥ ५७ ॥
ऐश्वर्यमक्षरगतिं परमं पदं वा
कस्मैचिदञ्जलिभरं वहते वितीर्य
अस्मै न किञ्चिदुचितं कृतमित्यथाम्ब
त्वं लज्जसे कथय कोऽयमुदारभावः ॥ ५८ ॥
ज्ञानक्रियाभजनसम्पदकिञ्चनोऽहं
इच्छाधिकारशकनानुशयानभिज्ञः ।
आगांसि देवि युवयोरपि दुःसहानि
बध्नामि मूर्खचरितस्तव दुर्भरोऽस्मि ॥ ५९ ॥
इत्युक्तिकैतवशतेन विडम्बयामि
तानम्ब सत्यवचसः पुरुषान् पुराणान् ।
यद्वा न मे भुजबलं तव पादपद्म-
-लाभे त्वमेव शरणं विधितः कृताऽसि ॥ ६० ॥
श्रीरङ्गे शरदः शतं सह सुहृद्वर्गेण निष्कण्टकं
निर्दुःखं सुसुखञ्च दास्यरसिकां भुक्त्वा समृद्धिं पराम् ।
युष्मत्पादसरोरुहान्तररजःस्याम त्वमम्बा पिता
सर्वं धर्ममपि त्वमेव भव नः स्वीकुर्वकस्मात्कृपाम् ॥ ६१ ॥
इति श्रीपराशरभट्टार्यैरनुगृहीतः श्रीगुणरत्नकोशः ।
इतर श्री लक्ष्मी स्तोत्राणि पश्यतु ।
మా ప్రచురణ: "శ్రీ బగళాముఖీ స్తోత్రనిధి (తాత్పర్య సహితం)" ప్రింటింగు పూర్తి అయి కొనుగోలుకు సిద్ధంగా ఉంది.
స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా తెలుగు వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.
Support this Dharma Karya : If you find value in the Stotranidhi collection, please consider supporting this work. You can make a contribution through these links - PhonePe/GooglePay/BHIM (within India) or Paypal (outside India)
Buy Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".
విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.
Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

