Sri Gopala Vimsathi – श्री गोपाल विम्शति


श्रीमान्वेङ्कटनाथार्यः कवितार्किककेसरी ।
वेदान्ताचार्यवर्यो मे सन्निधत्तां सदा हृदि ॥

वन्दे बृन्दावनचरं वल्लवी जनवल्लभं ।
जयन्तीसम्भवं धाम वैजयन्ती विभूषणम् ॥ १ ॥

वाचं निजाङ्करसिकां प्रसमीक्षमाणो
वक्त्रारविन्दविनिवेशितपाञ्चजन्यः ।
वर्णत्रिकोणरुचिरे वरपुण्डरीके
बद्धासनो जयति वल्लवचक्रवर्ती ॥ २ ॥

आम्नायगन्धिरुचिरस्फुरिताधरोष्ठं
आस्राविलेक्षणमनुक्षणमन्दहासं ।
गोपालडिम्भवपुषं कुहना जनन्याः
प्राणस्तनन्धयमवैमि परं पुमांसम् ॥ ३ ॥

आविर्भवत्वनिभृताभरणं पुरस्तात्
आकुञ्चितैकचरणं निभृतान्यपादं ।
दध्नानिमन्थमुखरेण निबद्धतालं
नाथस्य नन्दभवने नवनीतनाट्यम् ॥ ४ ॥

हर्तुं कुम्भे विनिहितकरस्स्वादु हैयङ्गवीनं
दृष्ट्वा दामग्रहणचटुलां मातरं जातरोषां ।
पायादीषत्प्रचलितपदो नापगच्छन्न तिष्ठन्
मिथ्यागोपस्सपदि नयने मीलयन् विश्वगोप्ता ॥ ५ ॥

व्रजयोषिदपाङ्ग वेदनीयं
मधुराभाग्यमनन्यभोग्यमीडे ।
वसुदेववधू स्तनन्धयं तत्
किमपि ब्रह्म किशोरभावदृश्यम् ॥ ६ ॥

परिवर्तितकन्धरं भयेन
स्मितफुल्लाधरपल्लवं स्मरामि ।
विटपित्वनिरासकं कयोश्चित्
विपुलोलूखलकर्षकं कुमारम् ॥ ७ ॥

निकटेषु निशामयामि नित्यं
निगमान्तैरधुनाऽपि मृग्यमाणं ।
यमलार्जुनदृष्टबालकेलिं
यमुनासाक्षिकयौवनं युवानम् ॥ ८ ॥

पदवीमदवीयसीं विमुक्तेः
अटवी सम्पदमम्बु वाहयन्तीं ।
अरुणाधरसाभिलाषवंशां
करुणां कारणमानुषीं भजामि ॥ ९ ॥

अनिमेषनिषेवणीयमक्ष्णोः
अजहद्यौवनमाविरस्तु चित्ते ।
कलहायितकुन्तलं कलापैः
करुणोन्मादकविभ्रमं महो मे ॥ १० ॥

अनुयायिमनोज्ञवंशनालैः
अवतु स्पर्शितवल्लवीविमोहैः ।
अनघस्मितशीतलैरसौ माम्
अनुकम्पासरिदम्बुजैरपाङ्गैः ॥ ११ ॥

अधराहितचारुवंशनालाः
मकुटालम्बिमयूरपिञ्छमालाः ।
हरिनीलशिलाविभङ्गनीलाः
प्रतिभास्सन्तु ममान्तिमप्रयाणे ॥ १२ ॥

अखिलानवलोकयामि कालान्
महिलाधीनभुजान्तरस्ययूनः ।
अभिलाषपदं व्रजाङ्गनानाम्
अभिलापक्रमदूरमाभिरूप्यम् ॥ १३ ॥

हृदि मुग्धशिखण्डमण्डनो
लिखितः केन ममैष शिल्पिना ।
मदनातुरपल्लवाङ्गना-
वदनाम्भोजदिवाकरो युवा ॥ १४ ॥

महसे महिताय मौलिना
विनतेनाञ्जलिमञ्जनत्विषे ।
कलयामि विमुग्धवल्लवी-
वलयाभाषितमञ्जुवेणवे ॥ १५ ॥

जयति ललितवृत्तिं शिक्षितो वल्लवीनां
शिथिलवलयशिञ्जाशीतलैर्हस्ततालैः ।
अखिलभुवनरक्षागोपवेषस्य विष्णोः
अधरमणिसुधायामंशवान्वंशनालः ॥ १६ ॥

चित्राकल्प श्रवसि कलयन् लाङ्गलीकर्णपूरं
बर्होत्तंसस्फुरितचिकुरो बन्धुजीवं दधानः ।
गुञ्जाबद्धामुरसि ललितां धारयन् हारयष्टिं
गोपस्त्रीणां जयति कितवः कोऽपि कौमारहारी ॥ १७ ॥

लीलायष्टिं करकिसलये दक्षिणे न्यस्य धन्यां
अंसे देव्याः पुलकरुचिरे सन्निविष्टान्यबाहुः ।
मेघश्यामो जयति ललितो मेखलादत्तवेणुः
गुञ्जापीडस्फुरितचिकुरो गोपकन्याभुजङ्गः ॥ १८ ॥

प्रत्यालीढस्थितिमधिगतां प्राप्तगाढाङ्गपालिं
पश्चादीषन्मिलितनयनां प्रेयसीं प्रेक्षमाणः ।
भस्त्रायन्त्रप्रणिहितकरो भक्तजीवातुरव्यात्
वारिक्रीडानिबिडवसनो वल्लवीवल्लभो नः ॥ १९ ॥

वासो हृत्वा दिनकरसुतासन्निधौ वल्लवीनां
लीलास्मेरो जयति ललितामास्थितः कुन्दशाखां ।
सव्रीडाभिस्तदनु वसने ताभिरभ्यर्थ्यमाने
कामी कश्चित्करकमलयोरञ्जलिं याचमानः ॥ २० ॥

इत्यनन्यमनसा विनिर्मितां
वेङ्कटेशकविना स्तुतिं पठन् ।
दिव्यवेणुरसिकं समीक्षते
दैवतं किमपि यौवतप्रियम् ॥ २१ ॥

इति श्रीवेदान्ताचार्यस्य कृतिषु गोपालविम्शतिः ॥

Report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

Your email address will not be published.

error: Not allowed
%d bloggers like this: