Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
वाणीं जितशुकवाणी मलिकुलवेणीं भवाम्बुधिद्रोणिं ।
वीणाशुकशिशुपाणिं नतगीर्वाणीं नमामि शर्वाणीम् ॥ १ ॥
कुवलयदलनीलाङ्गीं कुवलयरक्षैकदीक्षितापाङ्गीम् ।
लोचनविजितकुरङ्गीं मातङ्गीं न्ॐइ शङ्करार्धाङ्गीम् ॥ २ ॥
कमलां कमलजकान्तां कलसारसदत्तकान्तकरकमलां ।
करयुगलविधृतकमलां विमलाङ्कमलाङ्कचूडसकलकलाम् ॥ ३ ॥
सुन्दरहिमकरवदनां कुन्दसुरदनां मुकुन्दनिधिसदनां ।
करुणोज्जीवितमदनां सुरकुशलायासुरेषु कृतदमनाम् ॥ ४ ॥
अरुणाधरजितबिम्बां जगदम्बां गमनविजितकादम्बां ।
पालितसुतजनकदम्बां पृथुलनितम्बां भजे सहेरम्बाम् ॥ ५ ॥
शरणागतजनभरणां करुणावरुणालयाब्जचरणां ।
मणिमयदिव्याभरणां चरणाम्भोजातसेवकोद्धरणाम् ॥ ६ ॥
तुङ्गस्तनजितकुम्भां कृतपरिरम्भां शिवेन गुहडिंभां ।
दारितशुम्भनिशुम्भां नर्तितरम्भां पुरो विगतदम्भाम् ॥ ७ ॥
नतजनरक्षादीक्षां दक्षां प्रत्यक्षदैवताध्यक्षाम् ।
वाहीकृतहर्यक्षां क्षपितविपक्षां सुरेषु कृतरक्षाम् ॥ ८ ॥
धन्यां सुरवरमान्यां हिमगिरिकन्यान्त्रिलोकमूर्धन्यां ।
विहृतसुरद्रुमवन्यां वेद्मि विना त्वांनदेवतामन्याम् ॥ ९ ॥
एतां नवमणिमालां पठन्ति भक्त्येहा ये पराशक्त्या ।
तेषां वदने सदने नृत्यति वाणी रमा च परममुदा ॥ १० ॥
इतर देवी स्तोत्राणि पश्यतु ।
గమనిక: "శ్రీ అయ్యప్ప స్తోత్రనిధి" విడుదల చేశాము. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.