Sri Garuda Kavacham – श्री गरुड कवचम्


अस्य श्री गरुड कवच स्तोत्रमन्त्रस्य नारद ऋषिः वैनतेयो देवता अनुष्टुप् छन्दः मम श्री वैनतेय प्रीत्यर्थे जपे विनियोगः ।

शिरो मे गरुडः पातु ललाटं विनतासुतः ।
नेत्रे तु सर्पहा पातु कर्णौ पातु सुरार्चितः ॥ १ ॥

नासिकां पातु सर्पारिः वदनं विष्णुवाहनः ।
सूर्यसूतानुजः कण्ठं भुजौ पातु महाबलः ॥ २ ॥

हस्तौ खगेश्वरः पातु कराग्रे तरुणाकृतिः ।
नखान् नखायुधः पातु कक्षौ मुक्तिफलप्रदः ॥ ३ ॥

स्तनौ मे विहगः पातु हृदयं पातु सर्पहा ।
नाभिं पातु महातेजाः कटिं पातु सुधाहरः ॥ ४ ॥

ऊरू पातु महावीरः जानुनी चण्डविक्रमः ।
जङ्घे दण्डायुधः पातु गुल्फौ विष्णुरधः सदा ॥ ५ ॥

सुपर्णः पातु मे पादौ तार्क्ष्यः पादाङ्गुली तथा ।
रोमकूपानि मे वीरो त्वचं पातु भयापहा ॥ ६ ॥

इत्येवं कवचं दिव्यं पापघ्नं सर्वकामदम् ।
यः पठेत् प्रातरुत्थाय विषदोषं प्रणश्यति ॥ ७ ॥

त्रिसन्ध्यं यः पठेन्नित्यं बन्धनात् मुच्यते नरः ।
द्वादशाहं पठेद्यस्तु मुच्यते शत्रुबन्धनात् ॥ ८ ॥

एकवारं पठेद्यस्तु मुच्यते सर्वकिल्बिषैः ।
वज्रपञ्जरनामेदं कवचं बन्धमोचनम् ॥ ९ ॥

इति श्रीनारदगरुडसंवादे श्री गरुड कवचम् ॥


इतर श्री विष्णु स्तोत्राणि पश्यतु |


మా తదుపరి ప్రచురణ : శ్రీ విష్ణు స్తోత్రనిధి ముద్రించుటకు ఆలోచన చేయుచున్నాము. ఇటీవల శ్రీ దక్షిణామూర్తి స్తోత్రనిధి పుస్తకము విడుదల చేశాము. Click here to buy.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed