Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
गजाननाय गाङ्गेयसहजाय सदात्मने ।
गौरीप्रियतनूजाय गणेशायास्तु मङ्गलम् ॥ १ ॥
नागयज्ञोपवीताय नतविघ्नविनाशिने ।
नन्द्यादिगणनाथाय नायकायास्तु मङ्गलम् ॥ २ ॥
इभवक्त्राय चेन्द्रादिवन्दिताय चिदात्मने ।
ईशानप्रेमपात्राय चेष्टदायास्तु मङ्गलम् ॥ ३ ॥
सुमुखाय सुशुण्डाग्रोक्षिप्तामृतघटाय च ।
सुरबृन्दनिषेव्याय सुखदायास्तु मङ्गलम् ॥ ४ ॥
चतुर्भुजाय चन्द्रार्धविलसन्मस्तकाय च ।
चरणावनतानर्थ तारणायास्तु मङ्गलम् ॥ ५ ॥
वक्रतुण्डाय वटवे वन्द्याय वरदाय च ।
विरूपाक्षसुतायास्तु विघ्ननाशाय मङ्गलम् ॥ ६ ॥
प्रमोदामोदरूपाय सिद्धिविज्ञानरूपिणे ।
प्रकृष्टपापनाशाय फलदायास्तु मङ्गलम् ॥ ७ ॥
मङ्गलं गणनाथाय मङ्गलं हरसूनवे ।
मङ्गलं विघ्नराजाय विघ्नहर्त्रेस्तु मङ्गलम् ॥ ८ ॥
श्लोकाष्टकमिदं पुण्यं मङ्गलप्रदमादरात् ।
पठितव्यं प्रयत्नेन सर्वविघ्ननिवृत्तये ॥ ९ ॥
इति श्री गणपति मङ्गलाष्टकम् ।
इतर श्री गणेश स्तोत्राणि पश्यतु ।
గమనిక: "శ్రీ అయ్యప్ప స్తోత్రనిధి" విడుదల చేశాము. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.